अहं चिद्वद् इति व्यर्थम् असत्या तव वासना । अत्यन्तभिन्नयोर् ऐक्यं नास्ति चिन्मनसोश् शठ
जीवाम्य् एवाहम् इत्य् एषा तवाहङ्कारदुन्दुभिः । मिथ्यैव जाता दुःखाय न सत्या सत्यवर्जिता
अहङ्काराद् अहं सो ऽस्मीत्य् एतां संरब्धतां त्यज । न किञ्चिद् अपि मूर्ख त्वं किं व्यर्थं तरलायसे
संविच् चित्तम् अनाद्यन्तं संविदो ऽन्यन् न विद्यते । देहे ऽस्मिंस् तन् महामूर्ख किं तत् स्याच् चित्तनामकम्
विषपर्यवसानेयं रसायनवद् उत्थिता । भोक्तृताकर्तृताशङ्का तव चित्त मुधैव हि
मोपहासपदं गच्छ मूर्खेन्द्रियगण स्वयम् । न कर्ता त्वं न भोक्ता त्वं जडो ऽस्य् अन्येन बोध्यसे
कस् त्वं भवसि भोगानां के वा भोगा भवन्ति ते । जडस्यात्मैव ते नास्ति बन्धुमित्रादि तत् कुतः
यज् जडं तद् धि नास्त्य् एव सद् एवासत्तयान्वितम् । ज्ञत्वकर्तृत्वभोक्तृत्वमन्तृत्वानाम् असम्भवात्
प्रत्यक्चेतनरूपं चेत् त्वं तद् आत्मैव ते वपुः । भावाभावमयी चित्त सत्ता ते केव दुःखदा
ये वा कर्तृत्वभोक्तृत्वे मिथ्यैवाधिगते त्वया । मया ते हि प्रमार्ज्येते शृणु युक्त्या कथं शठ
स्वयं तावद् भवान् एष जडो नास्त्य् अत्र संशयः । जडस्य कीदृक् कर्तृत्वं नृत्यन्ति हि कथं शिलाः
उपजीव्य चिरं तस्माच् छुद्धं तद्भागम् ऐश्वरम् । जीवसीच्छसि हंसि त्वं प्लवसे यासि वल्गसि
क्रियते यत् तु यच्छक्त्या तत् तेनैव कृतं भवेत् । लुनाति दात्रं पुंशक्त्या हन्तैव प्रोच्यते पुमान्
पीयते यत् तु यच्छक्त्या पीतं तेनैव तद् भवेत् । पात्रेण पीयते पानं पानपस् तूच्यते नरः
प्रकृत्यैवासि सुजडम् असकृज् ज्ञेन बोध्यसे । तेनात्मैवात्मनात्मानं चिनोतीदं हि नो भवेत्
अनारतं बोधयति त्वाम् आत्मा परमेश्वरः । बोधनीया बुधैर् मूढाः किलावृत्तिशतैर् अपि
आत्मसत्तैव बोधैकरूपिणी स्फुरतीह हि । तयैव चित्त शब्दार्थान् अङ्गीकृत्य लघु स्थितम्
एवं चित्त त्वम् अज्ञानाद् आत्मशक्तेर् उपागतम् । ज्ञाने त्व् अद्यावगलितं तीव्रे हिमम् इवातपे
तस्मान् मृतं त्वं मूढं त्वं नासि त्वं परमार्थतः । तद् एवाहम् इति व्यर्थं मानो मास्त्व् असुखाय ते
असत्याश् चित्तकलना इन्द्रजाललता इव । विज्ञानमात्रम् एवेह ब्राह्मम् अङ्ग विजृम्भते
नरामरजगद्रूपैर् ब्राह्मी शक्तिर् उदेत्य् अलम् । सामुद्री कणकल्लोलजालैर् वेलेव वल्गति
चिन्मयं चिद्भवन् मूढ तत् तस्मात् परमात् पदात् । नित्यम् अव्यतिरिक्तं त्वं किम् अन्यत् परिशोचसि
सर्वगं सर्वभावस्थं सर्वरूपं हि तत् पदं । तत्प्राप्तौ सर्वम् एवाशु प्राप्तं भवति सर्वदा
न त्वम् अस्ति न देहो ऽस्ति ब्रह्मास्तीह महत् स्फुरत् । अहं त्वम् इति निष्ष्यन्दैस् स्फुरत्य् आर्तिर् हि कस्य का
आत्मा चेत् त्वं तद् आत्मैव सर्वगो ऽस्तीह नेतरः । आत्मनो ऽन्यज् जडं त्वं चेत् तत् त्वं नास्त्य् अस्य् अविद्वपुः
आत्मैव सर्वं त्रिजगत् तदन्यत् तु नकिञ्चन । तन् नकिञ्चित् त्वम् आत्मान्यद् यदि तत् त्वं नकिञ्चन
अहं त्व् इदम् इदं तन् मे इति व्यर्थं किम् ईहसे । असद्वपुः किं स्फुरति शशशृङ्गेण को हतः
तृतीया कल्पना नास्ति चिज्जडांशेतरा शठ । छायाहसनयोर् मध्ये तृतीयेवानुरञ्जना
सत्यावलोकनाज् जाते चित्त्वजाड्यदृशोः क्षये । सम्पद्यते यत् तत् त्व् अज्ञ स्वसंवेदनमात्रकम्
तेन मूढ न कर्तृ त्वं न भोक्तृ त्वं न चाप्य् असि । तद् एवासि परं ब्रह्म त्यज मौर्ख्यं भवात्मकम्