स एवेदं च वदति स च वक्तुं न युज्यते । न तदन्यद् इदं नैतत् पश्य मायाम् अनामयाम्
नात्मायम् अयम् अप्य् आत्मा सञ्ज्ञाभेद इति स्वयम् । तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः
संस्थितस् स हि सर्वत्र त्रिषु कालेषु भासुरः । सूक्ष्मत्वात् सुमहत्त्वाच् च केवलं न विभाव्यते
सत्स्व् अनन्तपदार्थेषु जीवत्वेनाभिबिम्बति । आत्मा पुर्यष्टकादर्शे स्वभाववशतस् स्वतः
पुर्यष्टकोदयाद् एव स्वयम् आत्मानुभूयते । सर्वदा सर्वसंस्थः खे घनस्पन्दाद् इवानिलः
चिदात्मा सर्वगो व्यापी न क्वचिन् नाम न स्थितः । यद्वत् सर्वपदार्थानां सत्ता तद्वन् महेश्वरः
सति पुर्यष्टके तस्मिञ् जीवस् स्फुरति नोपलः । सति वायाव् इव रजस् सति दीप इवेक्षणम्
इयं पुर्यष्टकस्येच्छा स्वात्मन्य् एवात्मनि स्थिते । सति स्फुरत्य् अभ्युदिते भानाव् इव जनैषणा
यदि सूर्ये स्थिते व्योम्नि तद्वशोदितसंस्थितिः । नश्यति व्यवहारो ऽयं भास्वतः किम् उपागतम्
यद्य् आत्मनि स्थिते देवे तत्सत्तालब्धसंस्थितिः । देहो नाशम् उपायाति तत् किम् उन्नष्टम् आत्मनः
न जायते न म्रियते नाभिवाञ्छति नोज्झति । न मुक्तो न च बद्धो ऽयम् आत्मा सर्वस्य सर्वदा
आत्मावबोधाभ्युदिता निरात्मन्य् आत्मतां गता । सर्परज्जुभ्रमाकारा भ्रान्तिर् दुःखाय केवलम्
अनादित्वान् न जातो ऽयम् अजातत्वान् न नश्यति । आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्य् असम्भवात्
दिक्कालाद्यनवच्छेदान् न बद्धो ऽयं कदाचन । बन्धाभावे ऽप्य् अमुक्तिस् स्याद् अमोक्षस् तेन स स्मृतः
एवङ्गुणविशिष्टो ऽयम् आत्मा सर्वस्य राघव । अविचारवशान् मूढो लोको ऽयं परिरोदिति
सम्यगालोकिताशेषपूर्वापरजगत्क्रमः । मा शोकं गच्छ सुमते मौर्ख्योपहतलोकवत्
द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके सदा । विदुषा व्यवहर्तव्यं यन्त्रेणेवात्ममौनिना
न मोक्षो नभसः पृष्ठे न पाताले न भूतले । मोक्षो हि चेतो विमलं सम्यग्ज्ञानावबोधितम्
सकलाशास्व् असंसक्त्या यस् स्वयं चेतसः क्षयः । स मोक्षनाम्ना कथितस् तत्त्वज्ञैर् आत्मदर्शिभिः
यावत् प्रबोधो विमलो नोदितस् तावद् एव सः । मौर्ख्यदीनतया राम भक्त्या मोक्षो ऽभिवाञ्छ्यते
चिरं प्रबोधम् आसाद्य चित्ते ऽवितततां गते । दश मोक्षा न वाञ्छ्यन्ते किम् उतैको हि मोक्षकः
अयं मोक्षस् त्व् अयं बन्धः पेलवां कलनाम् इमाम् । परित्यज्य महात्यागी त्वं त्वम् एव भवाभवः
परिगलितविकल्पतां प्रयातस् सगरसुतौघनिखातमेखलाङ्कम् । अवनिवलयम् अन्तरस्तसङ्गश् चिरम् अनुपालय सर्वदोदितश्रीः
लीलयापश्यति वपुः कलनात्मनि जायते । रम्यस्यापश्यतो वक्त्रं हृदि दौरूप्यधीर् इव
तद्वशाद् इयम् आयाता महती मेदुरोदरा । माया मदमहाशक्तिस् सुरास्वादलवाद् इव
तयानया विकारिण्या तदतद्भावभूतया । इदं सम्पन्नम् अखिलं तापाद् इव मरौ पयः
मनो बुद्धिर् अहङ्कारो वासनाश् चेन्द्रियाण्य् अपि । एवङ्कल्पितनामाङ्कस् स्फुरत्य् आत्माब्धिर् अम्बुभिः
चित्ताहङ्कारयोर् द्वित्वं वचस्य् अस्ति न वस्तुतः । यच् चित्तं स ह्य् अहङ्कारो यो ऽहङ्कारो मनो हि तत्
व्यतिरिक्तं हिमाच् छौक्ल्यम् इति सङ्कल्प्यते यथा । मुधैव कल्प्यते भेदश् चित्ताहङ्कारयोस् तथा
मनोऽहङ्कारयोर् अन्तर् द्वयोर् एकतरक्षये । क्षीणे द्वे एव हि यथा पटशौक्ल्ये पटक्षये