परस्परनिगीर्णाङ्गी जनता जाड्यजर्जरा । सम्भ्रान्ता प्रभ्रमत्य् अङ्ग शीर्णं पर्णम् इवाम्बरे
नक्षत्रचक्रं गगने क्षमामषकसन्ततम् । स्फुरत्य् आवर्तवृत्त्यैव पातालगजलौघवत्
पातोत्पातदशाजीर्णं कालबालककन्दुकम् । अद्यापि न जहातीन्दुर् जडिम्ना मलिनं वपुः
नानायुगपरावर्तदुःखालोकनकर्कशम् । न लुनाति मनष्षण्डं दिवि गीर्वाणमण्डलम्
वासनामात्रवशतः परे व्योमनि केनचित् । इदम् आरचितं चित्रं विचित्रं पश्य राघव
मनस्सङ्गैकरङ्गेण शून्ये व्योम्नि जगन्मयम् । यद् इदं रचितं चित्रं न तत् सत्यं कदाचन
संसक्तमनसाम् अस्मिन् संसारे व्यवहारिणाम् । अत्ति तृष्णा शरीराणि तृणान्य् अग्निशिखा यथा
परिसक्तमतेर् देहान् सिकताः पत्युर् अम्भसाम् । कश् शक्तः परिसङ्ख्यातुं परमाणुगणं तथा
मुक्तालताया गङ्गाया मेरोर् आपादमस्तकम् । तरङ्गमुक्ता गण्यन्ते न देहास् सक्तचेतसः
संसक्तचित्तम् आयान्ति सर्वा दुःखपरम्पराः । जडकल्लोलवलिता महानद्य इवाम्बुधिम्
संसक्तमनसाम् एता रम्यान्तःपुरपङ्क्तयः । रचिता रौरवावीचिकालसूत्रादिनामिकाः
सक्तचित्तं जनं दुःखशुष्कम् इन्धनसञ्चयम् । ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते
दुःखजालम् इदं राम यत् किञ्चिज् जगतीगतम् । संसक्तमनसाम् अर्थे तत् सर्वं परिकल्पितम्
मनस्संसङ्गधर्मिण्या भारभूतशरीरया । क्षयोदयदशार्थिन्या सर्वं ततम् अविद्यया
असंसङ्गेन भोगानां सर्वा राम विभूतयः । परं विस्तारम् आयान्ति प्रावृषीव महापगाः
अन्तस्संसङ्गम् अङ्गानाम् अङ्गारं विद्धि राघव । अनन्तस्सङ्गम् अङ्गानां विद्धि राम रसायनम्
संसङ्गेनान्तरस्थेन दह्यते प्रकृतिस् स्वयम् । स्वफलोत्थेनैडकाक्षी पावकेन यथौषधिः
सर्वत्रासक्तम् आशक्तम् अनन्तम् इव संस्थितम् । असङ्कल्पं सदाभासं सुखायैव मनो भवेत्
विद्यादृशि प्रोदयम् आगतेन क्षयं त्व् अविद्याविषयं गतेन । सर्वत्र संसक्तिविवर्जितेन स्वचेतसा तिष्ठति यस् स मुक्तः
सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता । सर्वकर्मरतेनापि मनः कार्यं विजानता
न सक्तम् इह चिन्तासु न चेष्टासु न वस्तुषु । नाकाशे नाप्य् अधोभागे न दिक्षु न लतासु च
न बहिर् विपुलाभोगे न चैवेन्द्रियवृत्तिषु । नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि
न भ्रूमध्ये न नासान्ते न मुखे न खतारके । नान्धकारे न चाभासे न चास्मिन् हृदयाम्बरे
न जाग्रति न च स्वप्ने न सुषुप्ते न निर्मले । नासिते न च वा पीते रक्तादौ शबले ऽपि च
न स्थिरे न चले नादौ न मध्ये नेतरत्र च । न दूरे नान्तिके नाङ्गे न पदार्थे न चात्मनि
न शब्दस्पर्शरूपेषु न मोहानन्दवृत्तिषु । न गमागमचेष्टासु न कालकलनासु च
केवलं चिति विश्रम्य किञ्चिच् चेत्यावलम्बतः । सर्वत्र नीरसम् इव तिष्ठत्व् आत्मरसं मनः
तत्रस्थो विगतासङ्गो जीवो ऽजीवत्वम् आगतः । व्यवहारम् इमं सर्वं मा करोतु करोतु वा
अकुर्वन् वापि कुर्वन् वा जीवस् स्वात्मरतिक्रियाम् । क्रियाफलैर् न सम्बन्धम् आयाति खम् इवाम्बुदैः
अथ वा तम् अपि त्यक्त्वा चेत्यांशं शान्तचिद्घनः । जीवस् तिष्ठतु संशान्तं ज्वलन् मणिर् इवात्मनि