देहभावनयैवात्मा देहदुःखवशे स्थितः । तत्त्यागेन ततो मुक्तो भवतीति विदुर् बुधाः
अन्तस्सङ्गविहीनत्वाद् दुःखवन्त्य् अङ्ग नो यथा । पत्त्राम्बूपलदारूणि श्लिष्टान्य् अपि परस्परम्
अन्तस्सङ्गेन रहिता यान्ति निर्दुःखतां पराम् । श्लिष्टा अपि तथैवात्मा देहेन्द्रियमनांस्य् अलम्
अन्तस्सङ्गो हि संसारे सर्वेषां नाम देहिनाम् । जरामरणमोहानां तरूणां बीजकारणम्
अन्तस्संसङ्गवाञ् जन्तुर् मग्नस् संसारसागरे । अन्तस्संसङ्गमुक्तस् तु तीर्णस् संसारसागरात्
अन्तस्संसङ्गवच् चित्तं शतशाखम् इहोच्यते । अन्तस्संसङ्गरहितं विलीनं चित्तम् उच्यते
भग्नस्फटिकवद् विद्धि मनस् सक्तम् अपावनम् । अभग्नस्फटिकाभासम् असक्तं विद्धि वै मनः
असक्तं निर्मलं चित्तं मुक्तं संसार्य् अपि स्फुटम् । सक्तं तु दीर्घतपसा युक्तम् अप्य् अतिबन्धवत्
अन्तस्सक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् । अन्तस्संसक्तिर् एवैकं कारणं बन्धमोक्षयोः
अन्तस्संसक्तिमुक्तस्य कुर्वतो ऽपि न कर्तृता । सुखदुःखवति स्वप्ने सम्भ्रमोन्मुखता यथा
चित्ते कर्तरि कर्तृत्वम् अदेहस्यापि विद्यते । स्वप्नादाव् इव विक्षुब्धसुखदुःखदशामयम्
अकर्तरि मनस्य् अन्तर् अकर्तृत्वं स्फुटं भवेत् । शून्यचित्तो हि पुरुषः कुर्वन्न् अपि न चेतति
चेतसा कृतम् आप्नोषि चेतसा न कृतं न तु । न क्वचित् कारणं देहो न चित्तम् अपि कर्तृ वै
असंसक्तम् अकर्त्र् एव कुर्वद् एव मनो विदुः । न कर्मफलभोक्तृत्वम् असक्तं प्रतिपद्यते
ब्रह्महत्याश्वमेधाभ्याम् असंसक्तो न लिप्यते । दूरस्थकान्तासंसक्तमनाः कार्यैर् इवाग्रगैः
अन्तस्संसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् । बहिः कुर्वन्न् अकुर्वन् वा कर्ता भोक्ता न हि क्वचित्
अन्तस्संसक्तिमुक्तं यन् मनस् स्यात् तद् अकर्तृकम् । तद् वियुक्तं प्रशान्तं तत् तद् युक्तं तद् अलेपकम्
तत् स्यात् सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः । सर्वदुःखकरीं क्रूराम् अन्तस्सक्तिं विवर्जयेत्
विरहितम् अलम् अन्तस्सङ्गदोषेण चेतश् शमम् उपगतम् आद्यं व्योमवन् निर्मलाभम् । सकलकलनमुक्तेनात्मनैकत्वम् एति स्थिरम् अलिनिभम् अम्भो वारिणीवालिनीले
कीदृशो भगवन् सङ्गः कश् च बन्धाय वै नृणाम् । कश् च मोक्षाय कथितः कथं चैष चिकित्स्यते
देहदेहिविभागैकपरित्यागे न भावना । देहमात्रे तु विश्वासस् सङ्गो बन्धार्ह उच्यते
अनन्तस्यात्मतत्त्वस्य सपर्यन्तविनिश्चये । यत् सुखार्थित्वम् अन्तस् स सङ्गो बन्धार्ह उच्यते
सर्वम् आत्मेदम् अखिलं किं वाञ्छामि त्यजामि किम् । इत्य् असङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम्
नाहम् अस्मि न चान्यो ऽस्ति मा भवन्तु भवन्तु वा । सुखान्य् असक्त इत्य् अन्तः कथ्यते मुक्तिभाङ् नरः
नाभिनन्दति नैष्कर्म्यं न कर्मप्रकृतेहितः । सुसमो यः फलत्यागी सो ऽसंसक्त इति स्मृतः
आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः । यस्य नायात्य् असक्तो ऽसौ जीवन्मुक्तश् च कथ्यते
सर्वकर्मफलादीनां मनसैव न कर्मणा । निपुणं यः परित्यागस् सो ऽसंसङ्ग इति स्मृतः
असंसङ्गेन सकलाश् चेष्टा नानाविजृम्भिताः । चिकित्सिता भवन्त्य् अङ्ग श्रेयस् सम्पादयन्ति च
संसक्तिवशतस् सर्वे वितता दुःखराशयः । प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत्
रज्जुकृष्टघनघ्राणो यद् गन्त्र्याः पथि गर्दभः । भारं वहति भीतात्मा तत् संसक्तिविजृम्भितम्