मनःकलनया ह्य् एते सुसम्बद्धाः परस्परम् । रूपालोकमनस्कारा दारूणि जतुना यथा
स्वमनोमनने तन्तौ मनोऽभ्यासेन यत्नतः । विचाराच् छेदम् आयाते छिन्नैवाज्ञानभावना
अज्ञानसङ्क्षयात् क्षीणे मनस्य् एते पुनर् मिथः । रूपालोकमनस्कारास् सङ्घटन्ते न केचन
सर्वेषां चित्तम् एवान्तर् इन्द्रियाणां प्रबोधकम् । तद् एव तस्माद् उच्छेद्यं पिशाच इव मन्दिरात्
चित्त वल्गसि मिथ्यैव दृष्टो ऽन्तो भवतो मया । आद्यन्तेषु सुतुच्छस् त्वं वर्तमाने ऽपि न ह्य् असि
मुधा पञ्चभिर् आकारैः किम् अन्तः परिवल्गसि । यस् त्वां त्व् आम् इति जानाति तस्यैतत् परिवल्ग्यते
त्वद्वल्गनं मे कुमनो न मनाग् अपि तुष्टये । मायानरस्पन्द इव व्यर्थं वृत्तिषु दह्यसे
तिष्ठ वा गच्छ वा चित्त नासि मे शठ जीवसि । प्रकृत्यासि मृतं नित्यं विचारात् सुमृतं स्थितम्
निस्तत्त्वं त्वं जडं भ्रातश् शठ नित्यमृताकृते । मूढ एव त्वयाज्ञेन वञ्च्यते न विचारवान्
वयम् आज्ञातवन्तस् त्वां मौर्ख्येणानुसृतं भवेत् । मृतम् अस्माकम् अद्यासि दीपानां तिमिरं यथा
शठेन भवता दीर्घं कालं देहगृहं मम । उपरुद्धम् अभूत् पूर्वं साधुसंसर्गवर्जितम्
जडे प्रेतसमाकारे गते त्वयि मनश्शठे । सर्वसज्जनसंसेव्यं इदं देहगृहं स्थितम्
पूर्वम् एवासि नास्य् एव सम्प्रत्य् अपि जडं शठम् । न भविष्यसि चेदानीं किं वेताल न लज्जसे
सह तृष्णापिशाचीभिस् सह कोपादिगुह्यकैः । निर्गच्छ चित्तवेताल शरीरसदनान् मम
दिष्ट्या विवेकमन्त्रेण निर्गतो देहमन्दिरात् । प्रमत्तचित्तवेतालः कुवृकः कन्दराद् इव
अहो नु चित्रं सुमहज् जडेन क्षणभङ्गिना । मनश्शठेन सर्वो ऽयं नीतो विवशतां जनः
कस् ते पराक्रमः किं ते बलं कस् ते समाश्रयः । यदि वल्गसि माम् एव जनतां बाधसे तथा
शठात्मैवासि न मया दीनचित्तक मार्यसे । मृतम् इत्य् अवबुद्धं त्वम् अद्य केवलम् अज्ञ हे
एतावन्तम् अहं कालं त्वां ज्ञात्वा जीवदास्थितम् । क्लिष्टः प्रभूतभङ्गासु चिरं संसृतिरात्रिषु
चित्तं मृतं हि नास्तीह त्व् इत्य् अद्यावगतं मया । तेन त्वदाशां सन्त्यज्य तिष्ठाम्य् आत्मनि केवलः
दिष्ट्या चित्तं मृतम् इति ज्ञातम् अद्य मया स्वयम् । न शठेन समं नीतं समग्रं जीवितं निजम्
उत्सार्य देहसदनान् मनश्शठम् अहं क्षणात् । अयं स्वस्थस् स्थितो ऽस्म्य् अन्तर्वेतालपरिवर्जितः
चित्तवेताललब्धेन चिरं कालं मयोद्धताः । कृता विकारा विविधास् स्वयं कृत्वा हसामि यान्
चिरान् निपतितो दिष्ट्या विचारासिवराङ्कितः । हृद्गेहाच् चित्तवेतालस् तालोत्तालसमुन्नतिः
प्रशान्तचित्तवेताले पवित्रां पदवीं गते । दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलः
मृतं मनो मृताश् चिन्ता मृतो ऽहङ्कारराक्षसः । विचारमन्त्रेण समस् स्वस्थस् तिष्ठामि केवलः
किं मनो मे ममाशाः काः को मे ऽहङ्कारको भवेत् । दिष्ट्या व्यर्थं कलत्रं मे नष्टम् एतद् अशेषतः
एकस्मै कृतकृत्याय नित्याय विमलात्मने । निर्विकल्पचिदाख्याय मह्यम् एव नमो नमः
न ममाशा न कर्माणि न संसारो न कर्तृता । न भोक्तृता न देहो मे मह्यम् एव नमो नमः
नाहम् आत्मा न चाकाशो न चैवायम् अहं स्वयम् । मम नास्ति व्यवच्छेदो मह्यम् एव नमो नमः