तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाः । सुवैराग्यविवेकाभ्यां केवलं क्षपयेन् मनः
मोक्षो मे ऽस्त्व् इति चिन्ता चेज् जाता तद् व्युत्थितं मनः । मननोत्के मनस्य् उच्चैर् वपुर् दोषाय केवलम्
आत्मन्य् अतीते सर्वस्मात् सर्वरूपे ऽथ वा तते । को बन्धः कश् च वा मोक्षो निर्मूलं मननं कुतः
वायुस् स्पन्दनधर्मत्वाद् यदा लगति देहके । तदा स्फुरति हस्ताङ्गरसनापल्लवावली
पादपे पल्लवश्रेणीं चालयत्य् अनिलो यथा । तथैवाङ्गावलीं वायुर् देहे सञ्चालयत्य् अलम्
चित् सर्वव्यापिनी सूक्ष्मा न चला न च चाल्यते । न स्वतस् स्पन्दम् आयाति देवाचल इवानिलैः
प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता । प्रकाशयति बोधेन जगन्तीमानि दीपवत्
तत्र को ऽयं मुधा मोहो भवताम् अतिदुःखदः । अयं सो ऽहं ममाङ्गानि ममेदं चेति दुर्धियाम्
अनिच्छलोलत्वान् नुन्नदृषदारावराशिवत् । ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते
तत्रायम् आत्मा सम्मन्ता भोक्ता कर्तेति जायते । मुधैवाज्ञानतापोत्था मृगतृष्णेव वासना
अज्ञातैषा मनोमत्तमृगं विषयतर्षुलम् । असत्यैव हि सत्येव मृगतृष्णेव कर्षति
विज्ञाता सत्यरूपेयं नाशं याति पलायते । विप्रमध्यात् परिज्ञाता यथा चण्डालकन्यका
अविद्या सम्परिज्ञाता न मनः परिकर्षति । मृगतृष्णा परिज्ञाता तर्षुलं नापकर्षति
परमार्थावबोधेन समूलं राम वासना । दीपेनेवान्धकारश्रीर् गलत्य् आलोक एति च
नास्त्य् अविद्येति सञ्जाते निश्चये शास्त्रयुक्तितः । गलत्य् अविद्या तापेन तुषारकणिका यथा
देहस्यास्य जडस्यार्थे किं भोगैर् इति निश्चयी । भिनत्त्य् आशामयं ज्ञानी पञ्जरं केसरी यथा
आशापरिकरे राम नूनं परिहृते हृदः । पुमान् आगतसौन्दर्यो ह्लादम् आयाति चन्द्रवत्
परां शीतलताम् एति वृष्टिधौत इवाचलः । निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधनः
शोभते ऽमलया लक्ष्म्या शरदीव नभस्तलम् । आत्मन्य् एव न मात्य् उच्चैः कल्पस्यान्त इवार्णवः
भवत्य् अपेतसंरम्भो वृष्टमूक इवाम्बुदः । तिष्ठत्य् आत्मनि संवेत्ता प्रशान्त इव वारिधिः
परं धैर्यम् उपादत्ते स्थैर्यं मेरुर् इवाचलः । राजते स्वस्थया लक्ष्म्या शान्तेन्धन इवानलः
भवत्य् आत्मनि निर्वाणः प्रशान्त इव दीपकः । दृष्टिम् आयाति परमां नरः पीतामृतो यथा
अन्तर्दीपो घट इव मध्यज्वाल इवानलः । स्फुरद्दीप्तिर् मणिर् इव प्रयात्य् अन्तः प्रकाशताम्
सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् । सर्वाकारं निराकारं स्वम् आत्मानं प्रपश्यति
हसत्य् अलम् अतीतास् ताः पेलवा दिवसावलीः । यासु स्मरशरश्रेणीचपलं चित्तम् अच्छिनत्
सङ्गरङ्गविनिष्क्रान्तश् शान्तमानमनोज्वरः । अध्यात्मरतिर् आसीनः पूर्णपावनमानसः
निर्मृष्टकामपङ्काङ्कश् छिन्नजन्मनिबन्धनः । द्वन्द्वदोषभयोन्मुक्तस् तीर्णसंसारसागरः
प्राप्तानुत्तमविश्रान्तिर् लब्धालभ्यपदास्पदः । अनिवर्तिपदं प्राप्तः कर्मणाम् अन्तम् आगतः
सर्वाभिवाञ्छितारम्भो न किञ्चिद् अपि वाञ्छति । सर्वानुमोदितानन्दो न किञ्चिद् अनुमोदते
न ददाति न चादत्ते न स्तौति न च निन्दति । नास्तम् एति न चोदेति न तुष्यति न शोचति