नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः । सम्भवन्तीह बहवस् सुहोत्रजनका इव
तस्मात् त्वम् अपि वै राम विवेकोदितधीरधीः । जीवन्मुक्तो विहर भोस् समलोष्टाश्मकाञ्चनः
द्विविधा मुक्तता लोके विद्यते देहधारिणाम् । सदेहैका विदेहान्या विभागो ऽयं तयोश् शृणु
असंसङ्गात् पदार्थानां मनश्शान्तिर् हि मुक्तता । सत्य् असत्य् अपि देहे सा सम्भवत्य् अनघाकृते
स्नेहसङ्क्षयम् एवाङ्ग विदुः कैवल्यम् उत्तमाः । तत् सम्भवति देहस्य भावे चाभाव एव च
यो जीवति गतस्नेहं स जीवन्मुक्त उच्यते । सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः
यत्नो यत्नेन कर्तव्यो मोक्षार्थं युक्तिपूर्वकम् । यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत्
न त्व् अनध्यवसायस्य दुःखाय विपुलात्मने । आत्मा परवशः कार्यो मोहम् आश्रित्य केवलम्
सुमहद् धैर्यम् आलम्ब्य मनसा व्यवसायिना । विचारयात्मनात्मानम् आत्मनश् चिरसिद्धये
वितताध्यवसायस्य जगद् भवति गोष्पदम् । विहताध्यवसायस्य गोष्पदं वै जगद् भवेत्
यद् उपगतस् सुगतः परं प्रधानं यद् उपगतो ध्रुवतां नृपश् च कश्चित् । यद् उपगताः पदम् उत्तमं महान्तः प्रयतनकर्मतरोर् महाफलं तत्
ब्रह्मणस् समुपायान्ति जगन्तीमानि राघव । स्थैर्यं यान्त्य् अविवेकेन शाम्यन्त्य् अङ्ग विवेकतः
जगज्जालजलावर्तवृत्तयो ब्रह्मवारिधौ । सङ्ख्यातुं केन शक्यन्ते भासां च त्रसरेणवः
असम्यक्प्रेक्षणं विद्धि कारणं जगतस् स्थितौ । संसारशान्ताव् एकान्तकारणं सम्यगीक्षणम्
अयं हि राम दुष्पारो घोरस् संसारसागरः । विना युक्तिप्रयत्नाभ्याम् अस्मान् नाम न तीर्यते
अयं हि सागरः पूर्णो मोहाम्बुभरपूरितः । अगाधमरणावर्तः कल्लोलाकुलकोटरः
प्रभ्रमत्पुण्यदिण्डीरो ज्वलन्नरकवाडवः । तृष्णाविलोललहरिर् मनोजलमतङ्गजः
आलीनजीवितसरिद् भोगरत्नसमुद्गकः । क्रुद्धरोगोरगाकीर्ण इन्द्रियग्राहघर्घरः
पश्यास्मिन् प्रसृता राम वीचयश् चारुचञ्चलाः । इमा मुग्धाङ्गनानाम्न्यश् शिखराकर्षणक्षमाः
छदश्रीपद्मरागाढ्या नेत्रनीलोत्पलाकुलाः । दन्तमुक्ताफलाकीर्णास् स्मितफेनोपशोभिताः
केशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः । नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः
ललाटमणिपट्टाढ्या विलासग्राहसङ्कुलाः । कटाक्षलोलशफरा वर्णकाञ्चनवालुकाः
एवंविलोललहरीभीमात् संसारसागरात् । उत्तीर्यते चेन् मग्नेन तत् परं पौरुषं भवेत्
सत्यां प्रज्ञामहानावि विवेके सति नाविके । संसारसागराद् अस्माद् यो न तीर्णो धिग् अस्तु तम्
अपारावारम् आक्रम्य प्रमेयीकृत्य सर्वतः । संसाराब्धिं गाहते यस् स एव पुरुषस् स्मृतः
विचार्यार्यैस् सहालोक्य धिया संसारसागरम् । एतस्मिंस् तदनु क्रीडा शोभते राम नान्यथा
इह भव्यो भवान् साधो विचारपरया धिया । त्वया यूनैव येनायं संसारः प्रविचार्यते
भवान् इव विचार्यादौ संसारम् अतिकान्तया । मत्या यो गाहते लोके नेहासौ परिमज्जति
पूर्वं धिया विचार्यैते भोगा भोगिभयप्रदाः । भोक्तव्याश् चरमं राम गरुडेनेव पन्नगाः
विचार्य तत्त्वम् आलोक्य सेव्यन्ते या विभूतयः । ता उदर्कोदया जन्तोश् शेषा दुःखाय केवलम्