शरीरालयम् उत्सृज्य यत्र चित्तविहङ्गमः । स्ववासनावशाद् याति तत्रैवात्मानुभूयते
यत्र पुष्पं तत्र गन्धसंविदस् संस्थिता यथा । यत्र चित्तं हि तत्रात्मसंविदस् संस्थितास् तथा
सर्वत्र स्थितम् आकाशम् आदर्शे प्रतिबिम्बते । यथा तथात्मा सर्वत्र स्थितश् चेतसि दृश्यते
अपाम् अवनतं स्थानम् आस्पदं भूतले यथा । अन्तःकरणम् एवात्मसंविदाम् आस्पदं तथा
सत्यासत्यं जगद्रूपम् अन्तःकरणबिम्बिता । आत्मसंवित् तनोतीदम् आलोकम् इव सूर्यभाः
अन्तःकरणम् एवातः कारणं भूतसंसृतौ । आत्मा सर्वातिगत्वात् तु कारणं सद् अकारणम्
अविचारणम् अज्ञानं मौर्ख्यम् आहुर् महाधियः । संसारसंसृतौ सारम् अन्तःकरणकारणम्
असम्यक्प्रेक्षणान् मोहाच् चेतस् सत्तां गृहीतवत् । सम्मोहबीजकणिकां तमो ऽर्कद्रवणाद् इव
यथाभूतात्मतत्त्वैकपरिज्ञानेन राघव । असत्ताम् एत्य् अलं चेतो दीपेनेव तमः क्षणात्
संसारकारणम् अतस् स्वयं चेतो ऽविचारणात् । जीवो ऽन्तःकरणं चित्तं मनश् चेत्यादिनामकम्
एतास् सञ्ज्ञाः प्रभो बह्व्यश् चेतसो रूढिम् आगताः । कथम् इत्य् एव कथय मयि मानद सिद्धये
सर्वे भावा इमे नित्यम् आत्मतत्त्वैकरूपिणः । चित्रास् तरङ्गककणा जलैककलिता यथा
आत्मा स्पन्दैकरूपात्मा स्थितस् तेषु क्वचित् क्वचित् । तरङ्गेषु विलोलेषु पयो व्योमामलं यथा
क्वचिद् अस्पन्दरूपात्मा स्थितस् तेषु महेश्वरः । तरङ्गत्वम् अयातेषु जलभावो जलेष्व् इव
तत्रोपलादयो भावा अलोला आत्मनि स्थिताः । सुराफेनवद् उत्स्पन्दा लोलास् तु पुरुषादयः
तत्र तेषु शरीरेषु सर्वशक्तितयात्मना । कलिताज्ञानकलना तेनाज्ञानम् असौ श्रितः
तद् अज्ञानम् अनन्तात्मरूषितं जीव उच्यते । स संसारी महामोहमायापञ्जरकुञ्जरः
जीवनाज् जीव इत्य् उक्तो ऽहम्भावश् चाप्य् अहन्तया । बुद्धिर् निश्चायकत्वेन सङ्कल्पकलनान् मनः
प्रकृतिः प्रकृतत्वेन देहो दिग्धतया स्थितः । जडः प्रकृतिभावेन चेतनस् स्वात्मसत्तया
जडाजडदृशोर् मध्ये यत् तत्त्वं पारमात्मिकम् । तद् एतद् एव नानात्वं नानासञ्ज्ञाभिर् आगतम्
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु । बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ
अन्यैस् त्व् एतासु सञ्ज्ञासु कुविकल्पकुतार्किकैः । मोहाय केवलं मूढैर् व्यर्थम् अर्थाः प्रकल्पिताः
एवम् एष महाबाहो जीवस् संसारकारणम् । मूकेनातिवराकेण देहकेनेह किं कृतम्
आधाराधेययोर् एकनाशेनान्यस्य नष्टता । यथा तथा शरीरादिनाशे नात्मनि नष्टता
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् । याति पर्णरसश् चार्करश्मिजालान्तरं यथा
शरीरसङ्क्षये देही न क्षयं याति कस्यचित् । निर्वासनश् चेत् तद् व्योम्नि तिष्ठत्य् आत्मपदे तथा
देहनाशे विनष्टो ऽस्मीत्य् एवं यस्यामतेर् भ्रमः । मातुस् स्तनतटात् तस्य मन्ये वेताल उत्थितः
यस्य ह्य् आत्यन्तिको नाशस् स्याद् असाव् उदितस् स्मृतः । चित्तनाशो हि नाशस् स्यात् स मोक्ष इति कथ्यते
मृतो नष्ट इति प्रोक्तम् अन्यैस् तच् च मृषा न सत् । स देशकालान्तरितो भूत्वा भूयो ऽनुभूयते
इहोह्यते जनैर् ओघतरङ्गान्तस् तृणैर् इव । मरणव्यपदेशात् तु देशकालतिरोहितैः