वीतहव्यमुनेस् संवित् सा पुर्यष्टकरूपिणी । रविं वातमयी पूज्यं प्रणनामाशु चेतसा
भानुनाथाभ्यनुज्ञातो मानपूर्वकम् अग्रगम् । विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम्
पिङ्गलो ऽसौ नभस् त्यक्त्वा कुञ्जकुञ्जरसुन्दरम् । प्राप विन्ध्यवनं प्रावृण्मत्ताभ्राम्बरभासुरम्
उद्दधार धराकोशान् नखनिष्कृष्टभूधरः । कलेवरं मुनेः पङ्कान् मृणालम् इव सारसः
मौनं पुर्यष्टकम् अथ स्वं विवेश कलेवरम् । नभस्तलपरिश्रान्तो विहङ्गम इवालयम्
प्रणम्याशु मिथो मूर्ती वीतहव्यनभश्चरौ । बभूवतुस् स्वकार्यैकतत्परौ तेजसां निधी
जगाम पिङ्गलो व्योम मुनिश् च विमलं सरः । तारकाकारकुमुदं सूर्यांशुकचदाकृति
वीतहव्यो ममज्जाशु सरस्य् उत्फुल्लपङ्कजे । पङ्कपल्वललीलान्ते वने कलभको यथा
तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम् । तपोभूषितया तन्वा पूर्ववत् पुनर् आबभौ
मैत्र्या तया समतया परया च शान्त्या सत्प्रज्ञया मुदितया कृपया श्रिया च । युक्तो मुनिस् सकलसङ्गविमुक्तचेता विन्ध्ये सरित्तटगतो दिनम् एव रेमे
दिनान्ते स समाधातुं पुनर् एव मनो मुनिः । विवेश काञ्चिद् विततां विजनां विन्ध्यकन्दराम्
तद् एवाथानुसन्धानम् अत्यजत् समम् इन्द्रियैः । चेतसा कथयाम् आस दृष्टलोकपरावरः
पूर्वम् एवेन्द्रियगणो मया परिहृतस् स्फुटम् । इदानीं चिन्तया नार्थः पुनर् विततया मम
अस्ति नास्तीति कलनां भङ्क्त्वा मृद्वीं लताम् इव । शेषे तु बद्धसंस्थानं तिष्ठाम्य् अचलशृङ्गवत्
उदितो ऽस्तङ्गत इव स्वस्तङ्गत इवोदितः । समस् समरसाभासस् तिष्ठामि स्वस्थतां गतः
प्रबुद्धो ऽपि सुषुप्तस्थस् सुषुप्तस्थः प्रबुद्धवान् । तुर्यम् आलम्ब्य कार्यान्तं तिष्ठामि स्तम्भितस्थितिः
स्थिरस् स्थाणुर् इवैकान्ते स्वान्तान्ते सर्वतस् स्थिते । सत्त्वसामान्यसाम्ये हि तिष्ठाम्य् अपगतामयः
इति सञ्चिन्त्य स ध्याने पुनस् तस्थौ दिनानि षट् । ततः प्रबोधम् आपन्नः क्षणसुप्त इवाध्वगः
एवंसिद्धस् स भगवान् वीतहव्यो महातपाः । विजहार चिरं कालं जीवन्मुक्ततया तया
वस्तु नाभिननन्दासौ न निनिन्द कदाचन । न जगाम तथोद्वेगं न च हर्षम् अवाप ह
गच्छतस् तिष्ठतश् चैव तस्येयम् अभवद् धृदि । विनोदाय स्वचित्तस्य कथा स्वमनसा सह
अव्ययेन्द्रियवर्गेश मनश् शमवता त्वया । पश्यानन्दसुखं कीदृग् इदम् आसादितं ततम्
एषैवानारतं तस्मान् नीरागैव दशा त्वया । अवलम्ब्या परित्याज्यं चापलं चलतां वर
भो भो इन्द्रियचौरा हे हताशा हतनामकाः । युष्माकं नायम् आत्मास्ति न भवन्तस् तथात्मनि
व्रजताशु विनाशान्तम् आशा वो विफलीकृताः । न समर्थास् समाक्रान्तौ भवन्तो भङ्गुराश्रयाः
वयम् आत्मेति यैषा वो बभूव किल वासना । तत्त्वविस्मृतिजा सा हि दृष्टरज्जुभुजङ्गवत्
अनात्मन्य् आत्मता सैषा सैषा वस्तुन्य् अवस्तुता । अविचाराद् बभूवेह विचारेण क्षयं गता
भवन्तो ऽन्ये वयं चान्ये ब्रह्मान्यत् कर्तृता परा । अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः
वनेभ्यो दारु सञ्जातं रज्जवो वेणुचर्मणी । वासी चायःफलान्य् एवं तक्षा ग्रासार्थम् उद्यतः
इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया । सम्पन्नः काकतालीयाद् रथो गृहवराकृतिः