निर्वाणम् आत्मनि गतस् सततोदितात्मा जीवो भुवि व्यवहरन्न् अपि रामभद्र । नासङ्गम् एति गतसङ्गतया फलेन कर्मोद्भवेन हसतीव च देहम् आरात्
असंसङ्गसुखध्यानसंस्थितैर् विदितात्मभिः । व्यवहारिभिर् अप्य् अन्तर् वीतशोकैर् अवस्थितम्
प्रक्षुब्धाक्षुब्धदेहस्य विसंवेदनसंविदः । अन्तःपूर्णस्य वदने श्रीर् इन्दोर् इव लक्ष्यते
चेत्यहीनचिदालम्बि मनो यस्य गतज्वरम् । तेनाम्बु कतकेनेव जनता सम्प्रसीदति
नित्यम् आत्मदृगालीनो ज्ञस् स्वस्थश् चञ्चलो ऽपि सन् । क्षुब्धो दृश्यत एवासौ प्रतिबिम्बार्कवन् मुधा
आत्मारामा महात्मानः प्रबुद्धाः परमोदयाः । बहिः पिञ्छाग्रतरला अन्तर् मेरुर् इवाचलाः
चित्तम् आत्मत्वम् आयातं सुखदुःखानुरञ्जनाम् । नोपैति रङ्गसंयोगं मसृणस् स्फटिको यथा
संसारदृष्टिर् उदिता ज्ञातलोकपरावरम् । न रञ्जयति सच्चित्तं जललेखा यथाम्बुजम्
आत्मध्यानमयो ऽध्यानी प्रबोधं परम् आगतः । कलनामलनिर्मुक्तस् त्व् असक्त इति कथ्यते
आत्मारामतया जीवो यात्य् असंसक्तताम् इह । आत्मज्ञानेन संसङ्गस् तनुताम् एति नान्यथा
जाग्रत्य् एव सुषुप्तस्थो जीवो भवति राघव । अस्यां दृशि गतद्वन्द्वो नित्यानस्तमयोदयः
अत्र प्रौढिम् उपायातस् तुर्यताम् एति पावनीम् । परिणामवशाद् इन्दुर् अमावस्यार्कताम् इव
चित्त्वे चेत्यदशाहीने या स्थितिः क्षीणचेतसः । सोच्यते शान्तकलना जाग्रत्य् एव सुषुप्तता
तां च सुप्तदशाम् एत्य जीवन् व्यवहरन् नरः । सुखदुःखवरत्राभिर् न कदाचन कृष्यते
जाग्रत्य् एव सुषुप्तस्थो यः करोति जगत्क्रियाम् । तं यन्त्रपुत्रकम् इव नायाति सुखदुःखदृक्
चित्तस्य बाधिका सक्तिर् भावाभावोपतापदा । आत्मताम् आगते चित्ते कस्य किं बाधते कथम्
सुषुप्तबुद्धिः कर्माणि पूर्वहेवाकहेलया । कुर्वन् न बध्यते जीवो जीवन्मुक्ततया स्थितः
सौषुप्तीं वृत्तिम् आश्रित्य कुरु मा कुरु वानघ । कर्म प्रकृतिहेवाकवशाद् उपगतं स्वकम्
नादानं न परित्यागः कर्मणो ज्ञाय रोचते । तिष्ठन्त्य् अधिगतात्मानो यथाप्राप्तानुवर्तिनः
कुर्वन्न् अपि न कर्तासि सुषुप्तैकस्थया धिया । अकर्तापि च कर्तासि यथेच्छसि तथा कुरु
यथा न किञ्चित् कलयन् मञ्चके स्पन्दते शिशुः । तथा फलाद्य् अकलयन् कुरु कर्माणि राघव
अचेत्यचित्पदस्थत्वाज् जाग्रत्य् अपि सुषुप्तधीः । यद् यत् करोति लब्धात्मा तस्मिंस् तस्य न कर्तृता
दशाम् आसाद्य सौषुप्तीं स्वविदैव विवासनः । अन्तश्शीतलताम् एति ज्ञो रसेन यथा शशी
सुषुप्तस्थो महातेजा घूर्णन् पूर्णेन्दुबिम्बवत् । समस् सर्वास्व् अवस्थासु भवत्य् अद्रिर् यथर्तुषु
सुषुप्तसंस्थो धीरात्मा बहिर् आयाति लोलताम् । क्रियासु नान्तर् भूकम्पप्रस्पन्दित इवाचलः
सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः । घातयाश्व् अथ वा दीर्घं कालं धारय शैलवत्
एषैव राम सौषुप्ती स्थितिर् अभ्यासयोगतः । प्रौढा सती तुर्यम् इति कथिता तत्त्वकोविदैः
आनन्दमय एवात्र प्रक्षीणसकलामयः । अत्यन्तास्तङ्गतमना भवति ज्ञो महोदयः
अत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः । लीलाम् इवेमां रचनां सांसारीम् अनुपश्यति
वीतशोकभयायासो गतसंसारसम्भ्रमः । तुर्यावस्थाम् उपारूढो भूयः पतति नात्मवान्