एकम् एव मनो जन्तोर् यथा प्रयतते हि यत् । नूनं तत् तद् अवाप्नोति स्वत एव न दैवतः
मनश् चित्तं वासना च कर्म दैवं स्वनिश्चयः । राम पुंनिश्चयस्यैतास् सञ्ज्ञास् सद्भिर् उदाहृताः
एवंनामा हि पुरुषो दृढभावनया यथा । नित्यं प्रयतते राम फलम् आप्नोत्य् अलं तथा
एवं पुरुषकारेण सर्वम् एव रघूद्वह । प्राप्यते नेतरेणेह तस्मात् स शुभदो ऽस्तु ते
प्राक्तनं वासनाजालं नियोजयति मां यथा । मुने तथैव तिष्ठामि कृपणः किं करोम्य् अहम्
अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् । स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा
द्विविधो वासनाव्यूहश् शुभश् चैवाशुभश् च ते । प्राक्तनो विद्यते राम द्वयोर् एकतरो ऽथ वा
वासनौघेन शुद्धेन तत्र चेद् अद्य नीयसे । तत् क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम्
अथ चेद् अशुभो भावस् त्वां योजयति सङ्कटे । प्राक्तनस् तद् असौ यत्नाज् जेतव्यो भवता बलात्
प्राज्ञ चेतनमात्रं त्वं न देहस् त्वं जडात्मकः । तद् एव चेतस्य् अन्येन चेत् तत् त्वं क्वेव विद्यसे
अन्यस् त्वां चेतयति चेत् तत् त्वय्य् असति को ऽपरः । कम् इमं चेतयेत् तस्माद् अनवस्था न वास्तवी
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि
अशुभेषु समाविष्टं शुभेष्व् एवावतारयेत् । स्वमनः पुरुषार्थेन बलेन बलिनां वर
अशुभाच् चलितं याति शुभं तस्माद् अपीतरत् । जन्तोश् चित्तं तु पशुवत् तस्मात् तत् पालयेत् सदा
समतासान्त्वनेनाशु न द्रागिति शनैश् शनैः । पौरुषेण प्रयत्नेन पालयेच् चित्तबालकम्
वासनौघस् त्वया पूर्वम् अभ्यासेन घनीकृतः । शुभो वाप्य् अशुभो राम शुभम् अद्य घनीकुरु
प्रागभ्यासवशाद् याता यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वम् अरिमर्दन
इदानीम् अपि ते याति घनतां वासनानघ । अभ्यासवशतस् तस्माच् छुभाभ्यासम् उपाहर
पूर्वं चेद् घनतां याता नाभ्यासात् तव वासना । वर्धिष्यते तु नेदानीम् अपि तात सुखी भव
सन्दिग्धायाम् अपि भृशं शुभम् एव समाहर । अस्यां तु वासनावृद्धौ शुभाद् दोषो न कश्चन
यद् यद् अभ्यस्यते लोके तन्मयेनैव भूयते । इत्य् आकुमारं प्राज्ञेषु दृष्टं सन्देहवर्जितम्
शुभवासनया युक्तस् तद् अत्र भव भूतये । परं पौरुषम् आश्रित्य विजित्येन्द्रियपञ्चकम्
अव्युत्पन्नमना यावद् भवान् अज्ञाततत्पदः । गुरुशास्त्रप्रमाणैस् तु निर्णीतं तावद् आचर
ततः कषायपाकेन नूनं विज्ञातवस्तुना । शुभो ऽप्य् असौ त्वया त्याज्यो भावनौघो निराधिना
यद् अतिसुभगम् आर्यसेवितं तच् छुभम् अनुसृत्य मनोज्ञभावबुद्ध्या । अधिगमय पदं सदा विशोकं तद् अनु तद् अप्य् अवमुच्य साधु तिष्ठ
अतः पौरुषम् आश्रित्य श्रेयसे नित्यबान्धवम् । एकाग्रं कुरु चित्तं त्वं शृणु चेदं वचो मम
अवान्तराभिपातीनि स्वारूढानि मनोरथम् । पौरुषेणेन्द्रियाण्य् आशु संयम्य समतां नय
इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् । मोक्षोपायमयीं वक्ष्ये संहितां सारसम्मिताम्
अपुनर्ग्रहणायान्तस् त्यक्त्वा संसारवासनाम् । सम्पूर्णौ शमसन्तोषाव् आदायोदारया धिया
सपूर्वापरवाक्यार्थविचारविषयादृतम् । मनस् समरसं कृत्वा सानुसन्धानम् आत्मनि