हरणादानसंरम्भविभ्रमभ्रमभूमिषु । शक्तता दृश्यते राम न दैवस्यौषधेर् इव
सकलकारणकार्यविवर्जितं निजविकल्पवशाद् उपकल्पितम् । त्वम् अनवेक्ष्य हि दैवम् असन्मयं श्रय शुभाशय पौरुषम् उत्तमम्
भगवन् सर्वधर्मज्ञ प्रतिष्ठाम् अलम् आगतम् । यल् लोके तद् वद ब्रह्मन् दैवम् एवं किम् उच्यते
पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् । फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम्
दैवं न किञ्चित् कुरुते न च भुङ्क्ते न विद्यते । न दृश्यते नाद्रियते केवलं कल्पनेदृशी
सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् । शुभाशुभा वा सम्पत्तिर् दैवशब्देन कथ्यते
पौरुषोपनता नित्यम् इष्टानिष्टस्य वस्तुनः । प्राप्तिर् इष्टाप्य् अनिष्टा वा दैवशब्देन कथ्यते
भावी त्व् अवश्यम् एवार्थः पुरुषार्थैकसाधनः । यस् सो ऽस्मिंल् लोकसङ्घाते दैवशब्देन कथ्यते
न तु राघव लोकस्य कस्यचित् किञ्चिद् एव हि । दैवम् आकाशकल्पं हि करोति न करोति वा
पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये । इदम् इत्थं स्थितिर् इति योक्तिस् तद् दैवम् उच्यते
इत्थं ममाभवद् बुद्धिर् इत्थं मे निश्चयो ह्य् अभूत् । इति कर्मफलावाप्तिर् योक्तिस् तद् दैवम् उच्यते
इष्टानिष्टफलावाप्ताव् एवम् इत्यर्थवाचकम् । आश्वासनामात्रवचो दैवम् इत्य् एव कथ्यते
भगवन् सर्वधर्मज्ञ प्राग् यत् कर्मोपसञ्चितम् । तद् एतद् दैवम् इत्य् उक्तम् अपमृष्टं कथं त्वया
साधु राघव जानासि शृणु वक्ष्यामि ते ऽखिलम् । दैवं नास्तीति ते येन स्थिरा बुद्धिर् भविष्यति
या मग्ना वासना पूर्वं बभूव किल भूरिशः । सैवेयं कर्मभावेन नॄणां परिणतिं गता
जन्तुर् यद्वासनो नाम तत्कर्मा भवति क्षणात् । अन्यकर्मान्यभावश् चेत्य् एतन् नैवोपपद्यते
ग्रामगो ग्रामम् आप्नोति पत्तनार्थी च पत्तनम् । यो यो यद्वासनस् तत् तत् स स प्रयतते तथा
यद् एव तीव्रसंवेगाद् इह कर्म कृतं पुरा । तद् एव दैवशब्देन पर्यायेण हि कथ्यते
एवं दैवं स्वकर्माणि कर्म प्रौढा स्ववासना । वासना मनसो नान्या मनो हि पुरुषस् स्मृतः
यद् दैवं तानि कर्माणि कर्म साधो मनो हि तत् । मनो हि पुरुषस् तस्माद् दैवं नास्तीति निश्चयः
एकम् एव मनो जन्तोर् यथा प्रयतते हि यत् । नूनं तत् तद् अवाप्नोति स्वत एव न दैवतः
मनश् चित्तं वासना च कर्म दैवं स्वनिश्चयः । राम पुंनिश्चयस्यैतास् सञ्ज्ञास् सद्भिर् उदाहृताः
एवंनामा हि पुरुषो दृढभावनया यथा । नित्यं प्रयतते राम फलम् आप्नोत्य् अलं तथा
एवं पुरुषकारेण सर्वम् एव रघूद्वह । प्राप्यते नेतरेणेह तस्मात् स शुभदो ऽस्तु ते
प्राक्तनं वासनाजालं नियोजयति मां यथा । मुने तथैव तिष्ठामि कृपणः किं करोम्य् अहम्
अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् । स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा
द्विविधो वासनाव्यूहश् शुभश् चैवाशुभश् च ते । प्राक्तनो विद्यते राम द्वयोर् एकतरो ऽथ वा
वासनौघेन शुद्धेन तत्र चेद् अद्य नीयसे । तत् क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम्
अथ चेद् अशुभो भावस् त्वां योजयति सङ्कटे । प्राक्तनस् तद् असौ यत्नाज् जेतव्यो भवता बलात्
प्राज्ञ चेतनमात्रं त्वं न देहस् त्वं जडात्मकः । तद् एव चेतस्य् अन्येन चेत् तत् त्वं क्वेव विद्यसे