परमं बोधम् आसाद्य केचित् काननम् आगताः । यथा भृगुभरद्वाजविश्वामित्रसहादयः
केचित् राज्येषु तिष्ठन्ति च्छत्त्रचामरमालिताः । यथा जनकशर्यातिमान्धातृमगधादयः
केचिद् व्योमनि तिष्ठन्ति धिष्ण्यचक्रान्तरस्थिताः । यथा बृहस्पत्युशनश्चन्द्रसूर्यमुनीश्वराः
केचित् सुरपदं याता विमानावलिम् आस्थिताः । यथाग्निवायुवरुणयमतुम्बुरुनारदाः
केचित् पातालकुहरे जीवन्मुक्ता व्यवस्थिताः । यथा बडिसुहोत्रान्धप्रह्लादह्लादपूर्वकाः
तिर्यग्योनिष्व् अपि सदा वर्तन्ते कृतबुद्धयः । देवयोनिष्व् अपि प्राज्ञ वर्तन्ते मूर्खबुद्धयः
सर्वं सर्वेण सर्वत्र सर्वथा सर्वदैव हि । सम्भवत्य् एव सर्वात्मन्य् आत्मनात्मस्वरूपिणि
विधेर् विचित्रा नियतिर् अनन्तारम्भमन्थरा । सन्निवेशांशवैचित्र्यात् सर्वं सर्वत्र दृश्यते
विधिर् दैवं विभुर् धाता सर्वेशश् शिव ईश्वरः । इति नामभिर् आत्मान्तः प्रत्यक्चेतन उच्यते
अस्त्य् अवस्तुनि वस्त्व् अन्तः काञ्चनं सिकतास्व् इव । अस्ति वस्तुन्य् अवस्त्व् अन्तर् मलं हेमकणेष्व् इव
अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते । पापस्य हि भयाल् लोको धर्मे राम प्रवर्तते
असत्ये सत्यता साधो शाश्वती परिलक्ष्यते । शून्येन ध्यानयोगेन शाश्वतं पदम् आप्यते
यन् नास्ति तद् उदेत्य् आशु देशकालविलासतः । शशकाश् शृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ
ये वज्रसारास् सुदृढा दृश्यन्ते ते क्षयं गताः । कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधाद्रयः
इति पश्यन् महाबाहो भावाभावभवक्रमम् । हर्षामर्षविषादेहास् सन्त्यज्य समतां व्रज
असत् सद् अवभातीह सद् असच् चापि दृश्यते । आस्थानास्थे परित्यज्य तेनाशु समतां व्रज
मुक्तौ राघव लोके ऽस्मिन् न प्राप्तिस् सम्भवत्य् अलम् । अप्रवृत्त्या विवेकस्य मग्ना हि जनकोटयः
मुक्तौ राघव लोके ऽस्मिन् प्राप्तिर् अस्ति सदैव हि । प्रवृत्त्या हि विवेकस्य मुक्ताश् च जनकोटयः
प्रविवेकाविवेकाभ्यां सुलभालभ्यतां गता । मुक्तिर् मनःक्षयप्राप्त्या विवेकं तेन दीपय
आत्मावलोकने यत्नः कर्तव्यो भूतिम् इच्छता । सर्वदुःखशिरश्छेद आत्मालोकेन जायते
नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः । सम्भवन्तीह बहवस् सुहोत्रजनका इव
तस्मात् त्वम् अपि वै राम विवेकोदितधीरधीः । जीवन्मुक्तो विहर भोस् समलोष्टाश्मकाञ्चनः
द्विविधा मुक्तता लोके विद्यते देहधारिणाम् । सदेहैका विदेहान्या विभागो ऽयं तयोश् शृणु
असंसङ्गात् पदार्थानां मनश्शान्तिर् हि मुक्तता । सत्य् असत्य् अपि देहे सा सम्भवत्य् अनघाकृते
स्नेहसङ्क्षयम् एवाङ्ग विदुः कैवल्यम् उत्तमाः । तत् सम्भवति देहस्य भावे चाभाव एव च
यो जीवति गतस्नेहं स जीवन्मुक्त उच्यते । सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः
यत्नो यत्नेन कर्तव्यो मोक्षार्थं युक्तिपूर्वकम् । यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत्
न त्व् अनध्यवसायस्य दुःखाय विपुलात्मने । आत्मा परवशः कार्यो मोहम् आश्रित्य केवलम्
सुमहद् धैर्यम् आलम्ब्य मनसा व्यवसायिना । विचारयात्मनात्मानम् आत्मनश् चिरसिद्धये
वितताध्यवसायस्य जगद् भवति गोष्पदम् । विहताध्यवसायस्य गोष्पदं वै जगद् भवेत्