सुधाम्भसि यथा क्षीरधीर् विचारान् निवर्तते । संसारवासना तद्वद् धीविचारान् निवर्तते
मध्वम्बुशङ्कया तावद् विषवारि प्रपीयते । यावत् तन् न परिज्ञातं परिज्ञातं विहीयते
रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी । द्रव्यमात्रसमारम्भात् तत्त्वविद्भिर् विलोक्यते
यथा मषीकुसुम्भादि स्त्रियाश् चित्रे तथैव हि । जीवन्त्या अपि केशोष्ठं कस् तां प्रति किल ग्रहः
अनुभूतो गुडस् स्वादुर् अपि दाहविकर्तनैः । न शक्यते ऽन्यथा कर्तुं तत्त्वालोकस् तथात्मनः
परव्यसनिनी नारी व्यग्रापि गृहकर्मणि । तद् एवास्वादयत्य् अन्तर् नवसङ्गरसायनम्
एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिम् आगतः । न शक्यते चालयितुं देवैर् अपि सहासुरैः
परव्यसनिनी नारी केन भर्त्रा बलीयसा । विस्मारिता स्वसङ्कल्पकान्तसङ्गमहोत्सवम्
जगत् समरसानन्तचिदालोकावलम्बनम् । केन विस्मार्यते बुद्धिस् तत्त्वज्ञस्य महात्मनः
समग्रसुखदुःखाभ्यां व्यवहारम् अखण्डितम् । कुर्वन् गुरुजनायत्तो भर्तृश्वशुरखेदितः
यथा सङ्कल्पकान्तेन भवत्य् आनन्दमन्थरः । वधूलोको व्यसनवान् दुःखजालैर् न खेद्यते
तथा विगलिताविद्यो व्यवहारपरो ऽपि सन् । सम्यग्दृष्टिसमाचारो मुदम् एत्य् अन्तर् आत्मना
छिद्यते न निकृत्ताङ्गो गलदस्रुर् न रोदिति । दह्यते न प्रदग्धो ऽपि नष्टो ऽपि न विनश्यति
व्यपगतसुखदुःखसन्निपातो विधिविधुरेष्व् अपि सङ्कटेष्व् अखिन्नः । निवसतु सदने पुरोत्तमे वा विततगिरौ विपिने तपोवने वा
जनकस् संस्थितो राज्ये व्यवहारपरो ऽपि सन् । विगतज्वर एवान्तर् अनाकुलमतिस् सदा
पितामहो दिलीपस् ते सर्वारम्भपरो ऽप्य् अलम् । वीतरागतयैवान्तर् बुभुजे मेदिनीं चिरम्
जीवन्मुक्ताकृतिर् नित्यम् अजो राज्यम् अपालयत्
विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु । मान्धाता सुचिरं तिष्ठंस् त्यक्तवान् न परं पदम्
बडिः पातालपीठस्थः कुर्वन् स्वां दिवसस्थितिम् । सदात्यागी सदासक्तो जीवन्मुक्तपदे स्थितः
नमुचिर् दानवाधीशो देवद्वन्द्वपरस् सदा । नानाचारविहारेषु क्वचिन् नान्तर् अतप्यत
वासवाजौ तनुत्यागी वृत्रो विततमानसः । अन्तश्शीतमना मानी चकार सुरसङ्गरम्
कुर्वन् दानवकार्याणि पातालतलपालकः । अनपायं निराक्रोशं प्रह्लादो ह्लादम् आगतः
शम्बरैकपरो ऽप्य् अन्तश् शम्बरैकतयोदितः । संसारशम्बरं राम शम्बरस् त्यक्तवान् इदम्
असक्तबुद्धिर् हरिणा कुर्वन् दानवसङ्गरम् । परां संविदम् आसाद्य मुसलस् त्यक्तवांस् तनुम्
सर्वामरमुखं वह्निः क्रियाजालपरो ऽप्य् अति । यज्ञलक्ष्मीं चिरं भोक्तुं मुक्त एवेह तिष्ठति
पीयमानस् सुरैस् सर्वैस् सोमस् समरसाशयः । क्वचिद् एति न संसङ्गम् आक्रान्तो ऽप्य् अम्बरं यथा
बृहस्पतिर् देवगुरुर् दारार्थं चन्द्रयोध्य् अपि । आचरन् दिवि चित्रेहामुक्त एव व्यवस्थितः
शुक्रो ऽम्बरतलोद्द्योती लब्धसर्वार्थपालकः । निर्विकारमतिः कालं नयत्य् असुरदैशिकः
जगद्भूतगणाङ्गानि चिरं सञ्चारयन्न् अपि । सर्वदा सर्वसञ्चारी मुक्त एव समीरणः
लोकाजवञ्जवीभावे प्रोद्वेगार्हो ऽप्य् अखिन्नधीः । ब्रह्मा सममना राम क्षपयत्य् आयुर् आयतम्