महोपलतलाघातैर् धरणीतलमज्जनैः । जलौघान्दोलनापातैस् तापैर् अनलकर्कशैः
केवलं वहति स्वैरं काले कलितकारणे । परियान्तीषु वर्षासु लहरीष्व् इव वारिणि
स्वल्पेनैव स कालेन तस्मिन् पर्वतकन्दरे । प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः
तत्रासाव् अवसद् भूमेः कोटरे सङ्कटोदरे । पङ्कसम्पिण्डितस्कन्दः पर्वते ऽन्तश् शिला यथा
शतत्रये तु वर्षाणाम् अथ याते स्वयं प्रभुः । प्राबुध्यतात्मरूपात्मा धराकोटरपीडितः
संविद् एवास्य तं देहं जग्राहोर्वीनिपीडितम् । न तु प्राणमयस् स्पन्दः प्राणसंसरणं विना
उत्पत्य प्रौढिम् आसाद्य कलना हृदयाम्बरे । स्वमनोरूपिणी तस्य हृद्य् एवानुबभूव सा
कैलासकानने कान्ते कदम्बस्य तरोस् तले । मुनित्वं शतम् अब्दानां जीवन्मुक्तात्म निर्मलम्
विद्याधरत्वं वर्षाणां शतम् आधिविवर्जितम् । युगपञ्चकम् इन्द्रत्वं प्रणतं सुरचारणैः
मुनित्वादिषु तेष्व् अस्य प्रतिभासेषु भो मुने । नियमो ऽनियमश् चैव दिक्कालनियतेः कथम्
सर्वात्मिकैषा चिच्छक्तिर् यत्रोदेति यथा यथा । तथा तथाशु भवति तदात्मैकस्वभावतः
यदा यत्र यथा बुद्धो नियमस् स तथा स्थितः । देशकालादिनियमक्रमाणां तन्मयात्मनाम्
तेन नानाविधान्य् एष जगन्ति परिदृष्टवान् । हृदि संवेदनाकाशे वीतहव्यो विवासनः
सम्यग्बोधवताम् एषा वासनैव न वासना । ज्ञानाग्निदग्धा दग्धस्य केव बीजस्य बीजता
कल्पम् एकं गणत्वं स चन्द्रमौलेश् चकार ह । समस्तविद्यानियतं त्रिकालामलदर्शनम्
यो यादृग्दृढसंस्कारस् स सम्पश्यति तादृशम् । जीवन्मुक्ततयैवैतद् वीतहव्यो ऽनुभूतवान्
एवं स्थिते मुनिश्रेष्ठ जीवन्मुक्तमतेर् अपि । बन्धमोक्षदृशस् सन्ति वीतहव्यात्मनो यथा
यथास्थितम् इदं विश्वं शान्तम् आकाशनिर्मलम् । ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः
एवं संविन्नभो भाति यत्र यत्र यथा यथा । तत्र तत्र तथा तावत् तावत् तद् विन्दते ततम्
तेनानुभूतानि बहून्य् अनुभूयन्त एव च । जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव
धराकोटरनिर्मग्नवीतहव्यचिदात्मसु । जगत्सु तेष्व् असङ्ख्येषु नीरूपेषु महात्मसु
यश् शक्रो ऽनवबुद्धात्मा सो ऽद्य चीनेषु पार्थिवः । कर्तुं प्रवृत्तो मृगयां क्षणे ऽस्मिन् नीपकानने
यो हंसो ऽनवबुद्धात्मा पद्मे पैतामहे ऽभवत् । स्थितस् स एष दाशेशः कैलासवनकुञ्जके
यो राजानवबुद्धात्मा भूमौ सौराष्ट्रमण्डले । स एष हि स्थितो ऽन्ध्राणां ग्रामे विपुलपादपः
मानसः किल सर्गो ऽसौ वीतहव्यस्य तत्र ये । देहिनो भ्रान्तिमात्रं ते वदेहाकारिणः कथम्
यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज् जगत् । तद् इदं भासते नाम किम्मयं प्रतिभासते
वस्तुतस् तु न तन् नाम जगन् नेदं च नेतरत् । न चापि न जगत्सत्ता ब्रह्मेदं भाति केवलम्
भावि भूतं भविष्यच् च तच् चेदं च तथेतरत् । जगत् सर्वम् इदं दृश्यं संविन्मात्रमनोमयम्
एवंरूपम् इदं यावन् न परिज्ञातम् ईदृशम् । वज्रसारं दृढं तावज् जातं सत् परमाम्बरम्
अज्ञानां मन एवेदम् इत्थं सम्प्रविजृम्भते । प्रत्युल्लासविलासात्म जलम् अम्बुनिधाव् इव