एतास् सञ्ज्ञाः प्रभो बह्व्यश् चेतसो रूढिम् आगताः । कथम् इत्य् एव कथय मयि मानद सिद्धये
सर्वे भावा इमे नित्यम् आत्मतत्त्वैकरूपिणः । चित्रास् तरङ्गककणा जलैककलिता यथा
आत्मा स्पन्दैकरूपात्मा स्थितस् तेषु क्वचित् क्वचित् । तरङ्गेषु विलोलेषु पयो व्योमामलं यथा
क्वचिद् अस्पन्दरूपात्मा स्थितस् तेषु महेश्वरः । तरङ्गत्वम् अयातेषु जलभावो जलेष्व् इव
तत्रोपलादयो भावा अलोला आत्मनि स्थिताः । सुराफेनवद् उत्स्पन्दा लोलास् तु पुरुषादयः
तत्र तेषु शरीरेषु सर्वशक्तितयात्मना । कलिताज्ञानकलना तेनाज्ञानम् असौ श्रितः
तद् अज्ञानम् अनन्तात्मरूषितं जीव उच्यते । स संसारी महामोहमायापञ्जरकुञ्जरः
जीवनाज् जीव इत्य् उक्तो ऽहम्भावश् चाप्य् अहन्तया । बुद्धिर् निश्चायकत्वेन सङ्कल्पकलनान् मनः
प्रकृतिः प्रकृतत्वेन देहो दिग्धतया स्थितः । जडः प्रकृतिभावेन चेतनस् स्वात्मसत्तया
जडाजडदृशोर् मध्ये यत् तत्त्वं पारमात्मिकम् । तद् एतद् एव नानात्वं नानासञ्ज्ञाभिर् आगतम्
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु । बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ
अन्यैस् त्व् एतासु सञ्ज्ञासु कुविकल्पकुतार्किकैः । मोहाय केवलं मूढैर् व्यर्थम् अर्थाः प्रकल्पिताः
एवम् एष महाबाहो जीवस् संसारकारणम् । मूकेनातिवराकेण देहकेनेह किं कृतम्
आधाराधेययोर् एकनाशेनान्यस्य नष्टता । यथा तथा शरीरादिनाशे नात्मनि नष्टता
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् । याति पर्णरसश् चार्करश्मिजालान्तरं यथा
शरीरसङ्क्षये देही न क्षयं याति कस्यचित् । निर्वासनश् चेत् तद् व्योम्नि तिष्ठत्य् आत्मपदे तथा
देहनाशे विनष्टो ऽस्मीत्य् एवं यस्यामतेर् भ्रमः । मातुस् स्तनतटात् तस्य मन्ये वेताल उत्थितः
यस्य ह्य् आत्यन्तिको नाशस् स्याद् असाव् उदितस् स्मृतः । चित्तनाशो हि नाशस् स्यात् स मोक्ष इति कथ्यते
मृतो नष्ट इति प्रोक्तम् अन्यैस् तच् च मृषा न सत् । स देशकालान्तरितो भूत्वा भूयो ऽनुभूयते
इहोह्यते जनैर् ओघतरङ्गान्तस् तृणैर् इव । मरणव्यपदेशात् तु देशकालतिरोहितैः
वासनावलितो जीवो यात्य् उत्सृज्य शरीरकम् । कपिर् वनतरुं त्यक्त्वा तर्वन्तरम् इवास्थितः
पुनस् तद् अपि सन्त्यज्य प्रयात्य् अन्यद् अपि क्षणात् । अन्यस्मिन् वितते देशे काले ऽन्यस्मिंश् च राघव
इतश् चेतश् च नीयन्ते जीवा वासनया स्वया । चिरं तदुपजीविन्या धूर्तधात्र्येव बालकाः
वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु । जरयन्त्य् अतिदुःखेन जीवितं जीवजीवकाः
जरढजगदुपोढदुःखभाराः परिणतजर्जरजीविताश् श्वसन्त्यः । हृदयजनितवासनानुवृत्त्या नरकभरे जनताश् चिरं पतन्ति
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
देहे जाते न जातो ऽसि देहे नष्टे न नश्यसि । त्वम् आत्मा निष्कलङ्कात्मा देहस् तव न कश्चन
यः कुण्डबदरन्यायो या घटाकाशसंस्थितिः । तत्रैकस्मिन् क्षते क्षीणे द्वे इति व्यर्थकल्पना
विनाशिनि विनष्टे ऽस्मिन् देहे स्वां स्थितिम् आगते । विनश्यामीति यः खेदी तं धिग् अस्त्व् अन्धचेतनम्
यादृशो रश्मिरथयोस् स्नेहोद्वेगविवर्जितः । सम्बन्धस् तादृशो देहचित्तेन्द्रियसुखैश् चितः