सुखदुःखादयस् सर्वे प्रयान्तु स्वाम् अवस्थितिम् । तृष्णा शुष्यतु सारम्भा हेमन्त इव पद्मिनी
दग्धेन्धन इवार्चिष्मान् निस्स्नेह इव दीपकः । निर्मन्दर इवाम्भोधिर् गतार्क इव वासरः
शरदीव घनस् स्वैरं प्राप्तसर्गान्तकल्पवत् । ओङ्कारान्ते ऽस्तमननं प्रशाम्याम्य् आत्मनात्मनि
व्यपगताखिलकार्यपरम्परस् सकलदृश्यदशातिगतस्थितिः । प्रणवशान्त्यनुसंसृतिशान्तधीर् विगतमोहमलो ऽयम् अहं स्थितः
एवं कलितवान् अन्तः प्रशान्तमननैषणः । शनैर् उच्चारयंश् चारु प्रणवप्राप्तिभूमिकः
सबाह्याभ्यन्तरान् सर्वान् सूक्ष्मान् स्थूलतरान् अपि । त्रैलोक्यकल्पितांस् त्यक्त्वा सङ्कल्पान् कल्पकल्पितान्
तिष्ठन्न् अक्षुभिताकारश् चिन्तामणिर् इवात्मनि । सम्पूर्ण इव शीतांशुर् विश्रान्त इव मन्दरः
कुम्भकारगृहे चक्रं संरोधितम् इव भ्रमात् । अम्भोधिर् इव सम्पूर्णस् स्तिमितस्फारनिर्मलः
शान्ततेजस्तमःपुञ्जं विगतार्केन्दुतारकम् । अधूमाभ्ररजस् स्वच्छम् अनन्तं शरदीव खम्
सह प्रणवपर्यन्तदीर्घनिस्स्वनतन्तुना । जहाव् इन्द्रियतन्मात्रजालं गन्धम् इवानिलः
ततो जहौ तमोमात्रं प्रतिभातम् इवान्तरे । उत्तिष्ठत् प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा
प्रतिभातं ततस् तेजो निमेषार्धं विचार्य सः । जहौ बभूव च तदा न तमो न प्रकाशकम्
ताम् अवस्थाम् अथासाद्य मनसा तन् मनस्तृणम् । स्फुरितं न मनाग् एव निमेषार्धाद् अशातयत्
ततो ऽङ्गसंविदं स्वस्थां प्रतिभासम् उपागताम् । सद्योजातशिशुज्ञानसमाम् अकलनामलाम्
निमेशार्धार्धभागेन कालेनाकलनः प्रभुः । जहौ चितश् चेत्यदशां स्पन्दशक्तिम् इवानिलः
पश्यन्तीपदम् आसाद्य सत्तामात्रात्मकं ततः । सुषुप्तपदम् आसाद्य तस्थौ मेरुर् इवाचलः
ततस् सुषुप्तसंस्थानस्थित्या स्थित्वा विभुर् मनाक् । सुषुप्ते स्थैर्यम् आसाद्य तुर्यरूपम् उपाययौ
निरानन्दो ऽपि सानन्दस् सच् चासच् चापि तत्र सः । आसीन् नकिञ्चित् किञ्चिच् च प्रकाशस् तिमिरं तथा
अचिन्मयं चिन्मयं च नेति नेति यद् उच्यते । तत् ततस् सम्बभूवासौ मद्गिराम् अप्य् अगोचरः
तद् असौ सुषमं स्थानं पदं परमपावनम् । सर्वभावान्तरगतम् अभूत् सर्वविवर्जितम्
यच् छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां वरम् । विज्ञानमात्रं विज्ञानविदां यद् अमलात्मकम्
पुरुषस् साङ्ख्यदृष्टीनाम् ईश्वरो योगवादिनाम् । शिवश् शशिकलङ्कानां कालः कालकवादिनाम्
आत्मात्मनस् तद्विदुषां नैराश्यं तादृशात्मनाम् । मध्यं माध्यमिकानां च सर्वं सुशमचेतसाम्
यत् सर्वशास्त्रसिद्धान्तो यत् सर्वहृदयानुगम् । यत् सर्वं सर्वदा सार्वं यत् सत् तत् सद् असौ स्थितः
यद् अनुत्तमनिष्ष्यन्दो दीपं यत् तेजसाम् अपि । स्वानुभूत्येकमानं यत् तत् तत् तत् तद् असौ स्थितः
यद् एकं चाप्य् अनेकं च साञ्जनं च निरञ्जनम् । यत् सर्वं चाप्य् असर्वं च तत् तत् तत् तद् असौ स्थितः
अजम् अजरम् अनाद्यम् आद्यम् एकं पदम् अकलं सकलं च निष्कलं च । स्थित इति स तदा नभस्स्वरूपाद् अपि विमलस्थितिर् ईश्वरः क्षणेन
प्राप्य संसृतिसीमान्तं दुःखाब्धेः पारम् आगतः । वीतहव्यश् शशामैवम् अपुनर्मनसे मुनिः
तस्मिंस् तथोपशान्ते हि परां निर्वृतिम् आगते । पयःकण इवाम्भोधौ स्वे पदे परिणामिनि
तथैव तिष्ठन् निस्स्पन्दस् स कायो म्लानिम् आययौ । अन्तर् विरसतां प्राप्य मार्गशीर्षान्तपर्णवत्