समग्रपरिवारे ऽस्मिन् सर्वनाशे तवोत्थिते । नूनम् एवाभ्युदेत्य् आत्मा तमसीव क्षते रविः
नित्योदितो ऽपि भवतो नोदेति परमेश्वरः । रविर् अन्धेक्षणस्येव वासनावलितात्मनः
वासनामलसंशान्तौ त्वं समूलं विनश्यसि । ततः प्रकटताम् एति ब्रह्म बृंहितचिद्घनम्
बन्धो हि वासनामात्रं तत्क्षयो मोक्ष उच्यते । वासनारज्जुविच्छेदविलासेनोदितो भव
इन्द्रियाली विभौ दृष्टे क्षीयते सहवासना । आन्ध्यसङ्कल्पना काले नान्ध्यक्षय इवोदिते
आत्मलाभे क्षयं याति मनष्षष्ठेन्द्रियावली । इन्द्रियावलिनाशे च स्वात्मनात्मोपलभ्यते
सततं श्रेयसे तस्माद् द्वयम् एव समाचरेत् । आत्मलाभेन्द्रियवशाव् अभ्यासेनैव सिध्यतः
स्वयं गुणसमाहारः क्षीयते दृष्ट आत्मनि । शार्वरो भूतसंरम्भो दिवाकर इवोदिते
यस्मिन् दृष्टे क्षयं याति यस् स तेन सता क्षयी । कथं सम्बन्धम् आयाति चेतनेन जडात्मकः
प्रकाशस्याप्रकाशेन शीतलेनोष्णरूपिणः । जीवता प्रमृतस्येव न सम्भवति सङ्गमः
क्व समग्रकलातीतः क्व समग्रकलान्वितः । क्व नित्यस् सम्प्रकाशात्मा क्वानित्यस् तिमिराकृतिः
नित्यम् अस्तमिताकारः क्व नित्योदितचिद्वपुः । क्व चासज्जडमूकान्धः क्व सर्वालोकचिद्घनः
आत्मेन्द्रियगणैर् युक्त इत्य् अनर्थाय निश्चयः । यावद् अज्ञानम् एवान्तर् बालानाम् एव वल्गति
तज्ज्ञानाम् आत्मना सङ्गो नेन्द्रियाणाम् इति स्थिते । अक्षग्रामे क्षयं याते परमात्ममयं जगत्
ययायुक्त्या मुधैषा ते शङ्का स्फुरति पीवरी । आत्मा कलङ्कित इति सा विनष्टाज्ञताधुना
अनिगीर्णविषो मूर्खस् स यातो विषमूर्छनाम् । आत्मेन्द्रियशठैर् युक्त इति येनाश्रितो ऽन्तरम्
दुःखिष्व् इन्द्रियमूर्खेषु सुखेषूपहतेषु वा । साक्षिणो ऽक्षीणसद्वृत्तेर् आत्मनः किम् इवागतम्
चित्तेन्द्रियात्मनां सङ्ग इति नो सम्भवत्य् अलम् । सम्बन्धाभावसंसिद्धौ भोक्तृताकर्तृते कथम्
नातः कर्ता न भोक्तास्मि न मोक्षो ऽस्ति न बन्धनम् । नाहम् अस्मि न चान्यो ऽस्ति संविदात्मास्त्य् अलेपकः
स एवाहं स एव त्वं स जगत् सो ऽम्बरं स भूः । सर्वं नूनं स एवेति निर्णीते किं विमुह्यसि
संविदश् च्यवनं दुःखं संविदो मा च्युतो भव । एतावतैकध्यानेन नित्यध्यानो भवात्मदृक्
अभावे दुःखदस्यान्तर् दृश्यादृश्यस्य वस्तुनः । सङ्कल्पोन्मुखतां विद्धि दुःखदां संविदश् च्युतिम्
जडेषूपलभेदेषु मनोदेहेन्द्रियादिषु । कीदृशी कर्तृता चित्त कथं व्योम्नि वनं भवेत्
निरस्तकलनापङ्के मननध्वंसरूपिणि । न चैवात्मनि कर्तृत्वं सम्भवत्य् अम्बराङ्गवत्
अयं केवलम् आत्मैव नानानानातयात्मनि । स्फुरत्य् अब्धिर् इवाम्भोभिर् मुधा लोकः कदर्थितः
आभासमात्रे सर्वस्मिन् स्फुरत्य् अस्मिंश् चिदात्मनि । द्वितीया नास्ति कलना तप्ताङ्गार इवाम्बुधौ
कलनारहिते देवे देहे मनसि वा जडे । संवित् संवेद्यनिर्मुक्ता सारा सुन्दर नेतरत्
इदम् अन्यद् इदं चान्यच् छुभं वाशुभम् एव वा । इति सङ्कल्पना नास्ति यथा नभसि काननम्
संवेद्यरहितं संविन्मात्रम् एवेदम् आततम् । तत्रायम् अहम् अन्यो ऽयम् इति सङ्कल्पना कथम्
अनादिमति नीरूपे सर्वगे विततात्मनि । आरोपयेत् कः कलनाम् ऋग्वेदं व्योम्नि को लिखेत्