दृश्यदर्शनसम्बन्धसुखम् आत्मवपुर् विदुः । तद् दृश्यावलितं बद्धं तन्मुक्तं मुक्तम् उच्यते
दृश्यदर्शनसम्बन्धसुखसंविद् अनामया । क्षयातिशयमुक्ता चेत् तन् मुक्तिस् सोच्यते बुधैः
दृश्यदर्शनसम्बन्धे यानुभूतिस् स्वगोचरा । दृश्यदर्शननिर्मुक्ता ताम् आलम्ब्य भवाभवः
सौषुप्ती दृष्टिर् एषा हि यात्य् एवं सम्प्रकाशताम् । एवं च याति तुर्यत्वम् एवं मुक्तिर् इति स्मृता
दृश्यदर्शनमुक्तायां युक्तायां परया धिया । दृश्यदर्शनसम्बन्धसंविद्य् अस्यां तु राघव
नात्मा स्थूलो न चैवाणुर् न प्रत्यक्षो न चेतनः । नाचेतनो न च जडो न चैवासन् न सन्मयः
नाहं नान्यो न चैवैको नानेको नाप्य् अनेकवान् । नाभ्याशस्थो न दूरस्थो नैवास्ति न च नास्ति च
नाप्राप्यो नापि च प्राप्यो न चासर्वो न सर्वगः । न पदार्थो नापदार्थो नापञ्चात्मा न पञ्च च
यद् इदं दृश्यतां प्राप्तं मनष्षष्ठेन्द्रियास्पदम् । तदतीतं पदं यत् स्यात् तन् न किञ्चिद् इवेहितम्
यथाभूतम् इदं सम्यग् ज्ञस्य सम्पश्यतो जगत् । सर्वम् आत्ममयं विद्वन् नास्त्य् अनात्ममयं क्वचित्
काठिन्यद्रवणस्पन्दस्वावकाशावलोकने । आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु
सत्तैवास्ति न वस्तूनां यया नाम विना चिता । व्यतिरिक्तं ततो ऽस्तीति विद्धि प्रोन्मत्तजल्पितम्
एको जगन्ति सकलानि समस्तकालकल्पक्रमान्तरगतानि गतागतानि । आत्मैव नेतरकलाकलनास्ति काचिद् इत्थम्मतिर् भव भवातिगतो महात्मन्
एवंविचारया दृष्ट्या द्वैतत्यागेन राघव । स्वो भावः प्राप्यते तज्ज्ञैस् तज्ज्ञैश् चिन्तामणिर् यथा
अथेमाम् अपरां दृष्टिं शृणु रामानया यथा । द्रक्ष्यस्य् आत्मानम् अचलं भविष्यसि च दिव्यदृक्
अहं खम् अहम् आदित्यो दिशो ऽहम् अहम् अप्य् अधः । अहं दैत्या अहं देवाश् शैलाश् चाहम् अहं महः
तमो ऽहम् अहम् अभ्राणि भूसमुद्रादिकं त्व् अहम् । रजो वायुर् अथाग्निश् च जगत् सर्वम् इदं त्व् अहम्
जगत्त्रये ऽहं सर्वत्र स आत्मैव किल स्थितः । को ऽहं किम् अन्यद् इह हि द्वित्वम् एकस्य कीदृशम्
इति निश्चयवान् अन्तर् नूनम् आत्मतया जगत् । पश्यन् हर्षविषादाभ्यां नावशः परिभूयते
मन्मये ऽस्मिन् किल जगत्य् अखिले संस्थिते ऽनघ । किम् आत्मीयं परं किं स्यात् कमलेक्षण कथ्यताम्
किं तज्ज्ञव्यतिरेकेण विद्यते यद् उपागमे । हर्षम् एतु विषादं वा विनाशे ज्ञो जगन्मयः
अहङ्कारदृशाव् एते सात्त्विके द्वे विनिर्मले । तत्त्वज्ञानात् प्रवर्तेते मोक्षदे पारमार्थिके
परो ऽणुस् सकलातीतरूपो ऽहं त्व् इत्य् अहङ्कृतिः । प्रथमा सर्वम् एवाहम् इत्य् अन्योक्ता रघूद्वह
अहङ्कारदृग् अन्या तु तृतीया विद्यते ऽनघ । देहो ऽहम् इति तां विद्धि दुःखायैव न शान्तये
अथ वैतत् त्रयम् अपि त्यक्त्वा सकलसिद्धये । यथेच्छं तद् उपालम्ब्य तिष्ठावष्टब्धतत्पदः
सर्वातीतस्वरूपो ऽपि सर्वसत्तातिगो ऽपि च । स्वसत्तापूरितजगद् अस्त्य् एवात्मा प्रकाशकः
स्वानुभूत्यैव पश्याशु स एवासि सदोदितः । संशयं हृदयग्रन्थिं त्यज तत्त्वविदां वर
नात्मास्त्य् अनुमया राम न चाप्तवचनादिना । सर्वदा सर्वथा सर्वं स प्रत्यक्षानुभूतितः
यद् इदं दर्शनं स्पन्दः किञ्चिद् यत् संविदाद्य् अपि । तत् सर्वम् आत्मा भगवान् दृश्यदर्शनवर्जितः
न सन् नासद् असौ देवो नाणुर् नापि महान् असौ । नाप्य् एतयोर् दृशोर् मध्यं स एवेदं च सर्वशः