शरीरसन्निवेशस्य क्षये स्थैर्ये च संविदम् । मा गृहाण भ्रमो ह्य् एष शरीरम् इति जृम्भते
देहनाशेन को ऽर्थस् ते को ऽर्थस् ते देहसंस्थया । भव त्वं प्रकृतारम्भस् तिष्ठत्व् एष यथास्थितम्
ज्ञातवान् असि तत् सत्यं बुद्धवान् असि तत् पदम् । प्राप्तवान् असि रूपं स्वं विशोको भव भूतये
ईप्सितानीप्सितत्यक्तश् शीतलालोकशोभया । अन्धकारातपाम्भोदमुक्तं खम् इव शोभसे
मनस् तवात्मा सम्पन्नं नाधस् समनुधावति । योगमन्त्रतपस्सिद्धः पुरुषः खाद् इवावनिम्
इह शुद्धा चिद् एवास्ति पारावारविवर्जिता । अयं सो ऽहम् इदं तन् मे इति ते मास्तु विभ्रमः
आत्मेति व्यवहारार्थम् अभिधा कल्पिता विभोः । नामरूपादिभेदास् तु दूरम् अस्माद् अलं गताः
जलम् एव यथाम्भोधिर् न तरङ्गादिकं पृथक् । आत्मैवेदं तथा सर्वं न भूतौघादिकं पृथक्
यथा समस्ताज् जलधेर् जलाद् अन्यन् न लभ्यते । तथैव जगतस् स्फाराद् आत्मनो ऽन्यन् न लभ्यते
अयं सो ऽहम् इति प्राज्ञ क्व करोषि व्यवस्थितिम् । किं तत् त्वं किं च वा ते स्यात् किं न त्वं किं च वा न ते
न द्वित्वम् अस्ति नो देहस् सम्बन्धो न च तैश् चितः । सम्भवत्य् अकलङ्काया भानोर् इव तमःपटैः
द्वित्वम् अभ्युपगम्यापि कथयामि तवारिहन् । देहादिभिस् सद्भिर् अपि न सम्बन्धो विभोर् भवेत्
छायातपप्रसरयोः प्रकाशतमसोर् यथा । न सम्भवति सम्बन्धस् तथा वै देहदेहिनोः
यथा शीतोष्णयोर् नित्यं परस्परविरुद्धयोः । न सम्भवति सम्बन्धो राम देहात्मनोस् तथा
अविनाभावितार्थस् तु सम्बन्धः कथम् एतयोः । जडचेतनयोर् देहदेहिनोर् अनुभूयते
चिन्मात्रेणात्मना देहस् सम्बद्ध इति या कथा । सैषा दुरवबोधोत्था दावाग्नौ जलधीर् यथा
सत्यावलोकनेनैषा मिथ्यादृष्टिर् विनश्यति । अवलोकनया सम्यग् आतपे जलधीर् यथा
चिदात्मा निर्मलो नित्यस् स्वावभासो निरामयः । देहस् त्व् अनित्यो मलवांस् तेन सम्बध्यते कथम्
स्पन्दम् आयाति वातेन भूतैर् आपीवरीकृतः । देहस् तेन न सम्बन्धो मनाग् एव महात्मनः
सिद्धे द्वित्वे ऽपि देहस्य न सम्बन्धस्य सम्भवः । द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः
इत्य् एतद् एव तत् सत्यम् अत्रैवाङ्ग स्थितिं कुरु । न बन्धो ऽस्ति न मोक्षो ऽस्ति कदाचित् कस्यचित् क्वचित्
सर्वम् आत्ममयं शान्तम् इत्य् एव प्रत्ययं स्फुटम् । सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय
सुखी दुःखी च मूढो ऽस्मीत्य् एता दुर्दृष्टयस् स्मृताः । आसु चेद् वस्तुबुद्धिस् ते तच् चिरं दुःखम् एष्यसि
यः क्रमश् शैलतृणयोः कौशेयोपलयोस् तथा । साम्यं प्रति स एवोक्तः परमात्मशरीरयोः
यथा शीतोष्णयोर् ऐक्यं कथास्व् अपि न दृश्यते । जडप्रकाशयोश् श्लेषो न तथात्मशरीरयोः
यथा तेजस्तिमिरयोर् न सम्बन्धो न तुल्यता । अत्यन्तभिन्नयो राम तथा ह्य् आत्मशरीरयोः
देहश् चलति वातेन तेनैवायाति गच्छति । शब्दं करोति तेनैव देहनाडीविलासिना
शब्दः कचटतप्रायस् स्फुरत्य् अन्तस् समीरणे । यथा प्रजायते वंशाद् देहरन्ध्रात् तथैव हि
कनीनिकापरिस्पन्दश् चक्षुस्स्पन्दश् च मारुतात् । इन्द्रियस्फुरणं चैव संवित् केवलम् आत्मनः
आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता । प्रतिबिम्बम् इवादर्शे चित्त एव च दृश्यते