अपि शीतरुचाव् अर्के सुकृष्णे ऽपीन्दुमण्डले । अप्य् अधः प्रसरत्य् अग्नौ विस्मयो ऽस्य न जायते
चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः । इत्य् अस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम्
न दयादैन्यम् आदत्ते न क्रौर्यम् अनुधावति । न लज्जाम् अनुसन्धत्ते नालज्जत्वं च गच्छति
न कदाचन दीनात्मा नोद्धतात्मा कदाचन । न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान्
नास्य चेतसि सुस्फारे शरदम्बरनिर्मले । कोपादयः प्रवर्तन्ते नभसीव नवाङ्कुराः
अनारतपतज्जातभूतायां जगतस् स्थितौ । क्व कथं किल कास्य स्यात् सुखिता दुःखिताथ वा
फेनाजवञ्जवीभावे जले भूतक्रमे तथा । क्व किलेह कुतः को ऽन्तः प्रसङ्गस् सुखदुःखयोः
भावाभावैर् अपर्यन्तैर् अजस्रं जन्तुसम्भवैः । न विषीदन्ति नोद्यन्ति दृष्टसृष्टिक्रमा नराः
निमेषं प्रति यामिन्या यथान्यास् स्वप्नदृष्टयः । यथोत्पन्नविनाशिन्यस् तथैता लोकदृष्टयः
अनारतसमुत्पत्ताव् अनारतविनाशिनि । कः क्रमो दग्धसंसारे कारुण्यानन्दयोर् इह
शुभाभावात् सुखाभावे स्थितिं याते विलक्षणाः । कीदृश्यः कथम् आयाताः का वा ता दुःखसंविदः
सुखम् अन्ते तदन्तोत्था स्वबीजं वितनोति या । शान्तं दुःखदशा सेयं कथम् अन्तरिते सुखे
क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये । ईप्सितानीप्सिते क्व स्तो गलिते ऽथ शुभाशुभे
रम्यारम्यदृशोर् नाशाच् छान्ते भोगाभिवाञ्छने । नैराश्यसन्ततिप्रौढे हिमवद् विगलेन् मनः
आ मूलान् मनसि क्षीणे सङ्कल्पस्य कथैव का । तिलेष्व् एवातिदग्धेषु तैलस्य कलना कुतः
भावेष्व् अभावघनभावनया महात्मा निर्मुक्तसङ्कलनम् अम्बरवत् स्थितेषु । चित्तं प्रति स्वमुदितो विदितैकरूपी ज्ञस् तिष्ठति स्वपिति जीवति नित्यतृप्तः
यथालातपरिस्पन्दाद् अग्निचक्रं प्रवर्तते । असद् एव सदाभासं चित्तस्पन्दात् तथा जगत्
यथा जलपरिस्पन्दाद् व्यतिरिक्त इवाम्भसः । दृश्यते वर्तुलावर्तश् चित्तस्पन्दात् तथा जगत्
यथा व्योम्नीक्षितस्पन्दात् पिञ्छमौक्तिकमण्डलम् । दृश्यते सद् इवासत्यं चित्तस्पन्दात् तथा जगत्
येन प्रस्पन्दते चित्तं येन न स्पन्दते ऽथ वा । तद् ब्रह्मन् ब्रूहि मे येन चिकित्स्येत तद् एव हि
यथा शौक्ल्यहिमे राम तिलतैललवौ यथा । यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा
रघुनन्दन संश्लिष्टौ चित्तस्पन्दौ तथैव हि । अभिन्नौ केवलं मिथ्या भेदः कल्पित एतयोः
चित्तचित्तपरिस्पन्दपक्षयोर् एकसङ्क्षये । स्वयं गुणगुणिस्थित्या नश्यतो द्वौ न संशयः
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगस् तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम्
कया कीदृक्षया वृत्त्या प्राणापाननिबद्धया । योगनाम्न्या मनश् शान्तिम् एत्य् अनन्तसुखप्रदाम्
देहे ऽस्मिन् देहनाडीषु वातस् स्फुरति यो ऽभितः । स्खदास्व् इव भुवो वारि स प्राण इति कीर्तितः
तस्य स्पन्दवशाद् अन्तः क्रियावैचित्र्यम् ईयुषः । अपानादीनि नामानि कल्पितानि कृतात्मभिः
आमोदस्य यथा पुष्पं शौक्ल्यस्य तुहिनं यथा । तथैष रथ आधारश् चित्तस्याभिन्नतां गतः
अन्तःप्राणपरिस्पन्दात् सङ्कल्पकलनोन्मुखी । संवित् सञ्जायते यैषा तच् चित्तं विद्धि राघव
प्राणस्पन्दं विदुस् स्पन्दं तत्स्पन्दाद् एव संविदः । चक्रावर्तविधायिन्यो जलस्पन्दाद् इवोर्मयः