प्राप्तुं स्वां पदवीं पुण्यां यत्नवन्तम् इमं जनम् । शैलसंस्थ इवाधस्स्थं हसन् पश्यति धीरधीः
अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दैकान्तलीनत्वाद् अनानन्दपदं गतः
अनानन्दमहानन्दः कलातीतस् ततो ऽपि हि । मुक्त इत्य् उच्यते योगी तुर्यातीतपदं गतः
परिगलितसमस्तजन्मपाशस् सकलविहीनमनोमयाभिमानः । परमरसमयीं प्रयाति सत्तां जलगतसैन्धवखण्डवन् महात्मा
यावत् तुर्यपरामर्शस् तावत् केवलतापदम् । जीवन्मुक्तस्य विषयो वचसां च रघूद्वह
अत ऊर्ध्वं सदेहानां मुक्तानां वचसां तथा । विषयो न महाबाहो पुरुषाणां इवाम्बरम्
सा हि विश्रान्तिपदवी दूरेभ्यो ऽपि दवीयसी । गम्या विदेहमुक्तानां खलेखेव नभस्वताम्
सुषुप्तावस्थया कञ्चित् कालं भुक्त्वा जगत्स्थितिम् । तुर्यताम् एत्य तदनु परमानन्दघूर्णिताः
तुर्यातीतां दशां तज्ज्ञा यथा यान्त्य् आत्मकोविदाः । तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह
सुषुप्तावस्थया राम भव संव्यवहारवान् । चित्रेन्दोर् इव ते न स्तः क्षयोद्वेगाव् अरिन्दम
शरीरसन्निवेशस्य क्षये स्थैर्ये च संविदम् । मा गृहाण भ्रमो ह्य् एष शरीरम् इति जृम्भते
देहनाशेन को ऽर्थस् ते को ऽर्थस् ते देहसंस्थया । भव त्वं प्रकृतारम्भस् तिष्ठत्व् एष यथास्थितम्
ज्ञातवान् असि तत् सत्यं बुद्धवान् असि तत् पदम् । प्राप्तवान् असि रूपं स्वं विशोको भव भूतये
ईप्सितानीप्सितत्यक्तश् शीतलालोकशोभया । अन्धकारातपाम्भोदमुक्तं खम् इव शोभसे
मनस् तवात्मा सम्पन्नं नाधस् समनुधावति । योगमन्त्रतपस्सिद्धः पुरुषः खाद् इवावनिम्
इह शुद्धा चिद् एवास्ति पारावारविवर्जिता । अयं सो ऽहम् इदं तन् मे इति ते मास्तु विभ्रमः
आत्मेति व्यवहारार्थम् अभिधा कल्पिता विभोः । नामरूपादिभेदास् तु दूरम् अस्माद् अलं गताः
जलम् एव यथाम्भोधिर् न तरङ्गादिकं पृथक् । आत्मैवेदं तथा सर्वं न भूतौघादिकं पृथक्
यथा समस्ताज् जलधेर् जलाद् अन्यन् न लभ्यते । तथैव जगतस् स्फाराद् आत्मनो ऽन्यन् न लभ्यते
अयं सो ऽहम् इति प्राज्ञ क्व करोषि व्यवस्थितिम् । किं तत् त्वं किं च वा ते स्यात् किं न त्वं किं च वा न ते
न द्वित्वम् अस्ति नो देहस् सम्बन्धो न च तैश् चितः । सम्भवत्य् अकलङ्काया भानोर् इव तमःपटैः
द्वित्वम् अभ्युपगम्यापि कथयामि तवारिहन् । देहादिभिस् सद्भिर् अपि न सम्बन्धो विभोर् भवेत्
छायातपप्रसरयोः प्रकाशतमसोर् यथा । न सम्भवति सम्बन्धस् तथा वै देहदेहिनोः
यथा शीतोष्णयोर् नित्यं परस्परविरुद्धयोः । न सम्भवति सम्बन्धो राम देहात्मनोस् तथा
अविनाभावितार्थस् तु सम्बन्धः कथम् एतयोः । जडचेतनयोर् देहदेहिनोर् अनुभूयते
चिन्मात्रेणात्मना देहस् सम्बद्ध इति या कथा । सैषा दुरवबोधोत्था दावाग्नौ जलधीर् यथा
सत्यावलोकनेनैषा मिथ्यादृष्टिर् विनश्यति । अवलोकनया सम्यग् आतपे जलधीर् यथा
चिदात्मा निर्मलो नित्यस् स्वावभासो निरामयः । देहस् त्व् अनित्यो मलवांस् तेन सम्बध्यते कथम्
स्पन्दम् आयाति वातेन भूतैर् आपीवरीकृतः । देहस् तेन न सम्बन्धो मनाग् एव महात्मनः
सिद्धे द्वित्वे ऽपि देहस्य न सम्बन्धस्य सम्भवः । द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः