यथा सङ्कल्पकान्तेन भवत्य् आनन्दमन्थरः । वधूलोको व्यसनवान् दुःखजालैर् न खेद्यते
तथा विगलिताविद्यो व्यवहारपरो ऽपि सन् । सम्यग्दृष्टिसमाचारो मुदम् एत्य् अन्तर् आत्मना
छिद्यते न निकृत्ताङ्गो गलदस्रुर् न रोदिति । दह्यते न प्रदग्धो ऽपि नष्टो ऽपि न विनश्यति
व्यपगतसुखदुःखसन्निपातो विधिविधुरेष्व् अपि सङ्कटेष्व् अखिन्नः । निवसतु सदने पुरोत्तमे वा विततगिरौ विपिने तपोवने वा
जनकस् संस्थितो राज्ये व्यवहारपरो ऽपि सन् । विगतज्वर एवान्तर् अनाकुलमतिस् सदा
पितामहो दिलीपस् ते सर्वारम्भपरो ऽप्य् अलम् । वीतरागतयैवान्तर् बुभुजे मेदिनीं चिरम्
जीवन्मुक्ताकृतिर् नित्यम् अजो राज्यम् अपालयत्
विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु । मान्धाता सुचिरं तिष्ठंस् त्यक्तवान् न परं पदम्
बडिः पातालपीठस्थः कुर्वन् स्वां दिवसस्थितिम् । सदात्यागी सदासक्तो जीवन्मुक्तपदे स्थितः
नमुचिर् दानवाधीशो देवद्वन्द्वपरस् सदा । नानाचारविहारेषु क्वचिन् नान्तर् अतप्यत
वासवाजौ तनुत्यागी वृत्रो विततमानसः । अन्तश्शीतमना मानी चकार सुरसङ्गरम्
कुर्वन् दानवकार्याणि पातालतलपालकः । अनपायं निराक्रोशं प्रह्लादो ह्लादम् आगतः
शम्बरैकपरो ऽप्य् अन्तश् शम्बरैकतयोदितः । संसारशम्बरं राम शम्बरस् त्यक्तवान् इदम्
असक्तबुद्धिर् हरिणा कुर्वन् दानवसङ्गरम् । परां संविदम् आसाद्य मुसलस् त्यक्तवांस् तनुम्
सर्वामरमुखं वह्निः क्रियाजालपरो ऽप्य् अति । यज्ञलक्ष्मीं चिरं भोक्तुं मुक्त एवेह तिष्ठति
पीयमानस् सुरैस् सर्वैस् सोमस् समरसाशयः । क्वचिद् एति न संसङ्गम् आक्रान्तो ऽप्य् अम्बरं यथा
बृहस्पतिर् देवगुरुर् दारार्थं चन्द्रयोध्य् अपि । आचरन् दिवि चित्रेहामुक्त एव व्यवस्थितः
शुक्रो ऽम्बरतलोद्द्योती लब्धसर्वार्थपालकः । निर्विकारमतिः कालं नयत्य् असुरदैशिकः
जगद्भूतगणाङ्गानि चिरं सञ्चारयन्न् अपि । सर्वदा सर्वसञ्चारी मुक्त एव समीरणः
लोकाजवञ्जवीभावे प्रोद्वेगार्हो ऽप्य् अखिन्नधीः । ब्रह्मा सममना राम क्षपयत्य् आयुर् आयतम्
जरामरणयुद्धादिद्वन्द्वपञ्जरलीलया । चरतीह चिरं कालं मुक्तो ऽपि भगवान् हरिः
मुक्तेनापि त्रिनेत्रेण सौन्दर्यतरुमञ्जरी । देहार्धे धार्यते गौरी कामुकेनेव कामुकी
मुक्तयापि गले बद्धो गौर्या गौरस् त्रिलोचनः । सुशुद्ध इव मुक्तानां गणश् शशिकलामलः
गुहो गहनधीर् वीरस् तारकादिरणक्रमम् । मुक्तो ऽपि कृतवान् सर्वज्ञानरत्नैकसागरः
भृङ्गीशो रक्तमांसं स्वं स्वमात्रे प्रवितीर्णवान् । मुक्तयैव धिया राम धीरया ध्यानधौतया
मुनिर् मुक्तस्वभावो ऽपि जगज्जङ्गलखण्डकम् । नारदो विजहारेमं लीलया कार्यशीलया
जीवन्मुक्तमना मानी विश्वामित्रस् स्वयं प्रभुः । वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति
धारयत्य् अवनिं शेषः करोत्य् अर्को दिनावलीम् । यमो यमत्वं कुरुते जीवन्मुक्ततयैव हि
अन्ये ऽप्य् अस्मिंस् त्रिभुवने यक्षामरनरासुराः । शतशो मुक्ततां यातास् सन्तस् तिष्ठन्ति संसृतौ
संस्थिता व्यवहारेषु विविधाचारधारिषु । अन्तराशीतलाः केचित् केचिन् मूढाश् शिलासमाः