चिरं प्रबोधम् आसाद्य चित्ते ऽवितततां गते । दश मोक्षा न वाञ्छ्यन्ते किम् उतैको हि मोक्षकः
अयं मोक्षस् त्व् अयं बन्धः पेलवां कलनाम् इमाम् । परित्यज्य महात्यागी त्वं त्वम् एव भवाभवः
परिगलितविकल्पतां प्रयातस् सगरसुतौघनिखातमेखलाङ्कम् । अवनिवलयम् अन्तरस्तसङ्गश् चिरम् अनुपालय सर्वदोदितश्रीः
लीलयापश्यति वपुः कलनात्मनि जायते । रम्यस्यापश्यतो वक्त्रं हृदि दौरूप्यधीर् इव
तद्वशाद् इयम् आयाता महती मेदुरोदरा । माया मदमहाशक्तिस् सुरास्वादलवाद् इव
तयानया विकारिण्या तदतद्भावभूतया । इदं सम्पन्नम् अखिलं तापाद् इव मरौ पयः
मनो बुद्धिर् अहङ्कारो वासनाश् चेन्द्रियाण्य् अपि । एवङ्कल्पितनामाङ्कस् स्फुरत्य् आत्माब्धिर् अम्बुभिः
चित्ताहङ्कारयोर् द्वित्वं वचस्य् अस्ति न वस्तुतः । यच् चित्तं स ह्य् अहङ्कारो यो ऽहङ्कारो मनो हि तत्
व्यतिरिक्तं हिमाच् छौक्ल्यम् इति सङ्कल्प्यते यथा । मुधैव कल्प्यते भेदश् चित्ताहङ्कारयोस् तथा
मनोऽहङ्कारयोर् अन्तर् द्वयोर् एकतरक्षये । क्षीणे द्वे एव हि यथा पटशौक्ल्ये पटक्षये
तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाः । सुवैराग्यविवेकाभ्यां केवलं क्षपयेन् मनः
मोक्षो मे ऽस्त्व् इति चिन्ता चेज् जाता तद् व्युत्थितं मनः । मननोत्के मनस्य् उच्चैर् वपुर् दोषाय केवलम्
आत्मन्य् अतीते सर्वस्मात् सर्वरूपे ऽथ वा तते । को बन्धः कश् च वा मोक्षो निर्मूलं मननं कुतः
वायुस् स्पन्दनधर्मत्वाद् यदा लगति देहके । तदा स्फुरति हस्ताङ्गरसनापल्लवावली
पादपे पल्लवश्रेणीं चालयत्य् अनिलो यथा । तथैवाङ्गावलीं वायुर् देहे सञ्चालयत्य् अलम्
चित् सर्वव्यापिनी सूक्ष्मा न चला न च चाल्यते । न स्वतस् स्पन्दम् आयाति देवाचल इवानिलैः
प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता । प्रकाशयति बोधेन जगन्तीमानि दीपवत्
तत्र को ऽयं मुधा मोहो भवताम् अतिदुःखदः । अयं सो ऽहं ममाङ्गानि ममेदं चेति दुर्धियाम्
अनिच्छलोलत्वान् नुन्नदृषदारावराशिवत् । ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते
तत्रायम् आत्मा सम्मन्ता भोक्ता कर्तेति जायते । मुधैवाज्ञानतापोत्था मृगतृष्णेव वासना
अज्ञातैषा मनोमत्तमृगं विषयतर्षुलम् । असत्यैव हि सत्येव मृगतृष्णेव कर्षति
विज्ञाता सत्यरूपेयं नाशं याति पलायते । विप्रमध्यात् परिज्ञाता यथा चण्डालकन्यका
अविद्या सम्परिज्ञाता न मनः परिकर्षति । मृगतृष्णा परिज्ञाता तर्षुलं नापकर्षति
परमार्थावबोधेन समूलं राम वासना । दीपेनेवान्धकारश्रीर् गलत्य् आलोक एति च
नास्त्य् अविद्येति सञ्जाते निश्चये शास्त्रयुक्तितः । गलत्य् अविद्या तापेन तुषारकणिका यथा
देहस्यास्य जडस्यार्थे किं भोगैर् इति निश्चयी । भिनत्त्य् आशामयं ज्ञानी पञ्जरं केसरी यथा
आशापरिकरे राम नूनं परिहृते हृदः । पुमान् आगतसौन्दर्यो ह्लादम् आयाति चन्द्रवत्
परां शीतलताम् एति वृष्टिधौत इवाचलः । निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधनः
शोभते ऽमलया लक्ष्म्या शरदीव नभस्तलम् । आत्मन्य् एव न मात्य् उच्चैः कल्पस्यान्त इवार्णवः
भवत्य् अपेतसंरम्भो वृष्टमूक इवाम्बुदः । तिष्ठत्य् आत्मनि संवेत्ता प्रशान्त इव वारिधिः