नीरूपाय निराख्याय प्रकाशायामलात्मने । स्वयम् आत्मैकसंस्थाय मह्यम् एव नमो नमः
निर्विकाराय नित्याय निरंशाय निरात्मने । सर्वस्मै सर्वकार्याय मह्यम् एव नमो नमः
समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् । सत्ताम् उपागतो ऽस्म्य् अन्तर् मह्यम् एव नमो नमः
साद्रिद्यूर्वीनदीशाङ्गं नाहम् एवाहम् एव वा । जगत् सर्वपदार्थाढ्यं मह्यम् एव नमो नमः
व्यपगतमननं शमाभिरामं प्रकटितविश्वम् अविश्वम् अप्य् अनन्तम् । स्वयम् अजम् अजरं गुणाद् अतीतं वपुर् अहम् अच्युतम् ऐश्वरं नमामि
एवं विचार्य बुद्ध्यान्तः पुनर् इत्थं विचार्यते । तत्त्वविद्भिर् महाबाहो ज्ञेय आत्मा महात्मभिः
आत्मैवेदं जगद् इति सत्यं चित्तेन मार्जितम् । उत्थितं स्यात् कुतश् चित्तम् अहो चित्रम् अवस्तु यत्
अविद्यात्वाद् अचित्त्वाच् च समायात्वात् सदैव हि । मृतं नास्त्य् एव वा चित्तं भ्रमाद् अन्यत् खपुष्पवत्
सिद्धस् स्थाणुपरिस्पन्दो नौगतस्य यथा शिशोः । अबुद्धस्य न बुद्धस्य तथा चित्तम् असन्मयम्
मौर्ख्यमोहभ्रमे शान्ते चित्तं नोपलभामहे । चक्रारोहभ्रमस्यान्ते पर्वतस्पन्दनं यथा
एवं हि चित्तं नास्त्य् एव ब्रह्मैवास्ति ततात्मकम् । पदार्थभावनाश् चित्रास् तेनासत्या मयोज्झिताः
जातो ऽस्मि शान्तसन्देहस् स्थितो ऽस्मि विगतज्वरः । यथा तिष्ठामि तिष्ठामि तथैव विगतैषणम्
चित्ताभावे परिक्षीणा बलात् तृष्णादयो गुणाः । आलोकोपरमे चित्रा वर्णाख्या इव संविदः
मृतं चित्तं गतास् तृष्णाः प्रक्षीणं मोहपञ्जरम् । निरहङ्कारता जाता जगत्य् अस्मि प्रबुद्धवान्
एकम् एव जगच् छान्तं नानात्वं न सद् इत्य् अपि । किम् अन्यद् विमृशाम्य् अन्तः कथयैवालम् एतया
निराभासम् अनाद्यन्तं पदं पावनम् आगतः । सोम्यस् सर्वगतस् सूक्ष्मस् स्थित आत्मास्मि शाश्वतः
यद् अस्ति यच् च नास्तीह चित्ताद्य् आत्माद्य् अवस्तु वा । तत् खाद् अच्छतरं शान्तम् अनन्ताग्राह्यम् आततम्
चित्तं भवतु वा मान्तर् नियतां स्मृतिम् एतु वा । को विचारणयार्थो मे निरंशस्योदितात्मनः
विचारकारको मौर्ख्याद् अहम् आसम् इति स्थितिः । विचारेणामिताकारः क्वाधुनाहं विचारकः
मृते ऽपि मनसीयं मे विकल्पश्रीर् निरर्थका । मनोवेतालवृत्त्यर्थं किमर्थम् उपजायते
तद् इमां प्रजहाम्य् अन्तर् विकल्पकलनाम् अलम् । निर्णीयोम् इति शान्तात्मा तिष्ठाम्य् आत्मनि मौनवान्
अश्नन् गच्छन् स्वपंस् तिष्ठन्न् इति राघव चेतसा । सर्वत्र प्रज्ञया तज्ज्ञः प्रत्यहं प्रविचारयेत्
प्रविचार्य स्वसंस्थेन स्वस्थेन स्वेन चेतसा । तिष्ठन्ति विगतोद्वेगं सन्तः प्रकृतकर्मसु
विगतमानमदा मुदिताशयाश् शरदुपोढशशाङ्कसमत्विषः । प्रकृतसंव्यवहारविहारिणस् त्व् इह सुखं विहरन्ति महाधियः
विचार एवं विदुषा संवर्तेन कृतः पुरा । कथितो मम विन्ध्याद्रौ तेनैव विदितात्मना
एतां दृष्टिम् अवष्टभ्य विचारपरया धिया । संसारसागराद् अस्मात् तारतम्येन सन्तर
अथेमाम् अपरां राम शृणु दृष्टिं पदप्रदाम् । मुनिना वीतहव्येन यथा स्थितम् अशङ्कितम्
वीतहव्यो महातेजा बभ्रामाभ्राम्बरः पुरा । विन्ध्यशैलदरीर् दीर्घा रविर् मेरुदरीर् इव
अस्मात् क्रियाक्रमाद् घोरात् संसारभ्रमदायिनः । आधिव्याधिमयाकारात् कालेनोद्वेगम् आययौ
निर्विकल्पसमाध्यंशलभ्योदारपदेच्छया । सञ्जहार जराजीर्णस् स्वां व्यापारपरम्पराम्