प्रत्यक्षप्रमुखान् नित्यं प्रमाणात् पौरुषः क्रमः । फलतो दृश्यते लोके देशान्तरगमादिकः
भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः । वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम्
पौरुषेण दुरन्तेभ्यस् सङ्कटेभ्यस् सुबुद्धयः । समुत्तरन्त्य् अयत्नेन न तु मूकतयानया
यो यो यथा प्रयतते स स तद्वत् फलैकभाक् । न तु तूष्णीं स्थितेनेह केनचित् प्राप्यते फलम्
शुभेन पुरुषार्थेन शुभम् आसाद्यते फलम् । अशुभेनाशुभं राम यथेच्छसि तथा कुरु
पुरुषार्थफलप्राप्तिर् देशकालवशाद् इह । प्राप्ता चिरेण शीघ्रं वा यासौ दैवम् इति स्मृता
न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् । उक्तं दैवाभिधानेन स्वं लोके कर्मणः फलम्
पुरुषो जायते लोके वर्धते क्षीयते पुनः । न तत्र दृश्यते दैवं जरायौवनबाल्यवान्
देशाद् देशान्तरप्राप्तिर् हस्तस्थद्रव्यधारणम् । व्यापारश् च तथाङ्गानां पौरुषेण न दैवतः
अर्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सर्वम् आसाद्यते ऽनया
अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या । सोक्ता प्रोन्मत्तचेष्टेति न किञ्चित् प्राप्यते ऽनया
क्रियायास् स्पन्दधर्मिण्यास् स्वार्थसाधकता स्वयम् । साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नीयते धिया
अनन्तं समतानन्दं परमार्थं स्वकं विदुः । तद् येभ्यः प्राप्यते यत्नात् ते सेव्याश् शास्त्रसाधवः
सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान् मतिः । वर्धेते ते मिथो ऽभ्यासात् सरोब्दाव् इव कालतः
आ बाल्याद् अलम् अभ्यस्तैश् शास्त्रसत्सङ्गमादिभिः । गुणैः पुरुषयत्नेन स्वो ऽर्थस् सम्प्राप्यते हितः
पौरुषेण जिता दैत्यास् स्थापिता भुवनक्रियाः । रचितानि जगन्तीह विष्णुना न तु दैवतः
जगति पुरुषकारकारणे ऽस्मिन् कुरु रघुनाथ चिरं तथा प्रयत्नम् । व्रजसि तरुसरीसृपाभिधानां सुभग यथा न दशाम् अशङ्क एव
नाकृतिर् न च कर्माणि नास्पदं न पराक्रमः । तन् मिथ्याज्ञानवत् प्रौढं दैवं नाम किम् उच्यते
स्वकर्मफलसम्प्राप्ताव् इदम् इत्थम् इतीव याः । गिरस् ता दैवनाम्नैताः प्रसिद्धिं समुपागताः
तथैव मूढमतिभिर् दैवम् अस्तीति निश्चयः । आत्तो दुरवबोधेन रज्जाव् इव भुजङ्गमः
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव
मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः । दैवाद् दाहो ऽस्तु मा वेति वक्तव्यं तेन पावके
दैवम् एवेह चेत् कर्म पुंसः किम् इव चेष्टया । स्नानदानाशनाचारं दैवम् एव करिष्यति
किं वा शास्त्रोपदेशेन मूको ऽयं पुरुषः किल । सञ्चार्यते तु दैवेन किं कस्येहोपदिश्यते
न च निस्स्पन्दता लोके दृष्टेह शवतां विना । स्पन्दाश् च फलसम्प्राप्तिस् तस्माद् दैवं निरर्थकम्
न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता । हस्तादीन् ईहतश् चैव न दैवेन क्वचित् कृतम्
मनोबुद्धिवद् अप्य् एतद् दैवं नेहानुभूयते । आगोपालं किल प्राज्ञैस् तेन दैवम् असत् सदा
बुद्धेश् चेत् पृथग् अन्यो ऽर्थस् सैव चेत् कान्यता तयोः । कल्पना वा प्रमाणं चेत् पौरुषं किं न कल्प्यते
नामूर्तेस् तेन सङ्गो ऽस्ति नभसेव वपुष्मतः । मूर्तं च दृश्यते लग्नं तस्माद् दैवं न विद्यते
विनियोक्ताथ भूतानाम् अस्त्य् अन्यस् तज् जगत्त्रये । शेरतां भूतवृन्दानि दैवं सर्वं करिष्यति