नित्योदिते सकलवस्तुपदार्थसारे देवे स्थिते भरितनिर्भरभूरिदिक्कम् । आत्मन्य् असत् त्वम् इति साधु गते ऽमलत्वात् क्षीणौ सुखासुखलवौ मम वै समोहम्
भूयो मुनिवरो धीरो धिया धवलयेद्धया । स्वम् इन्द्रियगणं गुप्तं बोधयाम् आस साध्व् इदम्
तवेन्द्रियगण स्वार्थं शृणु वक्ष्याम्य् अतिस्फुटम् । श्रुत्वा तद्भावताम् एत्य परां निर्दुःखतां व्रज
भवताम् आत्मसत्तैका दुःखायैवानपायिनी । असत्याम् आत्मनस् सत्तां तद् भवन्तस् त्यजन्त्व् इति
मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् । गतैवेति स्फुटं मत्तो यूयं ह्य् अज्ञानसम्भवाः
स्वसत्तास्फुटतैवातिदुःखाय तव चित्तक । तप्तक्वाथे जतूल्लासो दाहायैव स्वपार्श्वयोः
पश्य त्वयि सति भ्रातर् जडकल्लोलसङ्कुलाः । विशन्ति कालजलधिं संसारसरितां गणाः
पतन्त्य् अहमहमिकाविहितान्योऽन्यवेल्लनाः । कुतो ऽपि दुःखावलयो धारा आसारगा इव
परिस्फुरत्य् अपर्यन्ता हृदयोन्मूलनोद्यता । आक्रन्दकारिणी क्रूरा भावाभावविषूचिका
कासश्वासरणद्भृङ्गे कलेवरजरद्द्रुमे । विकसत्य् अमलोद्द्योता जरामरणमञ्जरी
कल्लोलव्यालवलिते शरीरश्वभ्रकोटरे । खनतीहानखी खातं चिन्ताचपलगर्गटी
लोभलट्वा लटत्पक्षा तीक्ष्णया द्वन्द्वतुण्डया । कायजीर्णद्रुमाद् अस्माद् गुणपद्मानि कृन्तति
हृदयावकरं कीर्णम् इतश् चेतश् च कर्कशः । अपवित्रोद्धुराकारः कुरुते कामकुक्कुटः
महत्यां मोहयामिन्याम् उल्बणो ऽज्ञानकौशिकः । श्मशान इव वेतालः परिवल्गति हृद्द्रुमे
एताश् चान्याश् च बह्व्यो ऽपि त्वयीन्द्रियगणे सति । पिशाचा इव शर्वर्यां प्रवल्गन्त्य् अशुभश्रियः
त्वयि त्व् असति हे साधो सर्वा एव शुभश्रियः । प्रभात इव पद्मिन्यस् सालोकं विकसन्त्य् अलम्
प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् । निर्मलालोकवलितं नीरजस्कं ततान्तरम्
अशङ्कितं नभःकोशपतितोपलपूरवत् । नापतन्ति विकल्पौघाश् चिरं वैकल्यकारिणः
सर्वस्याह्लादनी शीता मैत्री परमपावनी । अभ्युदेति हृदो हृद्या सुतरोर् इव मञ्जरी
अन्तश्छिद्रवती जाड्ययुक्ता गुप्तगुणा स्वयम् । चिन्ता शोषम् उपायाति हिमदग्धेव पद्मिनी
आलोकस् स्फुटताम् अन्तर् आयात्य् अज्ञानसङ्क्षये । प्रशाम्यत्य् अम्बुदे व्योम्नि शरदीवार्कमण्डलम्
प्रसन्नस्फारगम्भीरम् अक्षुब्धम् अपराहतम् । हृदयं समताम् एति शान्तवात इवार्णवः
अमृतापूरपूर्णेन नित्यानन्दमयेन च । स्थीयते पुरुषेणान्तश्शीतेन शशिना यथा
संविदंशैकविश्रान्तं समग्रं सचराचरम् । भाव्यते भरिताकारं वपुर् आनन्दमन्थरम्
न भवत्य् अस्तसङ्गानाम् आशापाशविधायिनाम् । दग्धानाम् इव पर्णानां जन्मनां पुनरागतिः
पुंसा क्षपितसंसारजराजन्ममहाध्वना । अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम्
एवम्प्रायास् तथान्याश् च भवन्ति गुणसम्पदः । असति त्वयि सर्वाशिन् सर्वाशाक्षणदाक्षये
पक्षयोर् एतयोश् चित्त सत्तासत्तास्वरूपयोः । येनैव पश्यसि श्रेयस् तम् एवाङ्गीकुरु क्षणात्
स्वात्माभावस् तव सुखं मन्ये मानवतां वर । तम् एव भावयाभावं सुखत्यागो हि मूढता
यदि त्व् अस्ति भवत् सत्यम् अन्तर्भावितचेतनम् । जीवतस् तत् तवात्यन्तम् अभावं क इवेच्छति