अनिच्छतो ऽपि ते साधो विचारे स्थितिम् आगते । अर्थतो ऽयम् उपायातो विनाशस् सुखसिद्धये
तस्मान् नास्त्य् असि निर्णीतम् इति सिद्धान्तयुक्तिभिः । मित्रेन्द्रियेश्वर स्वस्ति भवतस् त्व् अस्तम् आगतम्
नित्यं पूर्वम् अभूताय नास्तिरूपाय सम्प्रति । भविष्यते च नोदर्कस् स्वमनस् स्वस्ति ते ऽस्त्व् इति
परिनिर्वामि शान्तो ऽस्मि दिष्ट्यास्मि विगतज्वरः । स्वात्मन्य् एवावतिष्ठे ऽहं तुर्यरूपे पदे स्थितः
अतो नास्त्य् एव नास्त्य् एव संसारी चित्तसंस्थितिः । आत्मा त्व् अस्त्य् एव चास्त्य् एव यस्माद् अन्यन् न विद्यते
अयम् आत्मेति कलना मन्ये नो निर्मलान्तरा । प्रतियोगिव्यवच्छेदकलनैकस्य वा कुतः
अहं तेनायम् आत्मेति कलनाम् अनुदाहरन् । मौनी स्वात्मनि निर्वामि तरङ्ग इव वारिणि
संशान्तवासनम् अनाश्रितचेतनांशम् अप्राणसञ्चरणम् अस्तविनाशदोषम् । संवेद्यवर्जितम् उपेत्य सुसंविदंशं शाम्यामि मौनम् अयम् एव निरीहम् अन्तः
इति निर्णीय स मुनिर् वीतहव्यो विवासनः । आसीत् समाधाव् अचलो विन्ध्यपर्वतकोटरे
अपरिस्पन्दिताशेषस्पन्दनानन्दसुन्दरः । बभूवास्तङ्गतमनास् स्तिमिताम्भोधिशोभनः
अन्तर् एव शशामास्य क्रमेण प्राणसन्ततिः । ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानले
अनन्तर्निष्ठतां याते बाह्यार्थे चाप्य् असंस्थिते । शेषे तु लब्धसंस्थाने तस्य स्फुरितपक्ष्मणी
घ्राणप्रान्तगताल्पाल्पसमालोक इवेक्षणे । अर्धकुट्मलितैः पद्मैश् श्रियम् आययतुस् समाम्
समकायशिरोग्रीवस्थानकस् स महामतिः । आसीच् छैलाद् इवोत्कीर्णश् चित्रार्पित इवाथ वा
तथा प्रतिष्ठतस् तस्य संवत्सरशतत्रयम् । कोटरे विन्ध्यकच्छस्य ययाव् अर्धमुहूर्तवत्
एतावन्तम् असौ कालं नाबुध्यत किलात्मवान् । जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम्
तावत्कालं स सुभगो न प्राबुध्यत योगवित् । उद्दामैर् अम्बुदारावैर् आसारभरघर्घरैः
पर्यन्तमण्डलाधीशमृगयारवबृंहितैः । ऋक्षवानरनिर्ह्रादैर् मातङ्गास्फोटनिस्स्वनैः
सिंहसंरम्भरटितैर् निर्झरारावझाङ्कृतैः । विषमाशनिसम्पातैर् गजकोलाहलैर् घनैः
प्रमत्तशरभास्फोटैर् भूकम्पतटघट्टनैः । वनदाहधमद्ध्वानैर् जलौघाहतवेल्लनैः
महोपलतलाघातैर् धरणीतलमज्जनैः । जलौघान्दोलनापातैस् तापैर् अनलकर्कशैः
केवलं वहति स्वैरं काले कलितकारणे । परियान्तीषु वर्षासु लहरीष्व् इव वारिणि
स्वल्पेनैव स कालेन तस्मिन् पर्वतकन्दरे । प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः
तत्रासाव् अवसद् भूमेः कोटरे सङ्कटोदरे । पङ्कसम्पिण्डितस्कन्दः पर्वते ऽन्तश् शिला यथा
शतत्रये तु वर्षाणाम् अथ याते स्वयं प्रभुः । प्राबुध्यतात्मरूपात्मा धराकोटरपीडितः
संविद् एवास्य तं देहं जग्राहोर्वीनिपीडितम् । न तु प्राणमयस् स्पन्दः प्राणसंसरणं विना
उत्पत्य प्रौढिम् आसाद्य कलना हृदयाम्बरे । स्वमनोरूपिणी तस्य हृद्य् एवानुबभूव सा
कैलासकानने कान्ते कदम्बस्य तरोस् तले । मुनित्वं शतम् अब्दानां जीवन्मुक्तात्म निर्मलम्
विद्याधरत्वं वर्षाणां शतम् आधिविवर्जितम् । युगपञ्चकम् इन्द्रत्वं प्रणतं सुरचारणैः
मुनित्वादिषु तेष्व् अस्य प्रतिभासेषु भो मुने । नियमो ऽनियमश् चैव दिक्कालनियतेः कथम्