किं तु नास्त्य् असि सत्येन वदामि तव सुन्दर । तेन मिथ्यैव जीवामीत्य् आस्थया मा भवासुखि
प्रक्रमे वासि नास्त्य् एव या वा भ्रान्त्या त्वदस्तिता । सापीदानीं विचारेण भृशं सङ्क्षयम् आगता
एतावद् एव ते रूपं साधो यद् अविचारणम् । विचारे विहिते सम्यक् त्वम् अरूपम् असत् स्थितम्
अविचारात् प्रजातं त्वम् अनालोकात् तमो यथा । विचारेणोपशान्तं त्वम् आलोकेन तमो यथा
एतावन्तं सखे कालं बभूवाल्पविवेकिता । तावतैवातिपीनत्वम् अभूद् दुःखैककारणम्
मोहसङ्कल्पमात्रेण बालवेतालवद् भवत् । बभूवात्यन्तसङ्कल्पे क्षीणे त्वयि भवत् स्थितम्
इदानीम् उदितं नित्यं त्वं प्राग्रूपे क्षयं गते । विवेकस्य प्रसादेन विवेकाय नमो नमः
बभूविथाप्रबुद्धं त्वं चित्तकात्यन्तबोधतः । चित्ततायां विनष्टायां स्थितस् त्वं परमेश्वरः
प्राक्स्वरूपविलासस् ते श्रेयसि स्थितिम् आगतः । समस्तवासनोन्मुक्तस् सम्प्रत्य् असि महेश्वरः
यस्याविवेकाद् उत्पत्तिस् स विवेकाद् विनश्यति । प्रकाशेन प्रयात्य् अन्तम् अनालोकोद्भवं तमः
अनिच्छतो ऽपि ते साधो विचारे स्थितिम् आगते । अर्थतो ऽयम् उपायातो विनाशस् सुखसिद्धये
तस्मान् नास्त्य् असि निर्णीतम् इति सिद्धान्तयुक्तिभिः । मित्रेन्द्रियेश्वर स्वस्ति भवतस् त्व् अस्तम् आगतम्
नित्यं पूर्वम् अभूताय नास्तिरूपाय सम्प्रति । भविष्यते च नोदर्कस् स्वमनस् स्वस्ति ते ऽस्त्व् इति
परिनिर्वामि शान्तो ऽस्मि दिष्ट्यास्मि विगतज्वरः । स्वात्मन्य् एवावतिष्ठे ऽहं तुर्यरूपे पदे स्थितः
अतो नास्त्य् एव नास्त्य् एव संसारी चित्तसंस्थितिः । आत्मा त्व् अस्त्य् एव चास्त्य् एव यस्माद् अन्यन् न विद्यते
अयम् आत्मेति कलना मन्ये नो निर्मलान्तरा । प्रतियोगिव्यवच्छेदकलनैकस्य वा कुतः
अहं तेनायम् आत्मेति कलनाम् अनुदाहरन् । मौनी स्वात्मनि निर्वामि तरङ्ग इव वारिणि
संशान्तवासनम् अनाश्रितचेतनांशम् अप्राणसञ्चरणम् अस्तविनाशदोषम् । संवेद्यवर्जितम् उपेत्य सुसंविदंशं शाम्यामि मौनम् अयम् एव निरीहम् अन्तः
इति निर्णीय स मुनिर् वीतहव्यो विवासनः । आसीत् समाधाव् अचलो विन्ध्यपर्वतकोटरे
अपरिस्पन्दिताशेषस्पन्दनानन्दसुन्दरः । बभूवास्तङ्गतमनास् स्तिमिताम्भोधिशोभनः
अन्तर् एव शशामास्य क्रमेण प्राणसन्ततिः । ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानले
अनन्तर्निष्ठतां याते बाह्यार्थे चाप्य् असंस्थिते । शेषे तु लब्धसंस्थाने तस्य स्फुरितपक्ष्मणी
घ्राणप्रान्तगताल्पाल्पसमालोक इवेक्षणे । अर्धकुट्मलितैः पद्मैश् श्रियम् आययतुस् समाम्
समकायशिरोग्रीवस्थानकस् स महामतिः । आसीच् छैलाद् इवोत्कीर्णश् चित्रार्पित इवाथ वा
तथा प्रतिष्ठतस् तस्य संवत्सरशतत्रयम् । कोटरे विन्ध्यकच्छस्य ययाव् अर्धमुहूर्तवत्
एतावन्तम् असौ कालं नाबुध्यत किलात्मवान् । जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम्
तावत्कालं स सुभगो न प्राबुध्यत योगवित् । उद्दामैर् अम्बुदारावैर् आसारभरघर्घरैः
पर्यन्तमण्डलाधीशमृगयारवबृंहितैः । ऋक्षवानरनिर्ह्रादैर् मातङ्गास्फोटनिस्स्वनैः
सिंहसंरम्भरटितैर् निर्झरारावझाङ्कृतैः । विषमाशनिसम्पातैर् गजकोलाहलैर् घनैः
प्रमत्तशरभास्फोटैर् भूकम्पतटघट्टनैः । वनदाहधमद्ध्वानैर् जलौघाहतवेल्लनैः