अज्ञातैषा मनोमत्तमृगं विषयतर्षुलम् । असत्यैव हि सत्येव मृगतृष्णेव कर्षति
विज्ञाता सत्यरूपेयं नाशं याति पलायते । विप्रमध्यात् परिज्ञाता यथा चण्डालकन्यका
अविद्या सम्परिज्ञाता न मनः परिकर्षति । मृगतृष्णा परिज्ञाता तर्षुलं नापकर्षति
परमार्थावबोधेन समूलं राम वासना । दीपेनेवान्धकारश्रीर् गलत्य् आलोक एति च
नास्त्य् अविद्येति सञ्जाते निश्चये शास्त्रयुक्तितः । गलत्य् अविद्या तापेन तुषारकणिका यथा
देहस्यास्य जडस्यार्थे किं भोगैर् इति निश्चयी । भिनत्त्य् आशामयं ज्ञानी पञ्जरं केसरी यथा
आशापरिकरे राम नूनं परिहृते हृदः । पुमान् आगतसौन्दर्यो ह्लादम् आयाति चन्द्रवत्
परां शीतलताम् एति वृष्टिधौत इवाचलः । निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधनः
शोभते ऽमलया लक्ष्म्या शरदीव नभस्तलम् । आत्मन्य् एव न मात्य् उच्चैः कल्पस्यान्त इवार्णवः
भवत्य् अपेतसंरम्भो वृष्टमूक इवाम्बुदः । तिष्ठत्य् आत्मनि संवेत्ता प्रशान्त इव वारिधिः
परं धैर्यम् उपादत्ते स्थैर्यं मेरुर् इवाचलः । राजते स्वस्थया लक्ष्म्या शान्तेन्धन इवानलः
भवत्य् आत्मनि निर्वाणः प्रशान्त इव दीपकः । दृष्टिम् आयाति परमां नरः पीतामृतो यथा
अन्तर्दीपो घट इव मध्यज्वाल इवानलः । स्फुरद्दीप्तिर् मणिर् इव प्रयात्य् अन्तः प्रकाशताम्
सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् । सर्वाकारं निराकारं स्वम् आत्मानं प्रपश्यति
हसत्य् अलम् अतीतास् ताः पेलवा दिवसावलीः । यासु स्मरशरश्रेणीचपलं चित्तम् अच्छिनत्
सङ्गरङ्गविनिष्क्रान्तश् शान्तमानमनोज्वरः । अध्यात्मरतिर् आसीनः पूर्णपावनमानसः
निर्मृष्टकामपङ्काङ्कश् छिन्नजन्मनिबन्धनः । द्वन्द्वदोषभयोन्मुक्तस् तीर्णसंसारसागरः
प्राप्तानुत्तमविश्रान्तिर् लब्धालभ्यपदास्पदः । अनिवर्तिपदं प्राप्तः कर्मणाम् अन्तम् आगतः
सर्वाभिवाञ्छितारम्भो न किञ्चिद् अपि वाञ्छति । सर्वानुमोदितानन्दो न किञ्चिद् अनुमोदते
न ददाति न चादत्ते न स्तौति न च निन्दति । नास्तम् एति न चोदेति न तुष्यति न शोचति
सर्वारम्भफलत्यागी सर्वोपाधिविवर्जितः । सर्वाशासम्परित्यागी जीवन्मुक्त इति स्मृतः
सर्वैषणाः परित्यज्य चेतसा भव मौनवान् । धारा निरवशेषेण यथा त्यक्त्वा पयोधरः
तथा न सुखयत्य् अङ्गसंलग्ना वरवर्णिनी । यथा सुखयति स्वान्तम् इन्दुशीता निराशता
न तथेन्दुस् सुखयति कण्ठलग्नो ऽपि राघव । नैराश्यं सुखयत्य् अन्तर् यथा सकलशीतलम्
पुष्पघूर्णन्नवलतो न तथा राजते मधुः । यथोदारमतिर् मौनी नैराश्यसममानसः
न हिमाद्रेर् न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् । न तच् चन्द्रमसश् शैत्यं नैराश्याद् यद् अवाप्यते
अपि राज्याद् अपि स्वर्गाद् अपीन्दोर् अपि माधवात् । अपि कान्तासमासङ्गान् नैराश्यं परमं सुखम्
तृणवन् नोपकुर्वन्ति यया त्रिभुवनश्रियः । सा परा निर्वृतिस् साधो नैराश्याद् उपलभ्यते
आशाकरञ्जपरशुं पराया निर्वृतेः पदम् । पुष्पगुच्छं शमतरोर् आलम्बस्व निराशताम्
गोष्पदं पृथिवी मेरुस् स्थाणुर् आशास् समुद्गिकाः । तृणं त्रिभुवनं राम नैराश्यालङ्कृताकृतेः