गतेतरेतरापेक्षस् सरःपङ्कोपलाम्भसाम् । यथा राघव सम्बन्धस् तथा देहेन्द्रियात्मनाम्
यादृशो ऽब्धिधराद्यानां निरिच्छापरिदेवनः । संयोगो विप्रयोगश् च तादृशो देहदेहिनाम्
यथा कल्पितवेतालविकारभयभीतयः । मिथ्यैव कल्पिता एते तथा स्नेहसुखादयः
भूतपञ्चकसम्पिण्डाद् रचिता जनताः पृथक् । एकस्माद् एव विटपाद् विचित्रा इव पुत्रिकाः
काष्ठेतरत् काष्ठनरे किञ्चिद् अन्यन् न विद्यते । भूतपिण्डेतरद् देहे किञ्चिद् अन्यन् न विद्यते
भूतपञ्चकविक्षोभनाशोत्पादेषु हे जनाः । हर्षामर्षविषादानां किं भवन्तो वशं गताः
को नामातिशयः पुंसां स्त्रीनाम्न्य् अपरनाम्नि वा । केवले भूतसङ्घाते प्रोद्भूते ऽर्जुनवातवत्
सन्निवेशांशवैचित्र्यम् अज्ञानाम् एव तुष्टये । तज्ज्ञानां तु यथाभूतभूतपञ्चकदर्शनम्
मिथश् शिलापुत्रिकयोर् यथैकोपलसंस्थयोः । श्लिष्टयोर् अपि नो रागस् तथा चित्तशरीरयोः
मृत्पुंसां यादृशो ऽन्योऽन्यम् आशयस् सङ्गमे भवेत् । बुद्धीन्द्रियात्ममनसाम् सङ्गमे तादृशो ऽस्तु ते
नान्योऽन्यस्नेहसम्बन्धभाजनं शैलपुत्रिकाः । देहेन्द्रियात्मप्राणाश् च कस्यात्र परिदेवना
इतश् चेतश् च यातानि यथा संश्लेषयत्य् अलम् । तरङ्गस् तृणजालानि तथा भूतानि भूतकृत्
संयुज्यन्ते वियुज्यन्ते तृणान्य् अब्धिजले यथा । मुक्तान्तःकलनं देहभूतान्य् आत्मनि वै तथा
आत्मा चित्ततया देहभूतान्य् आश्लेषयन् स्थितः । तृणान्य् आवर्तवृत्त्यान्तःकलनोन्मुक्तम् अम्ब्व् इव
प्रबोधाच् चित्ततां त्यक्त्वा व्रजत्य् आत्मात्मतां स्वयम् । स्वस्पन्दवशतो वारि त्यक्त्वावर्तम् इवाच्छताम्
ततो विविक्तं भूतौघं देहसञ्ज्ञं प्रपश्यति । वातस्कन्धगतो जन्तुर् वसुधामण्डलं यथा
पृथग्भूतगणं त्यक्त्वा देहातीतो भवत्य् अजः । परं प्रकाशम् आयाति सूर्यकान्त इवाहनि
जानात्य् अथात्मनात्मानं मानमेयामयोज्झितम् । मुक्तः क्षीवतयेवान्तस् स्वां संविदम् अनुस्मरन्
आत्मैकस् स्पन्दते चित्खे वस्तुजालैर् इवोदितः । तरङ्गकणकल्लोलैर् अनन्ताम्ब्व् अम्बुधाव् इव
एवम्प्रायमहाबोधा वीतरागा गतैनसः । जीवन्मुक्ताश् चरन्तीह महासत्त्वपदं गताः
यथा कचन्ति विविधैर् मणिरत्नैर् महोर्मयः । निरस्तवासनं चित्रैर् व्यवहारैर् नरोत्तमाः
न कूलकाषैर् जलधिर् न रजोभिर् नभस्तलम् । न म्लायति निजैर् लोकव्यवहारैर् इहात्मवान्
गतैर् अभ्यागतैस् स्वच्छैर् मलिनैश् चपलैर् जडैः । न रागो नाम्बुधेर् द्वेषो भोगैश् चाधिगतात्मनः
यन् मनोमननं किञ्चित् समग्रे जगति स्थितम् । तच् चेत्योन्मुखचित्तत्त्वविलासोल्लसनं विदुः
यद् अहं यच् च भूतादि कालत्रितयभावि यत् । दृश्यदर्शनसम्बन्धविस्तारस् तद् विजृम्भते
यद् दृश्यं तद् असत् सद् वा दृष्टिम् एकाम् उपाश्रितम् । अन्यत् त्व् अलेपकं तस्माद् धर्षशोकदशे कुतः
असत्यम् एवासत्यं हि सत्यं सत्यं सदैव हि । सत्यासत्यम् असद् विद्धि तदर्थं किं विमुह्यसि
असम्यग्दर्शनं त्यक्त्वा सम्यक् पश्य सुलोचन । न क्वचिन् मुह्यति प्रौढस् सम्यग्दर्शनवान् इह
दृश्यदर्शनसम्बन्धे यत् सुखं पारमार्थिकम् । अनुभूतिमयं तस्मात् परं ब्रह्मेति कथ्यते
दृश्यदर्शनसम्बन्धसुखसंविद् अनुत्तमा । ददात्य् अज्ञाय संसारं ज्ञाय मोक्षं सुखोदया