देहदेहिविभागैकपरित्यागे न भावना । देहमात्रे तु विश्वासस् सङ्गो बन्धार्ह उच्यते
अनन्तस्यात्मतत्त्वस्य सपर्यन्तविनिश्चये । यत् सुखार्थित्वम् अन्तस् स सङ्गो बन्धार्ह उच्यते
सर्वम् आत्मेदम् अखिलं किं वाञ्छामि त्यजामि किम् । इत्य् असङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम्
नाहम् अस्मि न चान्यो ऽस्ति मा भवन्तु भवन्तु वा । सुखान्य् असक्त इत्य् अन्तः कथ्यते मुक्तिभाङ् नरः
नाभिनन्दति नैष्कर्म्यं न कर्मप्रकृतेहितः । सुसमो यः फलत्यागी सो ऽसंसक्त इति स्मृतः
आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः । यस्य नायात्य् असक्तो ऽसौ जीवन्मुक्तश् च कथ्यते
सर्वकर्मफलादीनां मनसैव न कर्मणा । निपुणं यः परित्यागस् सो ऽसंसङ्ग इति स्मृतः
असंसङ्गेन सकलाश् चेष्टा नानाविजृम्भिताः । चिकित्सिता भवन्त्य् अङ्ग श्रेयस् सम्पादयन्ति च
संसक्तिवशतस् सर्वे वितता दुःखराशयः । प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत्
रज्जुकृष्टघनघ्राणो यद् गन्त्र्याः पथि गर्दभः । भारं वहति भीतात्मा तत् संसक्तिविजृम्भितम्
शीतवातातपक्लेशम् एकदेशनिषण्णया । तरुर् वहति यत् तन्वा तत् संसङ्गविजृम्भितम्
धराविवरनिर्मग्नो यत् कीटः पीडिताङ्गकः । क्षिणोति विकलः कालं तत् संसङ्गविजृम्भितम्
दूर्वाङ्कुरतृणाहारः किरातशरपीडया । जहाति यन् मृगो देहं तत् संसङ्गविजृम्भितम्
वीरुत्तृणदशां याता लूयन्ते यत् पुनः पुनः । नानाविगतसञ्चारास् तत् संसक्तिविजृम्भितम्
रसातलरसायोगात् तृणगुल्मलतादयः । जनयन्ति यद् आकारं तत् संसक्तिविजृम्भितम्
उत्पत्योत्पत्य लीयन्ते तरङ्गिणि तरङ्गवत् । भूतानि यद् अनन्तानि तत् संसक्तिविजृम्भितम्
शान्तैवानन्तसङ्काशा पदार्थशतसङ्कुला । यत् संसारनदी मत्ता तत् संसक्तिविजृम्भितम्
सक्तिर् हि द्विविधा प्रोक्ता वन्ध्या वन्द्या च राघव । वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा
आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा । भूयस्संसारदा सक्तिर् दृढा वन्ध्येति कथ्यते
आत्मतत्त्वावबोधेन सत्यभूता विवेकजा । वन्द्या हि कथ्यते सक्तिर् भूयस्संसारवर्जिता
शङ्खचक्रगदाहस्तो देहो विविधयेहया । वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम्
अनारतं निरालम्बे व्योमवर्त्मनि पान्थताम् । वन्द्यसंसक्तिवशतः करोति रविर् अन्वहम्
महाकल्पसमाधानधीरकल्पितकल्पनम् । वन्द्यसंसक्तिवशतो ब्राह्मं स्फुरति वै वपुः
लीलया ललनालाननिलीनं भूतिभूषितम् । वन्द्यसंसक्तिवशतश् शरीरं शाङ्करं स्थितम्
विज्ञातगतयस् सिद्धा लोकपालास् तथेतरे । वन्द्यसंसक्तिवशतस् तिष्ठन्ति जगतां गणे
धत्ते शरीरयन्त्रौघम् अन्येयं भूतसन्ततिः । वन्ध्यसंसक्तिवशतो जरामृतिविवर्तितम्
मनः पतति भोगेषु गृध्रो मांसलवेष्व् इव । वन्ध्यसक्तिवशाद् एव व्यर्थया रस्यशङ्कया
संसक्तिवशतो वाति वायुर् भुवनकोटरे । पञ्चभूतानि तिष्ठन्ति वहतीयं जगत्स्थितिः
दिवि देवा भुवि नराः पाताले भोगिनो ऽसुराः । ब्रह्माण्डोदुम्बरफले स्फुरन्मषकवत् स्थिताः
जायन्ते च म्रियन्ते च निपतन्त्य् उत्पतन्ति च । भूतान्य् अविरतं भूयो निर्झराम्बुकणा इव