काठिन्यद्रवणस्पन्दस्वावकाशावलोकने । आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु
सत्तैवास्ति न वस्तूनां यया नाम विना चिता । व्यतिरिक्तं ततो ऽस्तीति विद्धि प्रोन्मत्तजल्पितम्
एको जगन्ति सकलानि समस्तकालकल्पक्रमान्तरगतानि गतागतानि । आत्मैव नेतरकलाकलनास्ति काचिद् इत्थम्मतिर् भव भवातिगतो महात्मन्
एवंविचारया दृष्ट्या द्वैतत्यागेन राघव । स्वो भावः प्राप्यते तज्ज्ञैस् तज्ज्ञैश् चिन्तामणिर् यथा
अथेमाम् अपरां दृष्टिं शृणु रामानया यथा । द्रक्ष्यस्य् आत्मानम् अचलं भविष्यसि च दिव्यदृक्
अहं खम् अहम् आदित्यो दिशो ऽहम् अहम् अप्य् अधः । अहं दैत्या अहं देवाश् शैलाश् चाहम् अहं महः
तमो ऽहम् अहम् अभ्राणि भूसमुद्रादिकं त्व् अहम् । रजो वायुर् अथाग्निश् च जगत् सर्वम् इदं त्व् अहम्
जगत्त्रये ऽहं सर्वत्र स आत्मैव किल स्थितः । को ऽहं किम् अन्यद् इह हि द्वित्वम् एकस्य कीदृशम्
इति निश्चयवान् अन्तर् नूनम् आत्मतया जगत् । पश्यन् हर्षविषादाभ्यां नावशः परिभूयते
मन्मये ऽस्मिन् किल जगत्य् अखिले संस्थिते ऽनघ । किम् आत्मीयं परं किं स्यात् कमलेक्षण कथ्यताम्
किं तज्ज्ञव्यतिरेकेण विद्यते यद् उपागमे । हर्षम् एतु विषादं वा विनाशे ज्ञो जगन्मयः
अहङ्कारदृशाव् एते सात्त्विके द्वे विनिर्मले । तत्त्वज्ञानात् प्रवर्तेते मोक्षदे पारमार्थिके
परो ऽणुस् सकलातीतरूपो ऽहं त्व् इत्य् अहङ्कृतिः । प्रथमा सर्वम् एवाहम् इत्य् अन्योक्ता रघूद्वह
अहङ्कारदृग् अन्या तु तृतीया विद्यते ऽनघ । देहो ऽहम् इति तां विद्धि दुःखायैव न शान्तये
अथ वैतत् त्रयम् अपि त्यक्त्वा सकलसिद्धये । यथेच्छं तद् उपालम्ब्य तिष्ठावष्टब्धतत्पदः
सर्वातीतस्वरूपो ऽपि सर्वसत्तातिगो ऽपि च । स्वसत्तापूरितजगद् अस्त्य् एवात्मा प्रकाशकः
स्वानुभूत्यैव पश्याशु स एवासि सदोदितः । संशयं हृदयग्रन्थिं त्यज तत्त्वविदां वर
नात्मास्त्य् अनुमया राम न चाप्तवचनादिना । सर्वदा सर्वथा सर्वं स प्रत्यक्षानुभूतितः
यद् इदं दर्शनं स्पन्दः किञ्चिद् यत् संविदाद्य् अपि । तत् सर्वम् आत्मा भगवान् दृश्यदर्शनवर्जितः
न सन् नासद् असौ देवो नाणुर् नापि महान् असौ । नाप्य् एतयोर् दृशोर् मध्यं स एवेदं च सर्वशः
स एवेदं च वदति स च वक्तुं न युज्यते । न तदन्यद् इदं नैतत् पश्य मायाम् अनामयाम्
नात्मायम् अयम् अप्य् आत्मा सञ्ज्ञाभेद इति स्वयम् । तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः
संस्थितस् स हि सर्वत्र त्रिषु कालेषु भासुरः । सूक्ष्मत्वात् सुमहत्त्वाच् च केवलं न विभाव्यते
सत्स्व् अनन्तपदार्थेषु जीवत्वेनाभिबिम्बति । आत्मा पुर्यष्टकादर्शे स्वभाववशतस् स्वतः
पुर्यष्टकोदयाद् एव स्वयम् आत्मानुभूयते । सर्वदा सर्वसंस्थः खे घनस्पन्दाद् इवानिलः
चिदात्मा सर्वगो व्यापी न क्वचिन् नाम न स्थितः । यद्वत् सर्वपदार्थानां सत्ता तद्वन् महेश्वरः
सति पुर्यष्टके तस्मिञ् जीवस् स्फुरति नोपलः । सति वायाव् इव रजस् सति दीप इवेक्षणम्
इयं पुर्यष्टकस्येच्छा स्वात्मन्य् एवात्मनि स्थिते । सति स्फुरत्य् अभ्युदिते भानाव् इव जनैषणा
यदि सूर्ये स्थिते व्योम्नि तद्वशोदितसंस्थितिः । नश्यति व्यवहारो ऽयं भास्वतः किम् उपागतम्
यद्य् आत्मनि स्थिते देवे तत्सत्तालब्धसंस्थितिः । देहो नाशम् उपायाति तत् किम् उन्नष्टम् आत्मनः