मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किम् आगतम् । तरङ्गे रजसा म्लाने वैपरीत्यं किम् अम्बुधेः
के भवन्त्य् अयसां हंसाः पयसाम् उपलाश् च के । काश् शिलाः किल दारूणां के भोगाः परमात्मनः
सम्बन्धः क इवाग्राशाशैलापरसमुद्रयोः । अन्तरे दूरसम्बाधे कश् च चित्तत्त्वबन्धयोः
अप्य् उत्सङ्गोह्यमानानि काष्ठानि सरिदम्भसाम् । कानि नाम भवन्तीह शरीराणि तथात्मनः
सङ्घट्टात् काष्ठपयसां यथोत्तुङ्गाः कणादयः । देहात्मनोस् समायोगात् तथैताश् चित्तवृत्तयः
सम्बन्धाद् दारुपयसां प्रतिबिम्बानि दारुतः । यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि
यथा दर्पणवार्यादौ प्रतिबिम्बानि वस्तुतः । नासत्यानि न सत्यानि शरीराणि तथात्मनि
दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् । संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः
दारुसंवेल्लितात् तोयात् कम्पशब्दादयो यथा । प्रजायन्ते तथैवास्माद् देहाच् चित्परिबोधितात्
न बुद्धजडयोर् एतास् संविदश् चिच्छरीरयोः । एता ह्य् अज्ञानमात्रस्य तस्मिन् नष्टे तद् एव ताः
यथा न कस्यचिद् दारुवारिश्लेषे ऽनुभूतयः । तथा न कस्यचिद् देहदेहिसङ्गे ऽनुभूतयः
अज्ञस्यायं यथा दृष्टस् संसारस् सत्यतां गतः । तज्ज्ञस्यायं तथा नष्टस् संसारो ऽसत्यतां गतः
अन्तस्सङ्गविहीनास् ते यथा स्नेहा दृषत्तले । तथासक्तमनोवृत्तौ बाह्याभोगानुभूतयः
अन्तस्सङ्गेन रहितो यद्वत् सलिलकाष्ठयोः । सम्बन्धस् तद्वद् एवान्तर् असङ्गो देहदेहिनोः
अन्तस्सङ्गेन रहितस् सम्बन्धो जलकाष्ठयोः । ज्ञदेहदेहिनोश् चैव प्रतिबिम्बाम्भसोस् तथा
स्थिता सर्वत्र संवित्तिश् शुद्धा संवेद्यवर्जिता । द्वित्वोपलाञ्छिता त्व् अन्या दुस्संवित्तिर् न विद्यते
अदुःखम् एति दुःखत्वम् अन्तस्संवेदनात् स्फुटम् । स्थाणुर् भवति वेतालो वेतालत्वेन भावितः
असम्बन्धो हि सम्बन्धो भवत्य् अन्तर्विनिश्चयात् । स्वप्नाङ्गनासुरतवत् स्थाणुवेतालभङ्गवत्
असत्प्रायो हि सम्बन्धो यथा सलिलकाष्ठयोः । तथैव मिथ्या सम्बन्धश् शरीरपरमात्मनोः
अन्तस्सङ्गं विना नाम्बु काष्ठाघातैः प्रमुह्यते । आत्मान्तस्सङ्गरहितो देहदुःखैर् न दह्यते
देहभावनयैवात्मा देहदुःखवशे स्थितः । तत्त्यागेन ततो मुक्तो भवतीति विदुर् बुधाः
अन्तस्सङ्गविहीनत्वाद् दुःखवन्त्य् अङ्ग नो यथा । पत्त्राम्बूपलदारूणि श्लिष्टान्य् अपि परस्परम्
अन्तस्सङ्गेन रहिता यान्ति निर्दुःखतां पराम् । श्लिष्टा अपि तथैवात्मा देहेन्द्रियमनांस्य् अलम्
अन्तस्सङ्गो हि संसारे सर्वेषां नाम देहिनाम् । जरामरणमोहानां तरूणां बीजकारणम्
अन्तस्संसङ्गवाञ् जन्तुर् मग्नस् संसारसागरे । अन्तस्संसङ्गमुक्तस् तु तीर्णस् संसारसागरात्
अन्तस्संसङ्गवच् चित्तं शतशाखम् इहोच्यते । अन्तस्संसङ्गरहितं विलीनं चित्तम् उच्यते
भग्नस्फटिकवद् विद्धि मनस् सक्तम् अपावनम् । अभग्नस्फटिकाभासम् असक्तं विद्धि वै मनः
असक्तं निर्मलं चित्तं मुक्तं संसार्य् अपि स्फुटम् । सक्तं तु दीर्घतपसा युक्तम् अप्य् अतिबन्धवत्
अन्तस्सक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् । अन्तस्संसक्तिर् एवैकं कारणं बन्धमोक्षयोः
अन्तस्संसक्तिमुक्तस्य कुर्वतो ऽपि न कर्तृता । सुखदुःखवति स्वप्ने सम्भ्रमोन्मुखता यथा