अपुनस्सङ्गमायाशु जगज्जालम् अवेक्ष्य सः । बद्धपद्मासनं स्थित्वा तत्रोवाचात्मनात्मनि
राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज । भवद्भ्यां सुचिरं कालम् इह प्रक्रीडितं मया
भोगा नमो ऽस्तु युष्मभ्यं जन्मकोटिशतान्य् अहम् । भवद्भिर् लालितो लोके लालकैर् इव बालकः
इमाम् अपि परां पुण्यां निर्वाणपदवीम् अहम् । येन विस्मारितस् तस्मै सुखायास्तु नमो नमः
त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् । तस्मात् त्वदुपदिष्टो ऽयं मार्गो मम नमो ऽस्तु ते
त्वत्प्रसादेन लब्धेयं शीतला पदवी मया । दुःख नाम्नैव दुःखं त्वं सुखदात्मन् नमो ऽस्तु ते
कल्याणम् अस्तु ते मित्र संसारासारजीविता । देह स्थितिर् इयं यामो वयम् आत्मीयम् आस्पदम्
प्रायो जडानां जन्तूनाम् अहो नु विषमा गतिः । देहेनापि वियुज्ये ऽहं भूत्वा जन्मशतान्य् अपि
मित्र काय मया न त्वं त्यज्यसे चिरबान्धव । त्वयैवात्मन्य् उपानीता स्वात्मज्ञानवशात् क्षतिः
अधिगम्यात्मविज्ञानम् आत्मनाशः कृतस् त्वया । देहे नान्येन भग्नो ऽसि त्वयैवैतद् उपासितम्
एकाकिन्यैव शुष्यन्त्या प्रशान्ते मयि दीनया । त्वया दुःखं न कर्तव्यं मातस् तृष्णे व्रजाम्य् अहम्
क्षन्तव्याः काम भगवन् विपरीतापराधजाः । दोषा उपशमैकान्तं व्रजाम्य् आदिश माम् अलम्
चिराच् चिराय चेदानीम् अम्ब तृष्णे किलावयोः । वियोगो योगदोषेण प्रणामो ऽयम् अपश्चिमः
नमस् सुकृत सेव्याय भवते ऽस्तु त्वया पुरा । नरकेभ्यस् समुत्तार्य स्वर्गे ऽहम् अभियोजितः
कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने । शासनापुष्पभाराय नमो दुष्कृतशाखिने
येन सार्धं चिरं बह्व्यो भुक्ता दुष्कृतयोनयः । अद्य प्रभृत्य् अदृश्याय तस्मै मोहाय ते नमः
प्रध्वनद्वंशमधुरवचसे पत्त्रवाससे । नमो गुहातपस्विन्यै वयस्यायै समाधिषु
संसाराध्वनि खिन्नस्य त्वं समाश्वासकारणम् । आसीर् वयस्या सुस्निग्धा सर्वशोकापहारिणी
सर्वसङ्कटखिन्नेन दोषेभ्यो द्रवता मया । त्वम् एका शोकनाशार्थम् आश्रिता परमा सखी
वार्द्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः
अस्थिपञ्जरम् आत्मीयं तथा रक्तान्त्रतन्तुकम् । एतावन्मात्रसारैक गृहीत्वा गच्छ देहक
पयःक्षोभप्रकारेभ्यस् स्नानेभ्यो ऽपि नमो नमः । नमो ऽस्तु व्यवहारेभ्यस् संसृतिभ्यो नमो ऽस्तु वः
एते भवन्तस् सहजाः प्राक्तनास् सुहृदो मया । क्रमेण ज्योत्कृताः प्राणास् स्वस्ति वो ऽस्तु व्रजाम्य् अहम्
भवद्भिस् सह चित्रासु मया बह्वीषु योनिषु । विश्रान्तं गिरिकुञ्जेषु भ्रान्तं लोकान्तरेषु च
क्रीडितं पुरपीठान्तर् उषितं पर्वतेषु च । स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु
न तद् अस्ति जगत्कोशे भवद्भिस् सह यन् मया । न कृतं न हृतं नात्तं न दत्तं नावलम्बितम्
इदानीं स्वां दिशं यान्तु भवन्तो याम्य् अहं प्रियाः । संयोगा विप्रयोगान्तास् सर्वे संसारवर्त्मनि
अयं चाक्षुष आलोको विशत्व् आदित्यमण्डलम् । विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः
प्राणानिलास् तथा स्पर्शा विशन्त्व् अद्य प्रभञ्जनम् । विशन्त्व् आकाशकुहरं शब्दश्रवणपङ्क्तयः
गलत्व् अग्नौ घृतम् इव चन्द्रे क्षीणवपुर् मनः