दानादानसमाहारविहारविभवादिकाः । क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः
पदं यस्य न बध्नाति कदाचित् कलना हृदि । तृणीकृतत्रिभुवनः केनासाव् उपमीयते
इदम् एवास्त्व् इदं मास्तु ममेति हृदि रञ्जना । न यस्यास्ति तम् आत्मेशं तोलयन्ति कथं जनाः
सर्वसङ्कटपर्यन्तम् असङ्कटमलं सुखम् । सौभाग्यं परमं बुद्धेर् नैराश्यम् अवलम्ब्यताम्
न शास्तेह त्वम् आशानां विद्धि मिथ्याभ्रमं जगत् । वहद्रथस्थदिक्चक्रनेम्यावर्तवद् उत्थितम्
किं मुह्यसि महाबाहो मूर्खवत् पण्डितो ऽपि सन् । ममेदं तद् अयं सो ऽहम् इत्य् उद्भ्रान्तेन चेतसा
आत्मैवेदं जगत् सर्वं नानातेह न विद्यते । एकरूपं जगज् ज्ञात्वा धीरै राम न खिद्यते
यथाभूतपदार्थौघदर्शनाद् एव राघव । परमाश्वासनं बुद्धेर् नैराश्यम् अधिगम्यते
भावाभावविसंवादमुक्तम् आद्यन्तयोस् स्थितम् । यद् रूपं तत् समालम्ब्य पदार्थानां स्थितिं कुरु
नैराश्यधीरमनसो मायेयम् अतिमोहिनी । पलाय्य याति संसारी मृगी केसरिणो यथा
कान्ताम् उद्दाममदनां लोलां वनलताम् अपि । जर्जरोपलपालीं च समं पश्यति धीरधीः
भोगा नानन्दयन्त्य् अन्तः खेदयन्ति न चापदः । दृश्यश्रियो हरन्त्य् अङ्ग न ज्ञम् अद्रिम् इवानिलाः
रक्तबालाङ्गनस्यापि ज्ञस्योदारधियो मुनेः । कणशः खण्डतां यान्ति मनसि स्मरसायकाः
रागद्वेषैस् स्वरूपज्ञो नावशः परिकृष्यते । स्पर्श एवास्य नैताभ्यां किम् उताक्रमणं भवेत्
समदृष्टलतालोलवनिताद्रिशिलादिषु । रमते नैष भोगेषु पान्थो मरुमहीष्व् इव
अयत्नोपनतं सर्वं लीलया मुक्तमानसः । भुङ्क्ते भोगभरं प्राज्ञस् त्व् आलोकम् इव लोचनम्
काकतालीयवत् प्राप्ता भोगाली ललनादिका । सेविताप्य् अङ्ग धीरस्य न दुःखाय न तुष्टये
सम्यग्दृष्टपदार्थं ज्ञं सुखदुःखगती मनाक् । द्वे वीच्याव् इव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः
हेलयालोकयन् भोगान् मृदुर् दान्तो गतज्वरः । स्वम् एव पदम् आलम्ब्य सर्वभूतान्तरस्थितम्
ज्ञस् तिष्ठति गतव्यग्रं व्यग्रयापि समन्वितः । जगन्ति जनयन्न् एव ब्रह्मेवात्मपरायणः
आपतत्सु यथाकामं यथाकालं यथाक्रमम् । सुखदुःखेषु न क्षोभम् एति भूभृद् ऋतुष्व् इव
मज्जतो ऽपि बहुज्ञस्य राम कर्मेन्द्रियक्रमैः । असक्तमनसो नित्यं न किञ्चिद् अपि मज्जति
कलङ्क्य् अन्तःकलङ्केन प्रोच्यते हेम नान्यथा । भावासक्त्या समासक्त उक्तो जन्तुर् हि नान्यथा
शरीरात् प्रविविक्तं स्वं पश्यतः प्रविवेकिनः । विकर्तिताङ्गकस्यापि न किञ्चित् प्रविकर्तितम्
सकृत्प्रभातं विमलं यज् ज्ञातं ज्ञातम् एव तत् । न हि बन्धुः परिज्ञातः पुनर् अज्ञाततां व्रजेत्
सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना । पुनर् एति यथा प्रावृण्नदी गिरितटच्युता
न हेम तापशुद्धाङ्गं स्वाभासम् अलम् आगतम् । कर्दमे मग्नम् अपि सत् समादत्ते मलं पुनः
क्षीणे स्वहृदयग्रन्थौ न बन्धो ऽस्ति पुनर् गुणैः । यत्नेनापि पुनर् बद्धं केन वृन्ते च्युतं फलम्
अयश्छेदविचाराभ्याम् अभितः खण्डशो गतम् । पाषाणं च मनश् चैव सन्धातुं कस्य शक्तता
विज्ञातायाम् अविद्यायां कः पुनः परिमज्जति । परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः