विवेश रम्भारचितं निजं पर्णोटजान्तरम् । चूतगौरं ससौगन्ध्यम् अलिर् नीलम् इवोत्पलम्
तत्रासने समे शुद्धे स्वास्तीर्णहरिणाजिने । विशश्रामाचले शान्ते वान्तवर्ष इवाम्बुदः
बद्धपद्मासनः कृत्वा पार्ष्ण्योर् अधि कराञ्जलिम् । शृङ्गिवच् छान्तचलनम् अतिष्ठद् दृढकन्धरम्
सञ्जहारालम् आलोकं दिग्विकीर्णं शनैश् शनैः । विशन् मेरुदरीं सायं भानुर् भासाम् इवोत्करम्
बाह्यान् आभ्यन्तरांश् चैव स्पर्शान् परिहरन् क्रमात् । इदम् आकलयाम् आस मनसा विगतैनसा
अहो नु चञ्चलम् इदं प्रत्याहृतम् अपि क्षणात् । न मनस् स्थैर्यम् आयाति तरङ्गप्रौढपर्णवत्
चक्षुरादिभिर् उद्दामै रूपैर् आहितसम्भ्रमैः । अजस्रम् उत्फलत्य् एव वीटेव तलताडिता
त्यजद् एवाशु गृह्णाति वृत्तीर् इन्द्रियवर्धिताः । यस्मान् निवार्यते तस्मिन् प्रोन्मत्त इव धावति
घटात् पटम् उपायाति पटाच् छकटम् उत्कटम् । चित्तम् अर्थेषु चरति पादपेष्व् इव मर्कतः
पञ्चद्वाराणि मनसश् चक्षुरादीन्य् अमून्य् अलम् । दग्धेन्द्रियाभिधानानि तावद् आलोकयाम्य् अहम्
हंहो हतेन्द्रियगणाः किम् एषोद्दामतेह वः । वेला विलुलिताम्बूनाम् अब्धीनाम् इव चञ्चला
मा कुरुध्वम् अनर्थाय चापलं चञ्चलाशयाः । स्मरतातीतवृत्तीनि दुःखजालानि भूरिशः
रूपाणि मनसो यूयं जडा एव किलाधमाः । जडिम्नोत्सुकतात्यर्थं मृगतृष्णेव वल्गति
असारात्मस्वरूपाणाम् अनालोकवतां सदा । अन्धानाम् उद्धतिर् येयं सा हासायैव जायते
चिदात्मा भगवान् सर्वं साक्षित्वेन करोत्य् अजः । हतेन्द्रियगणा यूयं किं निरर्थकम् आगताः
मिथ्यैवैते विवल्गन्ति नीरूपा नयनादयः । अलातचक्रप्रतिमास् सर्परज्जुभ्रमोपमाः
तेनात्मना बहुज्ञेन निर्ज्ञानाश् चक्षुरादयः । मनाग् अपि न सम्बद्धा द्युपातालतलाद्रिवत्
भीतः पान्थ इवाहिभ्यः पुक्कसेभ्य इव द्विजः । दूरे तिष्ठति चिन्मात्रम् इन्द्रियेभ्यस् त्व् अनामयम्
चित्सत्तामात्रकेणायं सङ्क्षोभो भवतां मिथः । तिष्ठति स्वैरम् आदित्ये दिनकार्यवताम् इव
चित्त चारणचार्वाक चतुर्दिक्कुक्षिभिक्षुक । श्वेव व्यर्थम् अनर्थाय मेदं विहर हे जगत्
अहं चिद्वद् इति व्यर्थम् असत्या तव वासना । अत्यन्तभिन्नयोर् ऐक्यं नास्ति चिन्मनसोश् शठ
जीवाम्य् एवाहम् इत्य् एषा तवाहङ्कारदुन्दुभिः । मिथ्यैव जाता दुःखाय न सत्या सत्यवर्जिता
अहङ्काराद् अहं सो ऽस्मीत्य् एतां संरब्धतां त्यज । न किञ्चिद् अपि मूर्ख त्वं किं व्यर्थं तरलायसे
संविच् चित्तम् अनाद्यन्तं संविदो ऽन्यन् न विद्यते । देहे ऽस्मिंस् तन् महामूर्ख किं तत् स्याच् चित्तनामकम्
विषपर्यवसानेयं रसायनवद् उत्थिता । भोक्तृताकर्तृताशङ्का तव चित्त मुधैव हि
मोपहासपदं गच्छ मूर्खेन्द्रियगण स्वयम् । न कर्ता त्वं न भोक्ता त्वं जडो ऽस्य् अन्येन बोध्यसे
कस् त्वं भवसि भोगानां के वा भोगा भवन्ति ते । जडस्यात्मैव ते नास्ति बन्धुमित्रादि तत् कुतः
यज् जडं तद् धि नास्त्य् एव सद् एवासत्तयान्वितम् । ज्ञत्वकर्तृत्वभोक्तृत्वमन्तृत्वानाम् असम्भवात्
प्रत्यक्चेतनरूपं चेत् त्वं तद् आत्मैव ते वपुः । भावाभावमयी चित्त सत्ता ते केव दुःखदा
ये वा कर्तृत्वभोक्तृत्वे मिथ्यैवाधिगते त्वया । मया ते हि प्रमार्ज्येते शृणु युक्त्या कथं शठ