सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् । मनाग् अपि न भेदो ऽस्ति क्वापि सङ्कल्पनोन्मुखः
आदाव् अन्ते च संशान्तं स्वरूपम् अविनाशि यत् । वस्तूनाम् आत्मनश् चैव तन्मयो भव राघव
द्वैताद्वैतसमुद्भूतैर् जरामरणविभ्रमैः । स्फुरत्य् आत्मभिर् आत्मैव चित्रैर् अम्ब्व् इव वीचिभिः
शुद्धम् आत्मानम् आलम्ब्य नित्यम् अन्तस्स्थया धिया । यस् स्थितस् तं क आत्मेशं भोगो वञ्चयितुं क्षमः
कृतस्फारविचारस्य मनो भोगादयो ऽरयः । मनाग् अपि न भिन्दन्ति शैलं मन्दानिला इव
अविचारिणम् अज्ञानं मूढम् आशापरायणम् । निगिरन्तीह दुःखानि बका मत्स्यम् इवाजलम्
जगद् आत्मैव सकलम् अविद्या नास्ति कुत्रचित् । इति दृष्टिम् अवष्टभ्य सम्यग्रूपां स्थिरो भव
नानात्वम् अस्ति कलनासु न वस्तुतो ऽन्तर् नानाविधासु सरसीषु जलाद् इवान्यत् । इत्य् एकनिश्चयमयः पुरुषो विमुक्त इत्य् उच्यते समवलोकितसम्यगर्थः
इदम् अन्तः कलयतो भोगान् प्रति विवेकिनः । पुरस्स्थितान् अपि सदा स्पृहैवाङ्ग न जायते
चक्षुर् आलोकनायैव जीवस् तु सुखदुःखयोः । भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः
नयने रूपनिर्मग्ने क्षोभः क इव देहिनः । गर्दभे पल्वलोन्मग्ने कैव सेनापतेः क्षतिः
रूपकर्दमम् एतन् मानय नास्वादयाधम । नश्यत्य् एतन् निमेषेण भवन्तम् अपि हिंसति
येनैव सख्यं क्रियते य एवाभ्यनुगम्यते । तदीयैः कर्मभिः क्षिप्रं प्राज्ञश् शूरो ऽपि बध्यते
उत्पन्नध्वंसि सम्पातमात्रहृद्यम् असन्मयम् । रूपम् आश्रय मा नेत्र विनाशायाविनाशिने
साक्षिवत् त्वं स्थितं नेत्र रूपं आत्मनि तिष्ठति । आलोकः कालवशतस् त्वम् एकः किं प्रतप्यसे
सलिलस्पन्दवद् दृष्टिः पिञ्छिकेवाम्बरोत्थिता । स्वजातिबन्धात् स्फुरति तव चित्त किम् आगतम्
स्वल्पाम्भसीव शफरे चित्ते स्फुरणधर्मिणि । स्वयं स्फुरत्य् अहङ्कार त्वम् अयं प्रोत्थितः कुतः
आलोकरूपयोर् नित्यं जडयोस् स्फुरतोर् मिथः । आधाराधेययोश् चित्त व्यर्थम् आकुलता तव
रूपालोकमनस्काराः परस्परम् असङ्गिनः । संसक्ता इव लक्ष्यन्ते वदनादर्शबिम्बवत्
अज्ञानजन्तुना ह्य् एते श्लिष्टा जाता निरन्तराः । अज्ञाने ज्ञानगलिते पृथक् तिष्ठन्त्य् असन्मयाः
मनःकलनया ह्य् एते सुसम्बद्धाः परस्परम् । रूपालोकमनस्कारा दारूणि जतुना यथा
स्वमनोमनने तन्तौ मनोऽभ्यासेन यत्नतः । विचाराच् छेदम् आयाते छिन्नैवाज्ञानभावना
अज्ञानसङ्क्षयात् क्षीणे मनस्य् एते पुनर् मिथः । रूपालोकमनस्कारास् सङ्घटन्ते न केचन
सर्वेषां चित्तम् एवान्तर् इन्द्रियाणां प्रबोधकम् । तद् एव तस्माद् उच्छेद्यं पिशाच इव मन्दिरात्
चित्त वल्गसि मिथ्यैव दृष्टो ऽन्तो भवतो मया । आद्यन्तेषु सुतुच्छस् त्वं वर्तमाने ऽपि न ह्य् असि
मुधा पञ्चभिर् आकारैः किम् अन्तः परिवल्गसि । यस् त्वां त्व् आम् इति जानाति तस्यैतत् परिवल्ग्यते
त्वद्वल्गनं मे कुमनो न मनाग् अपि तुष्टये । मायानरस्पन्द इव व्यर्थं वृत्तिषु दह्यसे
तिष्ठ वा गच्छ वा चित्त नासि मे शठ जीवसि । प्रकृत्यासि मृतं नित्यं विचारात् सुमृतं स्थितम्
निस्तत्त्वं त्वं जडं भ्रातश् शठ नित्यमृताकृते । मूढ एव त्वयाज्ञेन वञ्च्यते न विचारवान्
वयम् आज्ञातवन्तस् त्वां मौर्ख्येणानुसृतं भवेत् । मृतम् अस्माकम् अद्यासि दीपानां तिमिरं यथा