अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते । पापस्य हि भयाल् लोको धर्मे राम प्रवर्तते
असत्ये सत्यता साधो शाश्वती परिलक्ष्यते । शून्येन ध्यानयोगेन शाश्वतं पदम् आप्यते
यन् नास्ति तद् उदेत्य् आशु देशकालविलासतः । शशकाश् शृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ
ये वज्रसारास् सुदृढा दृश्यन्ते ते क्षयं गताः । कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधाद्रयः
इति पश्यन् महाबाहो भावाभावभवक्रमम् । हर्षामर्षविषादेहास् सन्त्यज्य समतां व्रज
असत् सद् अवभातीह सद् असच् चापि दृश्यते । आस्थानास्थे परित्यज्य तेनाशु समतां व्रज
मुक्तौ राघव लोके ऽस्मिन् न प्राप्तिस् सम्भवत्य् अलम् । अप्रवृत्त्या विवेकस्य मग्ना हि जनकोटयः
मुक्तौ राघव लोके ऽस्मिन् प्राप्तिर् अस्ति सदैव हि । प्रवृत्त्या हि विवेकस्य मुक्ताश् च जनकोटयः
प्रविवेकाविवेकाभ्यां सुलभालभ्यतां गता । मुक्तिर् मनःक्षयप्राप्त्या विवेकं तेन दीपय
आत्मावलोकने यत्नः कर्तव्यो भूतिम् इच्छता । सर्वदुःखशिरश्छेद आत्मालोकेन जायते
नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः । सम्भवन्तीह बहवस् सुहोत्रजनका इव
तस्मात् त्वम् अपि वै राम विवेकोदितधीरधीः । जीवन्मुक्तो विहर भोस् समलोष्टाश्मकाञ्चनः
द्विविधा मुक्तता लोके विद्यते देहधारिणाम् । सदेहैका विदेहान्या विभागो ऽयं तयोश् शृणु
असंसङ्गात् पदार्थानां मनश्शान्तिर् हि मुक्तता । सत्य् असत्य् अपि देहे सा सम्भवत्य् अनघाकृते
स्नेहसङ्क्षयम् एवाङ्ग विदुः कैवल्यम् उत्तमाः । तत् सम्भवति देहस्य भावे चाभाव एव च
यो जीवति गतस्नेहं स जीवन्मुक्त उच्यते । सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः
यत्नो यत्नेन कर्तव्यो मोक्षार्थं युक्तिपूर्वकम् । यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत्
न त्व् अनध्यवसायस्य दुःखाय विपुलात्मने । आत्मा परवशः कार्यो मोहम् आश्रित्य केवलम्
सुमहद् धैर्यम् आलम्ब्य मनसा व्यवसायिना । विचारयात्मनात्मानम् आत्मनश् चिरसिद्धये
वितताध्यवसायस्य जगद् भवति गोष्पदम् । विहताध्यवसायस्य गोष्पदं वै जगद् भवेत्
यद् उपगतस् सुगतः परं प्रधानं यद् उपगतो ध्रुवतां नृपश् च कश्चित् । यद् उपगताः पदम् उत्तमं महान्तः प्रयतनकर्मतरोर् महाफलं तत्
ब्रह्मणस् समुपायान्ति जगन्तीमानि राघव । स्थैर्यं यान्त्य् अविवेकेन शाम्यन्त्य् अङ्ग विवेकतः
जगज्जालजलावर्तवृत्तयो ब्रह्मवारिधौ । सङ्ख्यातुं केन शक्यन्ते भासां च त्रसरेणवः
असम्यक्प्रेक्षणं विद्धि कारणं जगतस् स्थितौ । संसारशान्ताव् एकान्तकारणं सम्यगीक्षणम्
अयं हि राम दुष्पारो घोरस् संसारसागरः । विना युक्तिप्रयत्नाभ्याम् अस्मान् नाम न तीर्यते
अयं हि सागरः पूर्णो मोहाम्बुभरपूरितः । अगाधमरणावर्तः कल्लोलाकुलकोटरः
प्रभ्रमत्पुण्यदिण्डीरो ज्वलन्नरकवाडवः । तृष्णाविलोललहरिर् मनोजलमतङ्गजः
आलीनजीवितसरिद् भोगरत्नसमुद्गकः । क्रुद्धरोगोरगाकीर्ण इन्द्रियग्राहघर्घरः
पश्यास्मिन् प्रसृता राम वीचयश् चारुचञ्चलाः । इमा मुग्धाङ्गनानाम्न्यश् शिखराकर्षणक्षमाः
छदश्रीपद्मरागाढ्या नेत्रनीलोत्पलाकुलाः । दन्तमुक्ताफलाकीर्णास् स्मितफेनोपशोभिताः