नासौ सुसमनिर्माणो न चार्धसमनिर्मितिः । न विलक्षणनिर्माणस् सम्बन्धः क इवेदृशः
शशमस्तकशृङ्गेण रसायनमयश् शशी । कथं संश्लिष्यते साधो नित्यं सन्न् असता किल
नित्यं सदसतोर् ऐक्यं कथम् अक्षगणात्मनोः । प्रकाशजडयोर् मूर्ख सकलङ्काकलङ्कयोः
द्वयोर् वाप्य् असतोर् एवं सङ्गस् सम्भवतीह कः । शशमस्तकशृङ्गाद्रिशिलाशकलयोर् इव
शृण्व् इमं निश्चयं चित्त सत्यम् एव मयोच्यते । आत्मना तव सम्बन्धस् स्वप्नेष्व् अपि न विद्यते
यद् अनात्ममयं तच् च न सम्भवति कुत्रचित् । आत्मनस् सर्वरूपत्वात् तेन त्वं नासि चित्तक
चित्त चेत्यविमुक्तेयं जगज्जालविजृम्भितैः । अहं त्वम् इत्यादिमयी ब्रह्मसत्तैव वल्गति
सकलकल्पनया स्वसमुत्थया परिवृतो ऽप्य् अभितश् च विवर्जितः । तव न सङ्गम् उपैति शठाकृते हतमनस् सकलामलदृग् विभुः
वीतहव्यो महाबुद्धिर् विन्ध्याद्रौ कन्दरोदरे । क्षुराग्रशितया बुद्ध्या भूयश् चेदं व्यचारयत्
मूर्खेन्द्रियगणाशेषे समग्ररचनान्विते । सर्वसङ्कल्पवलिते सर्वाङ्कुरपरावृते
समग्रपरिवारे ऽस्मिन् सर्वनाशे तवोत्थिते । नूनम् एवाभ्युदेत्य् आत्मा तमसीव क्षते रविः
नित्योदितो ऽपि भवतो नोदेति परमेश्वरः । रविर् अन्धेक्षणस्येव वासनावलितात्मनः
वासनामलसंशान्तौ त्वं समूलं विनश्यसि । ततः प्रकटताम् एति ब्रह्म बृंहितचिद्घनम्
बन्धो हि वासनामात्रं तत्क्षयो मोक्ष उच्यते । वासनारज्जुविच्छेदविलासेनोदितो भव
इन्द्रियाली विभौ दृष्टे क्षीयते सहवासना । आन्ध्यसङ्कल्पना काले नान्ध्यक्षय इवोदिते
आत्मलाभे क्षयं याति मनष्षष्ठेन्द्रियावली । इन्द्रियावलिनाशे च स्वात्मनात्मोपलभ्यते
सततं श्रेयसे तस्माद् द्वयम् एव समाचरेत् । आत्मलाभेन्द्रियवशाव् अभ्यासेनैव सिध्यतः
स्वयं गुणसमाहारः क्षीयते दृष्ट आत्मनि । शार्वरो भूतसंरम्भो दिवाकर इवोदिते
यस्मिन् दृष्टे क्षयं याति यस् स तेन सता क्षयी । कथं सम्बन्धम् आयाति चेतनेन जडात्मकः
प्रकाशस्याप्रकाशेन शीतलेनोष्णरूपिणः । जीवता प्रमृतस्येव न सम्भवति सङ्गमः
क्व समग्रकलातीतः क्व समग्रकलान्वितः । क्व नित्यस् सम्प्रकाशात्मा क्वानित्यस् तिमिराकृतिः
नित्यम् अस्तमिताकारः क्व नित्योदितचिद्वपुः । क्व चासज्जडमूकान्धः क्व सर्वालोकचिद्घनः
आत्मेन्द्रियगणैर् युक्त इत्य् अनर्थाय निश्चयः । यावद् अज्ञानम् एवान्तर् बालानाम् एव वल्गति
तज्ज्ञानाम् आत्मना सङ्गो नेन्द्रियाणाम् इति स्थिते । अक्षग्रामे क्षयं याते परमात्ममयं जगत्
ययायुक्त्या मुधैषा ते शङ्का स्फुरति पीवरी । आत्मा कलङ्कित इति सा विनष्टाज्ञताधुना
अनिगीर्णविषो मूर्खस् स यातो विषमूर्छनाम् । आत्मेन्द्रियशठैर् युक्त इति येनाश्रितो ऽन्तरम्
दुःखिष्व् इन्द्रियमूर्खेषु सुखेषूपहतेषु वा । साक्षिणो ऽक्षीणसद्वृत्तेर् आत्मनः किम् इवागतम्
चित्तेन्द्रियात्मनां सङ्ग इति नो सम्भवत्य् अलम् । सम्बन्धाभावसंसिद्धौ भोक्तृताकर्तृते कथम्
नातः कर्ता न भोक्तास्मि न मोक्षो ऽस्ति न बन्धनम् । नाहम् अस्मि न चान्यो ऽस्ति संविदात्मास्त्य् अलेपकः
स एवाहं स एव त्वं स जगत् सो ऽम्बरं स भूः । सर्वं नूनं स एवेति निर्णीते किं विमुह्यसि