केवलं त्व् अज्ञविषयम् उपदेशार्थसिद्धये । त्वया करणभूतेन करोत्य् आत्मेति कथ्यते
असत्स्वरूपं करणं जडं निरवलम्बनम् । न स्पन्दते न प्लवते कर्तृसम्बोधनं विना
अकर्तुः करणस्याज्ञ शक्तिः काचिन् न विद्यते । दात्रस्य लावकाभावे कर्तुं किम् इव शक्तता
खड्गप्रहारविच्छेदक्रियायां पुंसि शक्तता । न खड्गे सुजडे कृत्तसर्वाङ्गे ऽप्य् अस्ति शक्तता
तस्मान् नासि सखे कर्तृ मा व्यर्थं दुःखभाग् भव । परार्थं क्लेशिता मूर्ख प्राकृतेषु न शोभते
ईश्वरो नेदृशश् शोच्यो यस् त्वयोपकृतो भवेत् । नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन
सर्वं तूपकरोम्य् एनम् इति केवलम् अल्पधीः । क्लिश्यते च सतां त्व् अर्थो न कश्चिद् उपयुज्यते
कर्तुर् भोगेश्वरस्यैवम् अथ चेद् अनुवर्तसे । तद् अस्य काचिन् नेच्छेह तृप्तत्वात् सर्वदैव हि
अकृत्रिमावभासेन सर्वगेन चिदात्मना । एकेनैवेदम् आपूर्णं कल्पनैवास्ति नेतरा
एकानेकावभासेन समस्तेन ततात्मना । आत्मन्य् एवात्मनैवान्तः क्रियते किं किम् इष्यते
त्वादृशस्य तु दृष्ट्यैव क्षुब्धता जायते मुधा । आलोक्य राजमहिषीं मनो मदमयीं यथा
आत्मना तव सम्बन्धश् चेत् तत् कर्त्र् असि सुन्दर । किं तु नास्यासि सम्बन्धः कुसुमस्योपलो यथा
द्वितीयेन समं यैषा तत्ता तद्भावतैकता । सा सम्बन्धगतिः प्रोक्ता प्राग्द्वित्वाद् अधुनैकता
नानाप्रकाररचना नानारूपक्रियामुखी । सुखदुःखदशाहेतुस् सा चानेकविधा स्मृता
सम्बन्धस् समयोर् दृष्टस् तथार्धसमयोर् अपि । सुविलक्षणयोश् चान्यस् तस्मिन् सति जगत्त्रये
द्रव्यान्तरगुणं द्रव्याण्य् आश्रयन्ति बहून्य् अलम् । शशिशैत्यं यथौषध्यो यथोष्माणं महाशिलाः
इत्थं यदि तु सम्बन्धो भवतः परमात्मना । अस्तु तत् संसृतेर् बीजम् अन्योऽन्यगुणसङ्करः
मनोमनननिर्माणकलातीतात्मनात्मना । ईदृशो ऽस्ति न सम्बन्धस् तवेन्द्रियगणाणुना
अन्यश् च दृश्यते लोके सम्बन्धस् समयोस् स्फुटः । यथा ज्वलनयोर् ऐक्ये तेजसोः पयसोर् अपि
मनोमनननिर्माणकलातीतात्मनाणुना । ईदृशो ऽपि न सम्बन्धस् तवेन्द्रियगणात्मना
अन्यश् च चौर सम्बन्धो दृष्टो ऽर्धसमयोर् अपि । एकावयववैचित्र्याद् यथा स्त्रीपुंसयोर् इह
किञ्चिदन्यतया चैव सलिलक्षीरयोर् इव । अथ वा वारिमधुनोर् मधुनोर् इव चित्रयोः । पाण्डुरारुणयोर् वापि तेजसोर् अरुणार्कयोः
मनोमनननिर्माणकलातीतात्मनात्मना । ईदृशो ऽपि न सम्बन्धस् तवेन्द्रियगणाणुना
अन्यो ऽस्ति चौर सम्बन्धो यो ऽत्यन्तासमयोर् अपि । यथेह काष्ठजतुनोस् तथा पुरुषदन्तिनोः
तादृशो ऽपि न सम्बन्धस् तवेन्द्रियगणाणुना । मनोमनननिर्माणकलातीतात्मनात्मना
अन्यो बीजाङ्कुरन्याये पितृपुत्रक्रमे तथा । कार्यकारणरूपो ऽपि न सम्बन्धस् तवात्मना
अन्यो ऽपि कलनामात्रसङ्केतरचितो भवेत् । तवाहं त्वं ममेत्य् अन्तर्निश्चयेन किल द्वयोः
अन्ये च बहवो लोकेष्व् आधाराधेयतादयः । सम्भवन्तीह सम्बन्धास् सुष्ठु सम्बन्धकारिणाम्
मनोमनननिर्माणकलातीतात्मनाणुना । तथापि नैव सम्बन्धस् तवेन्द्रियगणात्मना
आत्मना भवतः को ऽयं घोरस् संसारदुःखदः । सम्बन्धस् स्याद् वदास्माभिर् यो न दृष्टो न दृश्यते