अन्तस् सर्वपरित्यागी नित्यम् अन्तर् अनेषणः । कुर्वन्न् अपि बहिः कार्यं सर्वम् एवावतिष्ठते
बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः । स्वकर्मक्रमसम्प्राप्तद्वन्द्वकार्यानुवृत्तिमान्
समग्रसुखभोगात्मा सर्वाशास्व् इव संस्थितः । करोत्य् अखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः
उदासीनवद् आसीनः प्रकृतिक्रमकर्मसु । नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति
अनुबन्धपरो जन्ताव् असंसक्तेन चेतसा । भक्ते भक्तसमाचारश् शठे शठ इव स्थितः
बालो बालेषु वृद्धेषु वृद्धो वीरेषु वीर्यवान् । युवा यौवनवृत्तेषु दुःखितेषु तु दुःखितः
प्रवृत्तवाक्पुण्यकथो दैन्याद् अपगताशयः । धीरधीर् उदितानन्दः पेशलः पुण्यकीर्तनः
प्राज्ञः प्रसन्नमधुरः पूर्णस् सुप्रतिभोदयः । निरस्तखेददौर्गत्यस् सर्वस्मिन् स्निग्धबान्धवः
उदारचरिताकारस् समस् सौख्यमहोदधिः । सुस्निग्धश् शीतलस्पर्शः पूर्णश् चन्द्र इवोदितः
न तस्य सुकृतेनार्थो न भोगैर् न च कर्मभिः । न दुष्कृतैर् न भोगानां सन्त्यागेन न बन्धुभिः
न कार्यकरणारम्भैर् न निष्क्रियतया तथा । न बन्धेन न मोक्षेण न पातालेन नो दिवा
यथावस्तु यदा दृष्टं जगद् एकमयात्मकम् । तदा बन्धविमोक्षार्थं न क्वचित् कृपणं मनः
सम्यग्ज्ञानाग्निना यस्य दग्धा सन्देहजालिका । निश्शङ्कम् अलम् उड्डीनस् तस्य चित्तविहङ्गमः
यस्य भ्रान्तिविनिर्मुक्तं मनस् समरसं स्थितम् । स नास्तम् एति नोदेति व्योमवत् सर्ववृत्तिषु
मञ्जूषायां निषण्णस्य यथा बालस्य चेष्टते । अङ्गावल्य् अनुसन्धानवर्जिता ज्ञस्य वै तथा
घूर्णन् क्षीव इवानन्दी मन्दीकृतपुनर्भवः । अनुपादेयबुद्ध्या तु न स्मरत्य् अकृतं कृतम्
सर्वं सर्वप्रकारेण गृह्णाति च जहाति च । अनुपादेयसर्वार्थो बालवच् च विचेष्टते
स तिष्ठन्न् अपि कार्येषु देशकालक्रियाक्रमैः । न कार्यसुखदुःखाभ्यां मनाग् अपि हि गृह्यते
बहिः प्रकृतसर्वार्थो ऽप्य् अन्तः पुनर् अनीहया । न सत्तां योजयत्य् अर्थे न फलान्य् अनुधावति
नोपेक्षते दुःखदशां न सुखाशाम् अपेक्षते । कार्योदये नैति मुदं कार्यनाशे न खिद्यते
अपि शीतरुचाव् अर्के सुकृष्णे ऽपीन्दुमण्डले । अप्य् अधः प्रसरत्य् अग्नौ विस्मयो ऽस्य न जायते
चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः । इत्य् अस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम्
न दयादैन्यम् आदत्ते न क्रौर्यम् अनुधावति । न लज्जाम् अनुसन्धत्ते नालज्जत्वं च गच्छति
न कदाचन दीनात्मा नोद्धतात्मा कदाचन । न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान्
नास्य चेतसि सुस्फारे शरदम्बरनिर्मले । कोपादयः प्रवर्तन्ते नभसीव नवाङ्कुराः
अनारतपतज्जातभूतायां जगतस् स्थितौ । क्व कथं किल कास्य स्यात् सुखिता दुःखिताथ वा
फेनाजवञ्जवीभावे जले भूतक्रमे तथा । क्व किलेह कुतः को ऽन्तः प्रसङ्गस् सुखदुःखयोः
भावाभावैर् अपर्यन्तैर् अजस्रं जन्तुसम्भवैः । न विषीदन्ति नोद्यन्ति दृष्टसृष्टिक्रमा नराः
निमेषं प्रति यामिन्या यथान्यास् स्वप्नदृष्टयः । यथोत्पन्नविनाशिन्यस् तथैता लोकदृष्टयः
अनारतसमुत्पत्ताव् अनारतविनाशिनि । कः क्रमो दग्धसंसारे कारुण्यानन्दयोर् इह