सर्वेषाम् एव जन्तूनां संविद् धृदयम् उच्यते । न देहावयवैकांशो जडो जीर्णोपलोपमः
तस्मात् संविन्मये शुद्धे हृदये ऽत्र विवासनम् । बलान् नियोजिते चित्ते प्राणस्पन्दो निरुध्यते
एभिः क्रमैर् अथान्यैश् च नानासङ्कल्पकल्पितैः । नानादैशिकवक्त्रस्थैः प्राणस्पन्दो निरुध्यते
अभ्यासेन निराबाधम् एतास् ता योगयुक्तयः । उपायताम् उपायान्ति भव्यस्य भवभेदने
अभ्यासाद् दृढतां याताद् वैराग्यपरिलाञ्छितात् । यथावासनम् आयामः प्राणानां सफलस् स्मृतः
भ्रूनासातालुसंस्थासु द्वादशाङ्गुलकोटिषु । अभ्यासाच् छाम्यति प्राणो दूरे गिरिनदी यथा
भूयो भूयश् चिराभ्यासाज् जिह्वाप्रान्तेन तालुनि । घण्टिका स्पृश्यते प्राणा येनोर्ध्वेन वहन्त्य् अलम्
विकल्पबहुलास् त्व् एते स्वभ्यासेन समाधयः । परमोपशमायाशु सम्प्रयान्त्य् अविकल्पताम्
आत्मारामो वीतशोको भवत्य् अन्तस्सुखः पुमान् । अभ्यासाद् एव नान्यस्मात् तस्माद् अभ्यासवान् भव
अभ्यासेन परिस्पन्दे प्राणानां क्षयम् आगते । मनः प्रशमम् आयाति निर्वाणम् अवशिष्यते
वासनावलितं जन्म मोक्षो निर्वासनं मनः । प्राणश् च राम गृह्णाति यथेच्छसि तथा कुरु
प्राणस्पन्दो मनोरूपं तस्मात् संसृतिसम्भ्रमः । तस्मिन्न् एव शमं याते क्षीयते संसृतिज्वरः
विकल्पसङ्क्षयाज् जन्तोः पदं तद् अवशिष्यते । यतो वाचो निवर्तन्ते समस्तकलनान्विताः
यत्र सर्वं यतस् सर्वं यत् सर्वं सर्वतश् च यत् । यत्र नेदं यतो नेदं यन् नेदं नेदृशं च यत्
विनाशित्वाद् विकल्पित्वाद् गुणित्वान् निर्गुणात्मनः । यस्य नो सदृशो दृश्ये दृष्टान्तः कश्चिद् एव हि
स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् । कलना सर्वकामानां यतश् चिच्चन्द्रिकोदिता
यत्सङ्कल्पतरोर् बह्व्यस् संसारफलपङ्क्तयः । अनारतं बहुरसा जायन्ते च पतन्ति च
तत् पदं सर्वसीमान्तम् अवलम्ब्य महामतिः । यस् स्थितस् स्थिरधीस् तज्ज्ञस् स जीवन्मुक्त उच्यते
विगतसर्वसमीहितकौतुकस् समुपशान्तहिताहितकल्पनः । सकलसंव्यवहारसमाशयो भवति मुक्तमनाः पुरुषोत्तमः
योगयुक्त्यास्य चित्तस्य शम एवं निरूपितः । सम्यग्ज्ञानम् इदानीं मे कथयानुग्रहात् प्रभो
अनाद्यन्तावभासात्मा परमात्मेह विद्यते । इत्य् एकनिश्चयस् स्फारस् सम्यग्ज्ञानं विदुर् बुधाः
इमा घटपटाकारपदार्थशतशक्तयः । आत्मैव नान्यद् अस्तीति निश्चयस् सम्यगीक्षणम्
असम्यग्वेदनाज् जन्म मोक्षस् सम्यगवेक्षणात् । असम्यग्वीक्षणाद् रज्जुस् सर्पो नो सम्यगीक्षणात्
सङ्कल्पांशविनिर्मुक्ता संवित् संवेद्यवर्जिता । संविद् आद्याभिर् आख्याभिर् मुक्तास्तीह हि नेतरत्
सा शुद्धरूपा विज्ञाता परमात्मेति कथ्यते । बुद्धा त्व् अशुद्धरूपान्तर् अविद्येत्य् उच्यते बुधैः
संवित्तिर् एव संवेद्यं नानयोर् द्वित्वकल्पना । चिनोत्य् आत्मानम् आत्मैव रामैवं नान्यद् अस्ति हि
यथाभूतार्थदर्शित्वम् एतावद्भुवनत्रये । यद् आत्मैव जगत् सर्वम् इति निश्चित्य पूर्णता
सर्वम् आत्मैव किंनिष्ठौ भावाभावौ क्व वास्थितौ । क्व बन्धमोक्षकलने किम् अन्यद् राम शोच्यते
न चित्तम् अन्यन् नो चेत्यं ब्रह्मैवेदं विजृम्भते । सर्वं एकं परं व्योम क्व मोक्षः कस्य बद्धता
ब्रह्मेदं बृंहिताकारं बृहद् बृंहद् अवस्थितम् । दूरम् अस्तमितद्वित्वं भवात्मैव त्वम् आत्मना