यथा शौक्ल्यहिमे राम तिलतैललवौ यथा । यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा
रघुनन्दन संश्लिष्टौ चित्तस्पन्दौ तथैव हि । अभिन्नौ केवलं मिथ्या भेदः कल्पित एतयोः
चित्तचित्तपरिस्पन्दपक्षयोर् एकसङ्क्षये । स्वयं गुणगुणिस्थित्या नश्यतो द्वौ न संशयः
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगस् तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम्
कया कीदृक्षया वृत्त्या प्राणापाननिबद्धया । योगनाम्न्या मनश् शान्तिम् एत्य् अनन्तसुखप्रदाम्
देहे ऽस्मिन् देहनाडीषु वातस् स्फुरति यो ऽभितः । स्खदास्व् इव भुवो वारि स प्राण इति कीर्तितः
तस्य स्पन्दवशाद् अन्तः क्रियावैचित्र्यम् ईयुषः । अपानादीनि नामानि कल्पितानि कृतात्मभिः
आमोदस्य यथा पुष्पं शौक्ल्यस्य तुहिनं यथा । तथैष रथ आधारश् चित्तस्याभिन्नतां गतः
अन्तःप्राणपरिस्पन्दात् सङ्कल्पकलनोन्मुखी । संवित् सञ्जायते यैषा तच् चित्तं विद्धि राघव
प्राणस्पन्दं विदुस् स्पन्दं तत्स्पन्दाद् एव संविदः । चक्रावर्तविधायिन्यो जलस्पन्दाद् इवोर्मयः
चित्तं प्राणपरिस्पन्दम् आहुर् आगमभूषणाः । तस्मिन् संरोधिते नूनम् उपशान्तं भवेन् मनः
मनस्स्पन्दोपशान्त्यायं संसारः प्रविलीयते । सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर् यथा
अनिशं चरतां देहगेहे गहनगामिनाम् । प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम्
शास्त्रसज्जनसम्पर्काद् वैराग्याभ्यासयोगतः । अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु
यथाभिवाञ्छितध्यानाच् चिरम् एकतयोदितात् । एतत्तत्त्वघनाभ्यासात् प्राणस्पन्दो निरुध्यते
पूरकादिनिजायामदृढाभ्यासाद् अखेदजात् । एकान्तध्यानसंयोगात् प्राणस्पन्दो निरुध्यते
ओङ्कारोच्चारणप्रान्तशब्दतत्त्वानुधावनात् । सुषुप्ते संविदो जाते प्राणस्पन्दो निरुध्यते
रेचके नूनम् अभ्यस्ते प्राणे स्फारं खम् आगते । न स्पृशत्य् अङ्गरन्ध्राणि प्राणस्पन्दो निरुध्यते
कुम्भके पूर्ववत् कालम् अनन्तं परितिष्ठति । अभ्यासात् स्तम्भिते प्राणे प्राणस्पन्दो निरुध्यते
तालुमूलगतां यत्नाज् जिह्वयाक्रम्य घण्टिकाम् । ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुध्यते
समस्तकलनोन्मुक्ते नकिञ्चिन्नाम्नि सूक्ष्मखे । ध्यानात् संविदि लीनायां प्राणस्पन्दो निरुध्यते
द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे । सम्यग् दृशोः प्रशाम्यन्त्योः प्राणस्पन्दो निरुध्यते
अभ्यासाद् ऊर्ध्वरन्ध्रेण तालूर्ध्वद्वादशान्तगे । प्राणे गलितसंवित्तौ प्राणस्पन्दो निरुध्यते
भ्रूमध्ये तारकालोकशान्ताव् अस्तम् उपागते । चेतने केतने बुद्धेः प्राणस्पन्दो निरुध्यते
चिरं कालं हृदेकान्तव्योमसंवेदनान् मुनेः । अवासनमनोध्यानात् प्राणस्पन्दो निरुध्यते
ब्रह्मञ् जगति भूतानां हृदयं तत् किम् उच्यते । इदं सर्वं महादर्शे यस्मिंस् तत् प्रतिबिम्बति
साधो जगति भूतानां द्विविधं हृदयं स्थितम् । उपादेयं च हेयं च विभागो ऽयं तयोश् शृणु
इयत्तया परिच्छिन्ने देहे यद् वक्षसो ऽन्तरे । हेयं तद् धृदयं विद्धि तनाव् एकतटे स्थितम्
संविन्मात्रं तु हृदयम् उपादेयं नृणां स्मृतम् । तद् अन्तरे च बाह्ये च न च बाह्ये न चान्तरे
तत् तत्प्रधानं हृदयं तत्रेदं समवस्थितम् । तद् आदर्शः पदार्थानां तत् कोशस् सर्वसम्पदाम्