धराकोटरनिर्मग्नवीतहव्यचिदात्मसु । जगत्सु तेष्व् असङ्ख्येषु नीरूपेषु महात्मसु
यश् शक्रो ऽनवबुद्धात्मा सो ऽद्य चीनेषु पार्थिवः । कर्तुं प्रवृत्तो मृगयां क्षणे ऽस्मिन् नीपकानने
यो हंसो ऽनवबुद्धात्मा पद्मे पैतामहे ऽभवत् । स्थितस् स एष दाशेशः कैलासवनकुञ्जके
यो राजानवबुद्धात्मा भूमौ सौराष्ट्रमण्डले । स एष हि स्थितो ऽन्ध्राणां ग्रामे विपुलपादपः
मानसः किल सर्गो ऽसौ वीतहव्यस्य तत्र ये । देहिनो भ्रान्तिमात्रं ते वदेहाकारिणः कथम्
यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज् जगत् । तद् इदं भासते नाम किम्मयं प्रतिभासते
वस्तुतस् तु न तन् नाम जगन् नेदं च नेतरत् । न चापि न जगत्सत्ता ब्रह्मेदं भाति केवलम्
भावि भूतं भविष्यच् च तच् चेदं च तथेतरत् । जगत् सर्वम् इदं दृश्यं संविन्मात्रमनोमयम्
एवंरूपम् इदं यावन् न परिज्ञातम् ईदृशम् । वज्रसारं दृढं तावज् जातं सत् परमाम्बरम्
अज्ञानां मन एवेदम् इत्थं सम्प्रविजृम्भते । प्रत्युल्लासविलासात्म जलम् अम्बुनिधाव् इव
यथास्थितेनैव चिदम्बरेण स्वचित्त्वम् एवेति मनोऽभिधानम् । स्फारीकृतं तेन जगच् च दृश्यम् एवं ततं नैव ततं च किञ्चित्
अथ किं वीतहव्यस्य स्थितं तस्मिन् वनोदरे । कथम् उद्धृतवान् देहं स सम्पन्नश् च किं कथम्
अनन्तरम् अनन्तात्म वीतहव्याभिधं मनः । स्वम् एवात्मचमत्कारम् इत्थं तम् अवबुद्धवान्
सर्वस्यास्य गणस्याभूत् प्राग्जातिस्मरणे स्वयम् । इच्छा कदाचित् सकलप्राग्जन्मालोकनं प्रति
अशेषान् स ददर्शाथ नष्टान् नष्टान् स्वदेहकान् । अनष्टानां ततो मध्यात् तं धराकोटरस्थितम्
यदृच्छयैव प्रोद्धर्तुं देहं तस्याभवन् मतिः । शरीरं वीतहव्याख्यं धराकोटरपीडितम्
प्रावृडोघोपनीतं स्वपृष्ठस्थं पङ्कमण्डलम् । तृणजालावकीर्णत्वं देहपृष्ठमृदस् तथा
एतद् दृष्ट्वा महातेजा धराविवरयन्त्रितः । भूयो ऽपि चिन्तयाम् आस धिया परमबोधया
सर्वसम्पिण्डिताङ्गत्वात् कायो मे प्राणवायुभिः । मूकश् चलितुम् आक्रान्तश् शक्नोति न मनाग् अपि
तद् गत्वा प्रविशाम्य् आशु देहम् एतं विवस्वतः । तदीयः पिङ्गलो देहम् उद्धरिष्यति मे ततः
अथ वा किं ममैतेन शाम्याम्य् अहम् अविघ्नतः । निर्वामि स्वं पदं यामि को ऽर्थो मे देहलीलया
इति सञ्चिन्त्य मनसा वीतहव्यो महामते । तूष्णीं स्थित्वा क्षणं भूयश् चिन्तयाम् आस भूतले
उपादेयो हि देहस्य न मे त्यागो न संश्रयः । यादृशो देहसन्त्यागस् तादृशो देहसंश्रयः
तद् यावद् अस्ति देहो ऽयं न यावद् अणुतां गतः । तावद् एनम् उपारुह्य किञ्चित् प्रविचराम्य् अहम्
पिङ्गलेन शरीरं स्वम् उद्धर्तुं तापनं वपुः । प्रविशामि नभस्संस्थं मकुरं प्रतिबिम्बवत्
इत्य् असौ मुनिर् आदित्यं विवेशानिलरूपधृत् । पुर्यष्टकवपुर् भूत्वा शस्त्रपिण्डम् इवानलः
भगवान् रविर् अप्य् एनं हृद्गतं मुनिनायकम् । दृष्ट्वा सो ऽचिन्तयत् कार्यपौर्वापर्यम् उदारधीः
विन्ध्यकन्दरभूदेशम् अग्रं मुनिकलेवरम् । तृणोपलपरिच्छन्नं ददर्श गतसंविदम्
ऋषेश् चिकीर्षितं ज्ञात्वा भानुर् गगनमध्यगः । धरातो मुनिम् उद्धर्तुम् आदिदेशाग्रगं गणम्
वीतहव्यमुनेस् संवित् सा पुर्यष्टकरूपिणी । रविं वातमयी पूज्यं प्रणनामाशु चेतसा