केशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः । नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः
ललाटमणिपट्टाढ्या विलासग्राहसङ्कुलाः । कटाक्षलोलशफरा वर्णकाञ्चनवालुकाः
एवंविलोललहरीभीमात् संसारसागरात् । उत्तीर्यते चेन् मग्नेन तत् परं पौरुषं भवेत्
सत्यां प्रज्ञामहानावि विवेके सति नाविके । संसारसागराद् अस्माद् यो न तीर्णो धिग् अस्तु तम्
अपारावारम् आक्रम्य प्रमेयीकृत्य सर्वतः । संसाराब्धिं गाहते यस् स एव पुरुषस् स्मृतः
विचार्यार्यैस् सहालोक्य धिया संसारसागरम् । एतस्मिंस् तदनु क्रीडा शोभते राम नान्यथा
इह भव्यो भवान् साधो विचारपरया धिया । त्वया यूनैव येनायं संसारः प्रविचार्यते
भवान् इव विचार्यादौ संसारम् अतिकान्तया । मत्या यो गाहते लोके नेहासौ परिमज्जति
पूर्वं धिया विचार्यैते भोगा भोगिभयप्रदाः । भोक्तव्याश् चरमं राम गरुडेनेव पन्नगाः
विचार्य तत्त्वम् आलोक्य सेव्यन्ते या विभूतयः । ता उदर्कोदया जन्तोश् शेषा दुःखाय केवलम्
बलं बुद्धिश् च तेजश् च दृष्टतत्त्वस्य वर्धते । सवसन्तस्य वृक्षस्य सौन्दर्याद्या गुणा इव
घनरसायनपूरणशीतया विमलया समया सततं धिया । शिशिररश्मिर् इवातिविराजते विदितवेद्यसुखं रघुनन्दन
समासेन मुने भूयो दृष्टतत्त्वचमत्कृतिम् । कथयोदारवृत्तान्ते कस् ते वचसि तृप्यति
जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया । भूयो ऽपि च महाबाहो कथ्यमानम् इदं शृणु
सुषुप्तवद् इदं नित्यं पश्यत्य् अपगतैषणः । असद्रूपं इवासक्तस् सर्वत्राखिलम् आत्मवान्
कैवल्यम् इव सम्प्राप्तः परिसुप्तमना इव । घूर्णमान इवानन्दी तिष्ठत्य् अधिगतात्मदृक्
न दत्तम् अप्य् उपादत्ते गृहीतम् अपि पाणिना । अन्तर्मुखतयोदात्तरूपया समया धिया
यन्त्रपुत्रकसञ्चार इतीमं जनताक्रमम् । अन्तस्संलीनया दृष्ट्या पश्यन् हसति शान्तधीः
नापेक्षते भविष्यच् च वर्तमाने न तिष्ठति । न संस्मरत्य् अतीतं च सर्वम् एव करोति च
सुप्तः प्रबुद्धो भवति प्रबुद्धो ऽपि च सुप्तवत् । सर्वकर्मकरो ऽप्य् अन्तर् न करोतीव किञ्चन
अन्तस् सर्वपरित्यागी नित्यम् अन्तर् अनेषणः । कुर्वन्न् अपि बहिः कार्यं सर्वम् एवावतिष्ठते
बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः । स्वकर्मक्रमसम्प्राप्तद्वन्द्वकार्यानुवृत्तिमान्
समग्रसुखभोगात्मा सर्वाशास्व् इव संस्थितः । करोत्य् अखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः
उदासीनवद् आसीनः प्रकृतिक्रमकर्मसु । नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति
अनुबन्धपरो जन्ताव् असंसक्तेन चेतसा । भक्ते भक्तसमाचारश् शठे शठ इव स्थितः
बालो बालेषु वृद्धेषु वृद्धो वीरेषु वीर्यवान् । युवा यौवनवृत्तेषु दुःखितेषु तु दुःखितः
प्रवृत्तवाक्पुण्यकथो दैन्याद् अपगताशयः । धीरधीर् उदितानन्दः पेशलः पुण्यकीर्तनः
प्राज्ञः प्रसन्नमधुरः पूर्णस् सुप्रतिभोदयः । निरस्तखेददौर्गत्यस् सर्वस्मिन् स्निग्धबान्धवः
उदारचरिताकारस् समस् सौख्यमहोदधिः । सुस्निग्धश् शीतलस्पर्शः पूर्णश् चन्द्र इवोदितः
न तस्य सुकृतेनार्थो न भोगैर् न च कर्मभिः । न दुष्कृतैर् न भोगानां सन्त्यागेन न बन्धुभिः