त्वादृशस्य तु दृष्ट्यैव क्षुब्धता जायते मुधा । आलोक्य राजमहिषीं मनो मदमयीं यथा
आत्मना तव सम्बन्धश् चेत् तत् कर्त्र् असि सुन्दर । किं तु नास्यासि सम्बन्धः कुसुमस्योपलो यथा
द्वितीयेन समं यैषा तत्ता तद्भावतैकता । सा सम्बन्धगतिः प्रोक्ता प्राग्द्वित्वाद् अधुनैकता
नानाप्रकाररचना नानारूपक्रियामुखी । सुखदुःखदशाहेतुस् सा चानेकविधा स्मृता
सम्बन्धस् समयोर् दृष्टस् तथार्धसमयोर् अपि । सुविलक्षणयोश् चान्यस् तस्मिन् सति जगत्त्रये
द्रव्यान्तरगुणं द्रव्याण्य् आश्रयन्ति बहून्य् अलम् । शशिशैत्यं यथौषध्यो यथोष्माणं महाशिलाः
इत्थं यदि तु सम्बन्धो भवतः परमात्मना । अस्तु तत् संसृतेर् बीजम् अन्योऽन्यगुणसङ्करः
मनोमनननिर्माणकलातीतात्मनात्मना । ईदृशो ऽस्ति न सम्बन्धस् तवेन्द्रियगणाणुना
अन्यश् च दृश्यते लोके सम्बन्धस् समयोस् स्फुटः । यथा ज्वलनयोर् ऐक्ये तेजसोः पयसोर् अपि
मनोमनननिर्माणकलातीतात्मनाणुना । ईदृशो ऽपि न सम्बन्धस् तवेन्द्रियगणात्मना
अन्यश् च चौर सम्बन्धो दृष्टो ऽर्धसमयोर् अपि । एकावयववैचित्र्याद् यथा स्त्रीपुंसयोर् इह
किञ्चिदन्यतया चैव सलिलक्षीरयोर् इव । अथ वा वारिमधुनोर् मधुनोर् इव चित्रयोः । पाण्डुरारुणयोर् वापि तेजसोर् अरुणार्कयोः
मनोमनननिर्माणकलातीतात्मनात्मना । ईदृशो ऽपि न सम्बन्धस् तवेन्द्रियगणाणुना
अन्यो ऽस्ति चौर सम्बन्धो यो ऽत्यन्तासमयोर् अपि । यथेह काष्ठजतुनोस् तथा पुरुषदन्तिनोः
तादृशो ऽपि न सम्बन्धस् तवेन्द्रियगणाणुना । मनोमनननिर्माणकलातीतात्मनात्मना
अन्यो बीजाङ्कुरन्याये पितृपुत्रक्रमे तथा । कार्यकारणरूपो ऽपि न सम्बन्धस् तवात्मना
अन्यो ऽपि कलनामात्रसङ्केतरचितो भवेत् । तवाहं त्वं ममेत्य् अन्तर्निश्चयेन किल द्वयोः
अन्ये च बहवो लोकेष्व् आधाराधेयतादयः । सम्भवन्तीह सम्बन्धास् सुष्ठु सम्बन्धकारिणाम्
मनोमनननिर्माणकलातीतात्मनाणुना । तथापि नैव सम्बन्धस् तवेन्द्रियगणात्मना
आत्मना भवतः को ऽयं घोरस् संसारदुःखदः । सम्बन्धस् स्याद् वदास्माभिर् यो न दृष्टो न दृश्यते
नासौ सुसमनिर्माणो न चार्धसमनिर्मितिः । न विलक्षणनिर्माणस् सम्बन्धः क इवेदृशः
शशमस्तकशृङ्गेण रसायनमयश् शशी । कथं संश्लिष्यते साधो नित्यं सन्न् असता किल
नित्यं सदसतोर् ऐक्यं कथम् अक्षगणात्मनोः । प्रकाशजडयोर् मूर्ख सकलङ्काकलङ्कयोः
द्वयोर् वाप्य् असतोर् एवं सङ्गस् सम्भवतीह कः । शशमस्तकशृङ्गाद्रिशिलाशकलयोर् इव
शृण्व् इमं निश्चयं चित्त सत्यम् एव मयोच्यते । आत्मना तव सम्बन्धस् स्वप्नेष्व् अपि न विद्यते
यद् अनात्ममयं तच् च न सम्भवति कुत्रचित् । आत्मनस् सर्वरूपत्वात् तेन त्वं नासि चित्तक
चित्त चेत्यविमुक्तेयं जगज्जालविजृम्भितैः । अहं त्वम् इत्यादिमयी ब्रह्मसत्तैव वल्गति
सकलकल्पनया स्वसमुत्थया परिवृतो ऽप्य् अभितश् च विवर्जितः । तव न सङ्गम् उपैति शठाकृते हतमनस् सकलामलदृग् विभुः
वीतहव्यो महाबुद्धिर् विन्ध्याद्रौ कन्दरोदरे । क्षुराग्रशितया बुद्ध्या भूयश् चेदं व्यचारयत्
मूर्खेन्द्रियगणाशेषे समग्ररचनान्विते । सर्वसङ्कल्पवलिते सर्वाङ्कुरपरावृते