सम्पन्नः काकतालीयात् स्वशक्तिनिरतेन्द्रियः । तथैव किल कायो ऽयं केव कस्यात्र खण्डना
विस्मृतिर् विस्मृता दूरं स्मृतिस् स्फुटम् अनुस्मृता । सत् सज् जातम् असच् चासत् क्षयि क्षीणं स्थिरं स्थितम्
एवंविधेन भगवान् विचारेण महातपाः । सो ऽतिष्ठन् मुनिशार्दूलो बहून् वर्षगणान् इह
अपुनर्भवनायैव यत्र चिन्तान्तम् आगता । मूढता च सुदूरस्था तत्रासाव् अवसत् सदा
यथाभूतपदार्थौघदर्शनोत्थम् अनन्तकम् । ध्यानाश्वासनम् आलम्ब्य सो ऽवसत् पुरुषस् सदा
हेयादेयसमासङ्गत्यागादानदृशोः क्षये । पदे परमपूर्णात्मा सो ऽवसत् स्वान्तशान्तिदे
सो ऽगस्त्यपुत्रो भगवान् वीतहव्यो विवासनः । विदेहमुक्ततां प्राप्तो यथा कालेन तच् छृणु
त्रिंशद्वर्षसहस्राणि सप्तवर्षशतानि च । पुण्याश्रम उषित्वेह तथा मेरौ सुरालये
वीतहव्यमुनेर् आसीद् इच्छानिच्छाच्छचेतसः । विदेहे केवलीभावे सीमान्ते जन्मकर्मणाम्
संसारासङ्गसन्त्यागरसासववरेच्छया । विवेश स तयैकान्ते विन्ध्याद्रेर् हेमकन्दरम्
अपुनस्सङ्गमायाशु जगज्जालम् अवेक्ष्य सः । बद्धपद्मासनं स्थित्वा तत्रोवाचात्मनात्मनि
राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज । भवद्भ्यां सुचिरं कालम् इह प्रक्रीडितं मया
भोगा नमो ऽस्तु युष्मभ्यं जन्मकोटिशतान्य् अहम् । भवद्भिर् लालितो लोके लालकैर् इव बालकः
इमाम् अपि परां पुण्यां निर्वाणपदवीम् अहम् । येन विस्मारितस् तस्मै सुखायास्तु नमो नमः
त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् । तस्मात् त्वदुपदिष्टो ऽयं मार्गो मम नमो ऽस्तु ते
त्वत्प्रसादेन लब्धेयं शीतला पदवी मया । दुःख नाम्नैव दुःखं त्वं सुखदात्मन् नमो ऽस्तु ते
कल्याणम् अस्तु ते मित्र संसारासारजीविता । देह स्थितिर् इयं यामो वयम् आत्मीयम् आस्पदम्
प्रायो जडानां जन्तूनाम् अहो नु विषमा गतिः । देहेनापि वियुज्ये ऽहं भूत्वा जन्मशतान्य् अपि
मित्र काय मया न त्वं त्यज्यसे चिरबान्धव । त्वयैवात्मन्य् उपानीता स्वात्मज्ञानवशात् क्षतिः
अधिगम्यात्मविज्ञानम् आत्मनाशः कृतस् त्वया । देहे नान्येन भग्नो ऽसि त्वयैवैतद् उपासितम्
एकाकिन्यैव शुष्यन्त्या प्रशान्ते मयि दीनया । त्वया दुःखं न कर्तव्यं मातस् तृष्णे व्रजाम्य् अहम्
क्षन्तव्याः काम भगवन् विपरीतापराधजाः । दोषा उपशमैकान्तं व्रजाम्य् आदिश माम् अलम्
चिराच् चिराय चेदानीम् अम्ब तृष्णे किलावयोः । वियोगो योगदोषेण प्रणामो ऽयम् अपश्चिमः
नमस् सुकृत सेव्याय भवते ऽस्तु त्वया पुरा । नरकेभ्यस् समुत्तार्य स्वर्गे ऽहम् अभियोजितः
कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने । शासनापुष्पभाराय नमो दुष्कृतशाखिने
येन सार्धं चिरं बह्व्यो भुक्ता दुष्कृतयोनयः । अद्य प्रभृत्य् अदृश्याय तस्मै मोहाय ते नमः
प्रध्वनद्वंशमधुरवचसे पत्त्रवाससे । नमो गुहातपस्विन्यै वयस्यायै समाधिषु
संसाराध्वनि खिन्नस्य त्वं समाश्वासकारणम् । आसीर् वयस्या सुस्निग्धा सर्वशोकापहारिणी
सर्वसङ्कटखिन्नेन दोषेभ्यो द्रवता मया । त्वम् एका शोकनाशार्थम् आश्रिता परमा सखी
वार्द्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः