ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव
मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः । दैवाद् दाहो ऽस्तु मा वेति वक्तव्यं तेन पावके
दैवम् एवेह चेत् कर्म पुंसः किम् इव चेष्टया । स्नानदानाशनाचारं दैवम् एव करिष्यति
किं वा शास्त्रोपदेशेन मूको ऽयं पुरुषः किल । सञ्चार्यते तु दैवेन किं कस्येहोपदिश्यते
न च निस्स्पन्दता लोके दृष्टेह शवतां विना । स्पन्दाश् च फलसम्प्राप्तिस् तस्माद् दैवं निरर्थकम्
न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता । हस्तादीन् ईहतश् चैव न दैवेन क्वचित् कृतम्
मनोबुद्धिवद् अप्य् एतद् दैवं नेहानुभूयते । आगोपालं किल प्राज्ञैस् तेन दैवम् असत् सदा
बुद्धेश् चेत् पृथग् अन्यो ऽर्थस् सैव चेत् कान्यता तयोः । कल्पना वा प्रमाणं चेत् पौरुषं किं न कल्प्यते
नामूर्तेस् तेन सङ्गो ऽस्ति नभसेव वपुष्मतः । मूर्तं च दृश्यते लग्नं तस्माद् दैवं न विद्यते
विनियोक्ताथ भूतानाम् अस्त्य् अन्यस् तज् जगत्त्रये । शेरतां भूतवृन्दानि दैवं सर्वं करिष्यति
दैवेनेत्थं नियुक्तो ऽस्मि किं करोमीदृशं स्थितम् । समाश्वासनवाग् एषा न दैवं परमार्थतः
मूढैः प्रकल्पितं दैवं तत्परास् ते क्षयं गताः । प्राज्ञास् तु पुरुषार्थेन पदम् उत्तमम् आगताः
ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः । तैस् तैः कैर् इव लोके ऽस्मिन् वद दैवं प्रचक्ष्यते
कालविद्भिर् विनिर्णीता यस्यास्ति चिरजीविता । स चेज् जीवति सञ्छिन्नशिरास् तद् दैवम् उत्तमम्
कालविद्भिर् विनिर्णीतं पाण्डित्यं यस्य राघव । अनध्यापित एवासौ तज्ज्ञश् चेद् दैवम् उत्तमम्
विश्वामित्रेण मुनिना दैवम् उत्सृज्य दूरतः । पौरुषेणैव सम्प्राप्तं ब्राह्मण्यं राम नान्यथा
अमीभिर् अपरै राम पुरुषैर् मुनितां गतैः । पौरुषेणैव सम्प्राप्ता चिरं गगनगामिता
उत्साद्य देवसङ्घातांश् चक्रुस् त्रिभुवनोदरे । पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः
आलूनशीर्णम् आभोगि जगद् आजह्रुर् ओजसा । पौरुषेणैव यत्नेन दानवेभ्यस् सुरेश्वराः
राम पौरुषयुक्त्यैव सलिलं धार्यते न वा । चिरं करण्डके युक्त्या न दैवं तत्र कारणम्
हरणादानसंरम्भविभ्रमभ्रमभूमिषु । शक्तता दृश्यते राम न दैवस्यौषधेर् इव
सकलकारणकार्यविवर्जितं निजविकल्पवशाद् उपकल्पितम् । त्वम् अनवेक्ष्य हि दैवम् असन्मयं श्रय शुभाशय पौरुषम् उत्तमम्
भगवन् सर्वधर्मज्ञ प्रतिष्ठाम् अलम् आगतम् । यल् लोके तद् वद ब्रह्मन् दैवम् एवं किम् उच्यते
पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् । फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम्
दैवं न किञ्चित् कुरुते न च भुङ्क्ते न विद्यते । न दृश्यते नाद्रियते केवलं कल्पनेदृशी
सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् । शुभाशुभा वा सम्पत्तिर् दैवशब्देन कथ्यते
पौरुषोपनता नित्यम् इष्टानिष्टस्य वस्तुनः । प्राप्तिर् इष्टाप्य् अनिष्टा वा दैवशब्देन कथ्यते
भावी त्व् अवश्यम् एवार्थः पुरुषार्थैकसाधनः । यस् सो ऽस्मिंल् लोकसङ्घाते दैवशब्देन कथ्यते
न तु राघव लोकस्य कस्यचित् किञ्चिद् एव हि । दैवम् आकाशकल्पं हि करोति न करोति वा
पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये । इदम् इत्थं स्थितिर् इति योक्तिस् तद् दैवम् उच्यते