कश्चिन् मां प्रेरयत्य् एवम् इत्य् अनर्थकुकल्पने । यस् स्थितो दृष्टम् उत्सृज्य त्याज्यो ऽसौ दूरतो ऽधमः
व्यवहारसहस्राणि यान्य् उपायान्ति यान्ति च । यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे
यथाशास्त्रम् अनुच्छिन्नां मर्यादां स्वाम् अनुज्झतः । उपतिष्ठन्ति सर्वाणि रत्नान्य् अम्बुनिधेर् इव
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता
क्रियायास् स्पन्दधर्मिण्यास् स्वार्थसाधकता स्वयम् । साधुसङ्गमसच्छास्त्रतीक्ष्णयाभ्यूह्यते धिया
अनन्तं समतानन्दं परमार्थं विदुर् बुधाः । स येभ्यः प्राप्यते ऽत्यन्तं ते सेव्याश् शास्त्रसाधवः
प्राक्तनं पौरुषं तच् चेद् दैवशब्देन कथ्यते । तद् युक्तम् एतद् एतस्मिन् नाम्नि नापवदामहे
मूढैः प्रकल्पितं दैवम् अन्यद् यैस् ते क्षयं गताः । नित्यं स्वपौरुषाद् एव लोकद्वयहितं भवेत्
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव
करामलकवद् दृष्टं पौरुषाद् एव यत् फलम् । मूढः प्रत्यक्षम् उत्सृज्य दैवमोहे निमज्जति
सकलकारणकार्यविवर्जितं निजविकल्पबलाद् उपकल्पितम् । तद् अनपेक्ष्य हि दैवम् असन्मयं श्रय शुभाशय पौरुषम् आत्मनः
शास्त्रैस् सदाचरितजृंभितदेशधर्मैर् यत् कल्पितं फलम् अतीव चिरप्ररूढम् । तस्मिन् हृदि स्फुरति नो ऽपरम् एति चित्तम् अङ्गावली तदनु पौरुषम् एतद् आहुः
बुद्ध्वैव पौरुषफलं पुरुषत्वम् एतद् आत्मप्रयत्नपरतैव सदैव कार्या । नेया ततस् सफलतां परमाम् अथासौ सच्छास्त्रसाधुजनपण्डितसेवनेन
दैवपौरुषविचारचारुभिश् चेतसा चरितम् आत्मपौरुषम् । नित्यम् एव जयतीति भावितैः कार्य आर्यजनसेवनोद्यमः
जन्मप्रबन्धमयम् आमयम् एष जीवो बुद्ध्वैहिकं सहजपौरुषम् एव सिद्ध्यै । शान्तिं नयत्व् अवितथेन वरौषधेन पृष्टेन तुष्टिपरपण्डितसेवनेन
प्राप्य व्याधिविनिर्मुक्तं देहम् अल्पाधिवेधितम् । तथात्मानं समादध्याद् यथा भूयो न जायते
दैवं पुरुषकारेण यो ऽतिवर्तितुम् इच्छति । इह चामुत्र च जयेत् स सम्पूर्णाभिवाञ्छितम्
ये समुद्योगम् उत्सृज्य स्थिता दैवपरायणाः । ते धर्मम् अर्थकामौ च नाशयन्त्य् आत्मविद्विषः
संवित्स्पन्दो मनस्स्पन्द इन्द्रियस्पन्द एव च । एतानि पुरुषार्थस्य रूपाण्य् एभ्यः फलोदयः
यथा संवेदनं चेतस् तथान्तस्स्पन्दम् ऋच्छति । तथैव कायश् चलति तथैव फलभोक्तृता
आबाल्यम् एतत् संसिद्धं यत्र तत्र यथा तथा । दैवं तु न क्वचिद् दृष्टम् अतो जयति पौरुषम्
पुरुषार्थेन देवेशगुरुर् एष बृहस्पतिः । शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः
दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः । पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम्
महान्तो विभवाढ्या ये नानाश्चर्यसमाश्रयाः । पौरुषेणैव दोषेण नरकातिथितां गताः
भावाभावसहस्रेषु दशासु विविधासु च । स्वपौरुषवशाद् एव विवृत्ता भूतजातयः
शास्त्रतो गुरुतश् चैव स्वतश् चेति त्रिसिद्धता । सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन
अशुभेषु समाविष्टं शुभेष्व् एवावतारयेत् । यत्नेन चित्तम् इत्य् आशु सर्वशास्त्रार्थसङ्ग्रहः
यच् छ्रेयो यद् अतुच्छं च यद् अपायविवर्जितम् । तत् तद् आचर यत्नेन पुत्रेति गुरवस् स्थिताः
यथा यथा प्रयत्नो मे फलम् आशु तथा तथा । इत्य् अहं पौरुषाद् एव फलभाङ् न तु दैवतः
पौरुषाद् दृश्यते सिद्धिः पौरुषो धीमतां क्रमः । दैवम् आश्वासनामात्रं दुःखे पेलवबुद्धिषु